एकपादत्रिमूर्तिप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि त्रिमूर्त्येकपदं यथा
सर्वलोकहितं पुण्यं सङ्क्षेपं श्रुणु षण्मुख ॥ १ ॥
त्रिणेत्रं चतुर्भुजं शान्तं जटामकुटमण्डितम्
टङ्कशूलधरञ्चैव अभयं वरदन्तथा ॥ २ ॥
मुक्ताकुण्डलसंयुक्तम् एकपादं प्रकीर्तितम्
पद्मपीठोपरिस्थञ्च सर्वाभरणसंयुतम् ॥ ३ ॥
यद्वा चतुर्भुजं शान्तं कुण्डलाभरणोज्वलम्
टङ्ककृष्णमृगञ्चैव अभयं वरदन्तथा ॥ ४ ॥
एकपादेन संयुक्तं कटिदेशात् द्विपार्श्वयोः
सव्ये धाता चतुर्बाहुं स्रक्कमण्डलुधारिणम् ॥ ५ ॥
अञ्जलीकरसंयुक्तम् एकपादेन कुञ्चितम्
वामे विष्णुं चतुर्बाहुं शङ्खचक्राञ्जलीपुटम् ॥ ६ ॥
किरीटमकुटोपेतम् एकपादेन कुञ्चितम्
त्रिमूर्तिपादमेवोक्तं प्रभामण्डलधारिणम् ॥ ७ ॥
पूर्वोक्तयागशालाञ्च नवभागं प्रकीर्तितम्
मद्ध्ये वेदिं प्रकल्प्याथ दशकुम्भं न्यसेत्ततः ॥ ८ ॥
परिवारघटान्न्यस्य पूर्ववन्मण्टपं यजेत्
नयनोन्मीलनङ्कृत्वा जलक्रीडां समर्चयेत् ॥ ९ ॥
देवं कुम्भे समभ्यर्च्य आसनं मूर्तिमर्चयेत्
प्रणवं पूर्वमुच्चार्य लकारन्तु ततः परम् ॥ १० ॥
क्रीङ्कारन्तु ततः पश्चात्त्रिमूर्त्त्यात्मन्नमोन्तकम्
अर्चयेद्विधिवत्पश्चात्पञ्चावरणमार्गतः ॥ ११ ॥
तोरणादीन्प्रपूज्याथ होमयेत्तु विशेषतः
त्रिखण्डं होमयेत्पश्चात् रत्नन्यासमतः परम् ॥ १२ ॥
सुमुहूर्त्ते सुलग्ने च स्थापयित्वा विशेषतः
कुम्भात् बीजं समादाय बिम्बे संयोजयेत्ततः ॥ १३ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं समाराधयतस्सराजा विजयी भवेत् ॥ १४ ॥
इति एकपादत्रिमूर्तिप्रतिष्ठापटलष्षट्षष्टितमः