०६४ चण्डेशानुग्रहस्थापनपटलः

चण्डेशानुग्रहस्थापनपटलप्रारम्भः
अथ वक्ष्ये विशेषेण चण्डेशानुग्रहं पुरा
सर्वलोकहितार्त्थाय ज्ञानिनां मुक्तिकारणम् ॥ १ ॥

तापत्रयविनाशार्त्थं सत्पात्रानुग्रहार्त्थकम्
चण्डेशानुग्रहं रूपं वक्ष्येऽहं श्रुणु षण्मुख ॥ २ ॥

चतुर्भुजं द्विनेत्रञ्च जटाजूटविराजितम्
टङ्ककृष्णमृगञ्चैव विद्रुमप्रभसंयुतम् ॥ ३ ॥

दक्षिणे लम्बितं पादं शयनं वामपादकम्

वामे गौरी समायुक्तम् उत्पलं सव्यहस्तके ॥ ४ ॥

वामं भुजं निवेश्याथ आसने क्षौमसम्पुटे
कुञ्चितं दक्षिणाङ्घ्रिञ्च नीलाम्बुनिभसन्निभम् ॥ ५ ॥

किरीटमकुटोपेतं चित्रवस्त्रैरलङ्कृतम्
वृषभस्थं महाशान्तं मुक्ताकुण्डलमण्डितम् ॥ ६ ॥

पत्रन्तु वामकर्णे तु फालनेत्रमुदाहृतम्
भुजाभ्यामुद्धृतां मालां चण्डस्कन्धे च धारिणम् ॥ ७ ॥

द्विभुजं शुक्लवर्णञ्च शुक्लयज्ञोपवीतिनम्
किरीटमकुटोपेतम् अञ्जलीकरसंयुतम् ॥ ८ ॥

न तेन मूर्ध्ना च तथा भक्तानुग्रहकारणम्
कल्पयेद्विधिवत्पश्चात्प्रतिष्ठां श्रुणु षण्मुख ॥ ९ ॥

दक्षिणायनके शस्ते प्रशस्तञ्चोत्तरायणे
पुष्यादिज्येष्ठपर्यन्तं शुभं कुम्भं विनापरम् ॥ १० ॥

अष्टबन्धनहीने तु सर्वमासे प्रशस्यते
त्वेश्चक्रातटिते चोरे विड्वरेदेवता ग्रहे ॥ ११ ॥

उत्सवेश्वरबेरादीन्बिले वा खननेऽपि वा
उत्थाप्य विहिते काले नयनोन्मीलनक्रियाम् ॥ १२ ॥

जलाधिवासनञ्चैव रत्नन्यासं शुभं विना
शेषं पूर्ववदाचार्यः कारयेत्स्नपनं विना ॥ १३ ॥

समासे बीजनक्षत्रे षोडशस्तम्भसंयुतम्
मद्ध्ये वेदिं प्रकल्प्याथ दशकुम्भन्न्यसेत्ततः ॥ १४ ॥

परिवारघटान्न्यस्य तोरणान्शस्त्रमङ्गलान्
जलाधिवासनञ्चैव नयनोन्मीलनन्तथा ॥ १५ ॥

यागेश्वरं समाराद्ध्य शयनारोपणं पुरा
वेदिका मद्ध्यमे चैव अर्चयेत्तु यथाविधि ॥ १६ ॥

प्रणवं पूर्वमुच्चार्य अममित्यक्षरं भवेत्
नीलकण्ठाय इत्येते नमोन्तमर्चयेत्ततः ॥ १७ ॥

पञ्चावरणमार्गेण पूजयित्वा यथाविधि
वायव्ये वेदिकां कृत्वा करकं दशविन्यसेत् ॥ १८ ॥

भोगशक्तिं समावाह्य पूजयित्वा यथाविधि
अग्निकार्यन्ततः कृत्वा होमयेदुक्तमन्त्रतः ॥ १९ ॥

सुमुहूर्त्ते सुलग्नेऽपि घटस्थानं समाचरेत्
ब्राह्मणान्भोजयेत्तत्र दक्षिणान्दापयेत्ततः ॥ २० ॥

आचार्यं पूजयेत्पश्चात् वैवाह्य क्रममाचरेत्
एवं क्रमेण विधिवत्सपुण्याङ्गतिमाप्नुयात् ॥ २१ ॥

इति चण्डेशानुग्रहस्थापनपटलश्चतुष्षष्टितमः