हरेरर्द्धप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि हरेरर्द्धं मयापुरा
हरनारायणं रूपं केशार्द्धं मस्तके जटा ॥ १ ॥
वामे किरीटसंयुक्तं सव्ये कुण्डलधारिणम्
वामे तु लम्बकर्णं स्यात् ललाटे शायदृक्तथा ॥ २ ॥
सव्ये टङ्काभयञ्चैव वामे च कुरवन्तथा
पीताम्बरधरं विष्णुं व्याघ्रचर्माम्बरं हरम् ॥ ३ ॥
दक्षिणे नीलकण्ठं स्यात्स्फटिकाभन्तु वामतः
सव्ये शङ्खनिभाकारं काचपुष्पाभं वामतः ॥ ४ ॥
पद्मपीठोपरिस्थञ्च मन्दस्मितसमायुतम्
सर्वाभरणसंयुक्तं हरेरर्द्धमिहोच्यते ॥ ५ ॥
वामे गौरी समायुक्तं रक्तवर्णं द्विनेत्रकम्
कटकं लम्बहस्तञ्च त्रिभागेनैव संयुतम् ॥ ६ ॥
एवं ध्यात्वा विशेषञ्च प्रतिष्ठाविहितं श्रुणु
पूर्वोक्तविधिना चैव षोडशस्तम्भसंयुतम् ॥ ७ ॥
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम्
इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम् ॥ ८ ॥
पूर्वाशादि चतुर्दिक्षु युगाश्रं कुण्डमुच्यते
आग्नेय्यादिष्वपि दिक्षु अर्द्धचन्द्राख्यकुण्डकम् ॥ ९ ॥
चतुःकुण्डं तथा कृत्वा पूर्ववत्परिकल्पयेत्
वेदिका मद्ध्यमे चैव दशकुम्भं न्यसेत्ततः ॥ १० ॥
सप्तविंशत्घटान्न्यस्य शस्त्रमङ्गलतोरणान्
नयनोन्मीलनं कृत्वा जलाधिवासनं तथा ॥ ११ ॥
शयनं रोपणं कृत्वा वेदिकामद्ध्यमे यजेत्
क्षित्यादिकुटिलान्तं वा आसनं मूर्तिमर्चयेत् ॥ १२ ॥
नेत्रान्तमर्चयेच्चैव कृताञ्जलिपुटन्तथा
प्रणवं पूर्वमुच्चार्य रुरुभं हरमेव च ॥ १३ ॥
नारायणाय इत्येतन्नमोन्तञ्चार्चयेत्ततः
पञ्चमुद्रां प्रदृश्याथ अञ्जली त्रयमीरितम् ॥ १४ ॥
पञ्चावरणमार्गेण पूजयित्वा विशेषतः
पूर्वोक्तविधिना चैव उक्तमन्त्रेण होमयेत् ॥ १५ ॥
प्रधाने शिवमावाह्य अर्चयित्वा हुनेत्ततः
पूर्वादिषु च कुण्डेषु पुरुषादीन्होमयेत्ततः ॥ १६ ॥
आग्नेयादौ चतुः कुण्डे हृदयादि यजेद्धुनेत्
ब्राह्मणान्भोजयेत्तत्र दिनं प्रतिदिनं प्रति ॥ १७ ॥
पूर्वादि च चतुर्द्वारे ऋग्वेदादीन्जपेत्ततः
घोरं पाशुपतञ्चैव क्षुरिप्रत्यङ्गिरंस्तथा ॥ १८ ॥
मद्ध्ये शिवास्त्रं सञ्जप्य दक्षिणान्दापयेत्ततः
नृत्तगीतैस्समायुक्तं नित्यवत्पूजनं कुरु ॥ १९ ॥
सुमुहूर्ते सुलग्ने च अभिषेकं समाचरेत्
हविर्दत्वा निवेद्याथ महायजनमारभेत् ॥ २० ॥
एवं कृत्वा विशेषेण सायुज्य पदमाप्नुयात् ॥ २१ ॥
इति हरेरर्द्धप्रतिष्ठापटला द्विषष्टितमः