वृषारूढप्रतिष्ठापटलप्रारम्भः
अथ वक्ष्ये महासेन वृषारूढेश्वरं महत्
स्थापनं श्रुणु जन्तूनां मोक्षार्त्थम् ईश्वरेच्छया ॥ १ ॥
एवं रूपक्रमं वक्ष्ये चतुर्भुजसमायुतम्
टङ्ककृष्णमृगञ्चैव जटामकुटशोभितम् ॥ २ ॥
पद्मपीठे न्यसेत्पादं वामपादसमुद्धृतम्
सव्ये जङ्घोपरिन्यस्य वामजङ्घसमाश्रितम् ॥ ३ ॥
पादाङ्गुलिं न्यसेत् भूमौ स्वस्तिकाकृति किञ्चित्
पृष्ठतोक्षस्पर्शनञ्च ऊरुहस्तन्तु वामके ॥ ४ ॥
गोपतेर्मस्तके हस्तं विन्यसेदतिसुन्दरम्
धवलाभं महाशान्तं सर्वावयवसुन्दरम् ॥ ५ ॥
एकासने महागौरीम् अथवा पृथगासने
कटकं लम्बहस्तन्ञ्च सर्वावयवसुन्दरीम् ॥ ६ ॥
सरत्नमकुटोपेतां वामे गौरीसमायुतम्
यद्वाचद्विभुजं शान्तं गोपतेर्मस्तके करम् ॥ ७ ॥
ऊरुहस्तं विशेषेण वामे गौरी समायुतम्
जटामकुटशोभाढ्यम् अन्तस्मितसमायुतम् ॥ ८ ॥
यद्वा चोक्षसमारूढं वृषपृष्ठे सुखासनम्
पद्मपीठोपरिस्थञ्च शयनं वामपादकम् ॥ ९ ॥
लम्बितं सव्यपादञ्च टङ्ककृष्णमृगन्तथा
अभयं वरदञ्चैव सर्वाभरणभूषितम् ॥ १० ॥
श्यामाङ्गीं द्विभुजान्देवीम् उत्पलं वरदन्तथा
शयनं लम्बितं पादं सर्वाभरणभूषितम् ॥ ११ ॥
एवं ध्यात्वा विशेषेण प्रतिष्ठां कारयेत्ततः
षोडशस्तम्भसंयुक्तं नवहस्तन्तु विस्तरम् ॥ १२ ॥
मद्ध्ये नवपदं कृत्वा वेदिका मद्ध्यमे चरेत्
पूर्वाशादि चतुर्दिक्षु यथोक्तं कुण्डमुत्तमम् ॥ १३ ॥
आग्नेयादि चतुर्दिक्षु योनिमेकासने सति
प्रत्येकमासनञ्चैव पृथक् शालां प्रकल्पयेत् ॥ १४ ॥
प्रत्येकं कुण्डसङ्ख्यानि पूर्ववद्विधिनाचरेत्
नयनोन्मीलनं पश्चात् ————- ॥ १५ ॥
पयोधिवासनं कृत्वा बिम्बशुद्धिं समाचरेत्
पर्यङ्के शयनं कृत्वा मण्टपाराधनं चरेत् ॥ १६ ॥
वेदिका मद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः
न्यासकर्मसमाराद्ध्य नेत्रमुद्रां प्रदर्शयेत् ॥ १७ ॥
वृषान्तिके विशेषेण तारका पूर्वमुच्चरन्
औमित्युच्चरेत्पश्चात्पीठगाय इति भवेत् ॥ १८ ॥
पठ्यते उक्षादिशो – प्रासादादिनमोन्तकम्
एवमावाह्य सम्पूज्य प्रथमावरणं पुरा ॥ १९ ॥
द्वितीय्या वरणं पश्चात् पञ्चावरणमार्गतः
उक्तमन्त्रेण हुत्वा तु पूर्णाहुतिं समाचरेत् ॥ २० ॥
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः
पूर्णाहुतिन्तथा कृत्वा कुम्भमुत्थापयेत्ततः ॥ २१ ॥
अभिषेकन्तथा कृत्वा हविर्दत्वा समाचरेत्
स्नापनं कारयेत्पश्चात् अन्ते कल्याणमाचरेत् ॥ २२ ॥
एवं सम्पूज्य विधिवत् दक्षिणान्दापयेत्ततः
ब्राह्मणान्भोजयेत्तत्र आचार्यस्य च पूजनम् ॥ २३ ॥
एवं सम्पूजयेच्चैव सपुण्यां गतिमाप्नुयात् ॥ २४ ॥
इति वृषारूढप्रतिष्ठापटल एकोनषष्टितमः