त्रिपुरारिप्रतिष्ठापटलप्रारम्भः
चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम्
टङ्ककृष्णमृगञ्चैव धनुर्बाणधरं महत् ॥ १ ॥
मन्दस्मितसमायुक्तं ताटङ्ककुण्डलं धृक्
पद्मपीठोपरिस्थञ्च महापीठोपरिस्तथा ॥ २ ॥
सर्वाभरणसंयुक्तं हारकेयूरभूषितम्
नागयज्ञोपवीताङ्गं शिरश्चक्रसमायुतम् ॥ ३ ॥
वामे गौरी समायुक्तं कटकालम्बहस्तकम्
करण्डमकुटोपेतं वामाङ्गं कालकन्धरम् ॥ ४ ॥
सर्वाभरणसंयुक्तं पृथगासननाधिकाम्
एवं सङ्कल्पमात्रेण प्रतिष्ठान्तं चरेत् गुरुः ॥ ५ ॥
षोडशस्तम्भसंयुक्तं मण्टपञ्चतुरश्रकम्
मद्ध्ये वेदिं प्रकल्प्याथ कुण्डानि परितश्चरेत् ॥ ६ ॥
वेदिका मद्ध्यमे चैव दशकुम्भं न्यसेत्ततः
परिवारघटांश्चैव पूर्ववत्परिकल्पयेत् ॥ ७ ॥
जलाधिवासनञ्चैव नयनोन्मीलनं परम्
शयनारोपणं पश्चात् अङ्कुरार्पणपूर्वकम् ॥ ८ ॥
कुम्भे सम्पूजयेत्तत्र क्षित्यादिकुटिलान्तकम्
अर्चयेद्विधिवत्पश्चात्प्रणवं पूर्वमुच्चरन् ॥ ९ ॥
हौमिति द्वितयञ्चैव प्राकारञ्च ततश्शृणु
षट्कारन्तु ततः पश्चात् शत्रून्क्षोभय तत्परम् ॥ १० ॥
स्वाहान्तमुच्चरेत्पूज्य प्रथमावरणं यजेत्
पञ्चावरणमार्गेण पूजयित्वा यथाविधि ॥ ११ ॥
होमयेद्विधिवत्पश्चात् गौरीयागं तदेव वा
आवाह्य पूजयेद्धुत्वा सुमुहूर्ते सुलग्नके ॥ १२ ॥
अभिषेकन्ततः कृत्वा हविर्दत्वा निवेदयेत्
ब्राह्मणान्भोजयेत्तत्र आचार्यं पूजयेत्ततः ॥ १३ ॥
दक्षिणान्दापयेत्पश्चात् सराजा विजयी भवेत् ॥ १४ ॥
इति त्रिपुरारिप्रतिष्ठापटलष्षष्टितमः