०६३ अर्द्धनारीश्वरप्रतिष्ठापटलः

अर्द्धनारीश्वरप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अर्द्धनारीश्वरं श्रुणु
वक्ष्येऽहं लोकरक्षार्त्थं शिवार्द्धं पार्वती पुरा ॥ १ ॥

सव्ये स्यात् विद्रुमाकारं वामे श्यामनिभं शिवा
करण्डमकुटां गौरीं जटामकुटमण्डितम् ॥ २ ॥

ललाटे चार्द्धनयनं सव्ये चैव भुजद्वयम्
टङ्कञ्च दक्षिणे पार्श्वे न्यसेदन्योक्षमस्तके ॥ ३ ॥

वामे नीलोत्पलञ्चैव स्तनमेकञ्च वामतः
गजचर्मधरं दक्षे दुकूलं वामभागके ॥ ४ ॥

सद्मपीठोपरिस्थञ्च पृष्ठपार्श्वे वृषन्तथा
एवं द्ध्यात्वा विशेषेण अर्चयेत्साधकोत्तमः ॥ ५ ॥

यागशालान्ततः कृत्वा नवोनवपदन्तथा
मद्ध्ये वेदिं प्रकल्प्याथ दशकुम्भन्न्यसेत्ततः ॥ ६ ॥

सप्तविंशत् घटान्न्यस्य पञ्चावरणमार्गतः

मण्टपालङ्कृतञ्चैव नवकुण्डं प्रकल्पयेत् ॥ ७ ॥

इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम्
पूर्वादिषु चतुर्दिक्षु चतुरश्रं प्रकीर्तितम् ॥ ८ ॥

आग्नेय्यादि चतुर्दिक्षु योनिकुण्डं प्रकीर्तितम्
जलाधिवासनञ्चैव नयनोन्मीलनं पुरा ॥ ९ ॥

शयनारोपणं कृत्वा कुम्भे सम्पूजयेत्ततः
हौङ्कारं पूर्वमुच्चार्य नमश्शिवायेति समुच्चरन् ॥ १० ॥

मूलेनावाहयेत्पश्चात्प्रथमावरणं यजेत्
शर्वादीन्द्वितीये पूज्य शेषं पूर्ववदाचरेत् ॥ ११ ॥

शयनारोपणं कृत्वा वह्निकर्मसमाचरेत्
हुत्वा जप्त्वा स्तुतिं कृत्वा सर्वैरप्युपचारतः ॥ १२ ॥

सकलाध्वन्न्यसेच्चैव यजेन्मण्डलचतुष्टयम्
आसनं मूर्तिमभ्यर्च्य नेत्रमुद्रां प्रदर्शयेत् ॥ १३ ॥

वह्निस्थन्तु घटे योज्य घटमादाय देशिकः
मूर्तिमग्नौ तु संयोज्य हविर्दत्वा निवेदयेत् ॥ १४ ॥

स्नपनं कारयेत्तत्र उपचारान्समर्चयेत्
दक्षिणान्दापयेच्चैव ब्राह्मणान्भोजयेत्ततः ॥ १५ ॥

आचार्यदक्षिणां दद्यात्तेनरादीर्घजीविनः
एवं कृत्वा विशेषेण सपुण्यां गतिमाप्नुयात् ॥ १६ ॥

इति अर्द्धनारीश्वरप्रतिष्ठापटलस्त्रिषष्टितमः