विषापहरणस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि विषापहरणेश्वरम्
चतुर्भुजं त्रिणेत्रञ्च किञ्चिद्दंष्ट्रकरालनम् ॥ १ ॥
जटारत्ननिभं विद्यात्पूर्णचन्दनिभाकृतिम्
त्रिशूलं खण्डिकाञ्चैव गोकर्णाकृतिदक्षिणे ॥ २ ॥
कपालं वामहस्ते च वामे गौरीसमायुतम्
वामपादन्तु शयनं लम्बितं सव्यपादकम् ॥ ३ ॥
महोक्षस्थं महाभीमं कालकूटविषाशनम्
कुण्डमद्ध्ये महाकालम् आबद्ध्य गौरिपाणिना ॥ ४ ॥
व्याघ्रचर्माम्बरधरं किङ्किणी मालया वृतम्
वृश्चिकाभरणोपेतं सर्वाभरणभूषितम् ॥ ५ ॥
एवं महेश्वरन्ध्यात्वा प्रतिष्ठां साधकोत्तमः
पूर्ववद्यागशालाञ्च मद्ध्ये वेदिं प्रकल्पयेत् ॥ ६ ॥
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा
पूर्वाशादि चतुर्दिक्षु चतुरश्रं प्रकल्पयेत् ॥ ७ ॥
आग्नेय्यादि चतुर्दिक्षु योनिकुण्डं प्रकल्पयेत्
प्रधानं वृत्तकुण्डञ्च पूर्ववन्मण्टपाकृतिम् ॥ ८ ॥
नयनोन्मीलनं कृत्वा जलशय्यां समाचरेत्
शयनारोपणञ्चैव कुम्भे चावाहयेत्पुरा ॥ ९ ॥
क्षित्यादिकुटिलप्रान्तं मन्त्रसिह्मासनं यजेत्
आसनं मूर्तिमभ्यर्च्य अञ्जलीकरसंयुतम् ॥ १० ॥
प्रणवं पूर्वमुच्चार्य व्योमिन्व्योमिन्तथैव च
नीलकण्ठाय इत्याख्यं नमोन्तमर्चयेत् बुधः ॥ ११ ॥
पञ्चावरणमार्गेण पूजयित्वा यथाविधि
कुण्डसंस्कारपूर्वञ्च अग्निसंस्कारमेव वा ॥ १२ ॥
स्रुवसंस्कारमेवन्तु आज्यसंस्कारतः परम्
बालयौवनवृद्धाख्यं होमयेदुक्तमन्त्रतः ॥ १३ ॥
सायम्प्रातर्हुनेच्चैव कालं प्रतिनिवेदनम्
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः ॥ १४ ॥
अग्निस्थं योजयेत्कुम्भे बिम्बं संयोजयेत् घटे
हविर्दत्वा निवेद्याथ उपचारान्समर्चयेत् ॥ १५ ॥
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः
एवं यः कुरुते मर्त्यः सायुज्य पदमाप्नुयात् ॥ १६ ॥
इति विषापहरणस्थापनपटलः पञ्चषष्टितमः