०५८ उमयासहस्थापनपटलः

उमयासहस्थापनपटलप्रारम्भः
अथ वक्ष्ये विशेषेण उमयासहस्थापनम्
सर्वलोकहितं पुण्यं श्रुणुष्व शरवणोद्भव ॥ १ ॥

उमयासहरूपन्तु स्फटिकाभं त्रिणेत्रकम्
टङ्ककृष्णमृगञ्चैव अभयं वरदन्तथा ॥ २ ॥

शयनं वामपादन्तु सव्ये लम्बपदन्तथा
द्विभुजं श्यामवर्णाभं वामपादन्तु लम्बितम् ॥ ३ ॥

सव्यपादन्तु शयनम् उत्पलं सव्यहस्तके
— पदं वामहस्तश्च करण्डमकुटोज्वलम् ॥ ४ ॥

चित्रवस्त्रधरान्देवीं मणिमालाविभूषिताम्
शिरश्चक्रसमोपेतं व्याघ्रचर्मोत्तरीयकम् ॥ ५ ॥

जटामकुटशोभाढ्यं नेत्रत्रयविराजितम्
प्रभामण्डलमद्ध्यस्थं सुखासनमुमापतिम् ॥ ६ ॥

उमया सह चाधीशप्रतिष्ठाञ्च ततश्शृणु

षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ॥ ७ ॥

इन्द्राद्यष्टास्वपि दिक्षु युगाश्रादि चतुर्दिशि
आग्नेयादिमहायोनिस्तयोर्मद्ध्ये सुवृत्तकम् ॥ ८ ॥

तोरणान्मङ्गलान्शस्त्रान्पूर्ववत्परिकल्पयेत्
अङ्कुरार्पणपूर्वन्तु वास्तुपूजां समाचरेत् ॥ ९ ॥

नयनोन्मीलनं सद्यः बिम्बशुद्धिं ततः परम्
जलाधिवासनं तत्र त्रिरात्रं वा द्विरात्रकम् ॥ १० ॥

एकरात्रमथा वापि अथवा याममात्रकम्
————– जलाधिवासनं ततः ॥ ११ ॥

ग्रामप्रदक्षिणं कृत्वा मण्टपे वेशयेत्ततः
शयनारोपणं कुर्यात् मण्टपाराधनन्ततः ॥ १२ ॥

वेदिका मद्ध्यमे चैव दशकुम्भं न्यसेत्ततः
क्षित्यादिकुटिलप्रान्तं विद्याङ्गं नेत्रमुद्रया ॥ १३ ॥

प्रणवं पूर्वमुच्चार्य पुंसौ मुच्चरेत्परम्
नीलकण्ठायते चैव चतुर्त्थ्यन्तं नमोन्तकम् ॥ १४ ॥

आवाह्यमूलमन्त्रेण पूजयित्वा विशेषतः
प्रथमावरणं पूज्य हृदयादीन्समर्चयेत् ॥ १५ ॥

द्वितीयावरणे चैव शर्वादीन्परिकल्पयेत्
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ॥ १६ ॥

कुण्डेष्वग्निं प्रतिष्ठाप्य उक्तमन्त्रेण होमयेत्
जीवन्यासक्रमेणैव हुत्वा बिम्बे न्यसेत्ततः ॥ १७ ॥

घटं सम्प्रोक्षयेत्पश्चात् हविर्दत्वा निवेदयेत्
दक्षिणान्दापयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः ॥ १८ ॥

कल्याणकर्मपूर्वेव कल्पयेत्साधकोत्तमः
एवं कृत्वा च विधिवत्सपुण्याङ्गतिमाप्नुयात् ॥ १९ ॥

इति उमयासहस्थापनपटल अष्टपञ्चाशत्तमः