वीरभद्रप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये विशेषेण वीरभद्रेश्वरं श्रुणु
महापातकदोषघ्नं सर्वपीडानि वारणम् ॥ १ ॥
वीरभद्रमिति ख्यातं दक्षयज्ञहरं परम्
चतुर्भुजं त्रिणेत्रञ्च ज्वालाकेशं सुदंष्ट्रिणम् ॥ २ ॥
घण्टामालाधरं घोरं शिरोमालाविभूषितम्
वृश्चिकाभरणञ्चैव नागयज्ञोपवीतिनम् ॥ ३ ॥
नूपुरं विमलं तद्वत्पादौ पादुकभूषितौ
नीलकण्ठञ्च त्र्यक्षञ्च ऊरुकञ्चुकसंयुतम् ॥ ४ ॥
खड्गखेटधनुर्बाणं कपालं भिण्डिपालकम्
रक्तवर्णसमायुक्तम् उग्रदृष्टिभयङ्करम् ॥ ५ ॥
एवं ध्यात्वा विशेषेण प्रतिष्ठां कारयेत्ततः
यागशालां प्रकल्प्याथ उक्तलक्षणमेव वा ॥ ६ ॥
कुण्डं वा नवपञ्चैकं यथा वित्तानुसारतः
कुम्भान्करकलशान्पात्रं स्रुक्स्रुवमङ्गलम् ॥ ७ ॥
तोरणं शस्त्रपताकं सप्तधान्यं समित्कुशम्
यागोपकरणान्सर्वान्सम्पाद्य विधिवत्ततः ॥ ८ ॥
नयनोन्मीलनं कृत्वा पूर्णचन्दाकृतिस्तथा
जलाधिवासनं पश्चात्प्रदक्षिणक्रमेण वा ॥ ९ ॥
बिम्बशुद्धिं ततः कृत्वा न्यसेच्छयनमण्टपे
वेदिकामद्ध्यमे चैव दशकुम्भं न्यसेत्ततः ॥ १० ॥
आसनं मूर्तिमभ्यर्च्य दण्डभङ्गीं प्रकल्पयेत्
नेत्रमुद्रां पदृश्याथ अञ्जलीकरसंयुतम् ॥ ११ ॥
प्रणवं पूर्वमुच्चार्य श्रीङ्कारञ्च द्वितीयकम्
क्लीङ्कारमिति विज्ञेयं ह्रीङ्कारन्तु ततः परम् ॥ १२ ॥
जयशब्देन मात्रेण वीरभद्रं तथैव च
चतुर्त्थ्यन्तं नमोन्तं वा ——— ॥ १३ ॥
मूलेनावाहयेत्पश्चात्प्रथमावरणं यजेत्
पञ्चावरणमार्गेण पूजयित्वा यथाविधि ॥ १४ ॥
अग्निकार्यं प्रकुर्वीत उक्तमन्त्रेण होमयेत्
तत्वत्रयं समभ्यर्च्य त्रिखण्डं होमयेत्ततः ॥ १५ ॥
वह्निं तन्तुं घटे योज्य सुमुहूर्तेऽभिषेचयेत्
हविर्दत्वा निवेद्यञ्च स्नपनं कारयेत्ततः ॥ १६ ॥
आचार्यं पूजयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः
एवं कृत्वा विशेषेण रुद्रलोकमवाप्नुयात् ॥ १७ ॥
इति वीरभद्रप्रतिष्ठापटल एकषष्टितमः