भिक्षाटनस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि रहस्यं पावनं महत्
भिक्षाटनस्थापनन्तु सङ्क्षेपं श्रुणु पावनम् ॥ १ ॥
त्रिणेत्रं चतुर्भुजं शान्तं कुण्डलाभरणोज्वलम्
स्फटिकाभं करालं स्यात् वृत्तं पिङ्गजटाधरम् ॥ २ ॥
निर्वाणमुपवीताङ्गं नागयज्ञोपवीतिनम्
कटिसूत्राकृतिं नागं सर्वावयवसुन्दरम् ॥ ३ ॥
पादुकोपरिदातव्यं पद्मपीठोपरिस्थितम्
दक्षिणे डमुरञ्चैव दूर्वाङ्कुरदलं तथा ॥ ४ ॥
वामे शूलकपालञ्च दक्षिणे हरिणी मृगम्
दूर्वालं बकराग्रे तु मुखेनोद्धृत्य तु ग्रसेत् ॥ ५ ॥
मृगन्तु वामभागे च कपालं शिरसावहन्
प्रभामण्डलमद्ध्यस्थं भद्रपीठोपरिस्थितम् ॥ ६ ॥
षोडशस्तम्भसंयुक्तं पूर्ववद्यागमण्टपम्
पालिकाघटिका चैव शरावं त्रिविधं भवेत् ॥ ७ ॥
चतुश्चत्वारिसङ्ख्या च षट्त्रिंशच्चतुर्विंशतिः
द्वादशस्सङ्ख्यया चैव अङ्कुरार्पणपूर्वकम् ॥ ८ ॥
वास्तुपूजान्ततः कृत्वा कारयेन्नेत्रमीलनम्
स्वर्णादिनिर्मितं पात्रं टङ्कञ्चैव कुठारिकम् ॥ ९ ॥
दूर्वामधुघृतञ्चैव सर्वोपकरणान्वितम्
त्रिकुम्भं पूर्ववत्स्थाप्य रविसोमाग्निकान्यजेत् ॥ १० ॥
नेत्रमन्त्रेण संलिख्य घटं संयोजयेत्ततः
कन्या गोविप्रयुग्मश्च सन्यासी चयमानकः ॥ ११ ॥
जनसङ्घसदर्शैश्च जलाधिवासनन्तथा
ग्रामप्रदक्षिणं कृत्वा मण्टपद्वारमागतः ॥ १२ ॥
बिम्बशुद्धिन्ततः कृत्वा शयनारोपणन्तथा
मण्टपाराधनं कृत्वा गुरून्सम्पूजयेत्ततः ॥ १३ ॥
वेदिका मद्ध्यमे चैव दशकुम्भन्न्यसेत्ततः
क्षित्यादिकुटिलाप्रान्तम् आसनं मूर्तिमर्चयेत् ॥ १४ ॥
प्रणवं पूर्वमुच्चार्य क्षुकारञ्च लकारकम्
नामचैव चतुर्त्थ्यन्तम् आवाह्यपूजयेत्ततः ॥ १५ ॥
प्रथमावरणे पूज्य विद्येश्वरघटान्यजेत्
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ॥ १६ ॥
कुण्डेषु चार्चयेत्पश्चादथमन्त्रं समाहुनेत्
सुमुहूर्तेऽपि संस्नाप्य महाहविर्निवेदयेत् ॥ १७ ॥
स्नपनं कारयेत्पश्चात्सन्तुष्टं परिभावयेत्
आचार्यं पूजयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः ॥ १८ ॥
एवं कृत्वा विशेषेण सराजा विजयी भवेत् ॥ १९ ॥
इति भिक्षाटनस्थापनपटलस्सप्तपञ्चाशत्तमः