०५६ वैवाह्यस्थापनपटलः

वैवाह्यस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि वैवाह्यस्थापनं श्रुणु
गुह्यात् गुह्यतरं श्रेष्ठं रहस्यं दुर्ल्लभं परम् ॥ १ ॥

गौरीकल्याणवेषञ्च तेजः पुञ्जनिभं शिवम्
चतुर्भुजं त्रिणेत्रञ्च जटाचूडेन्दुमण्डितम् ॥ २ ॥

मन्दस्मितमुखं शान्तं षोडशाब्दिकयौवनम्
कुण्डलं कर्णपत्रञ्च टङ्कं कृष्णमृगन्तथा ॥ ३ ॥

दक्षिणेकरसंयुक्तं ग्रसितं वामपाणिना
गौरी हस्ताम्बुजतले स्वहस्तलवेशनम् ॥ ४ ॥

अन्ये तु लम्बहस्तं स्यात् वरदं वामहस्तके
पादुकोपरिधार्यं वा पद्मपीठोपरिस्थितम् ॥ ५ ॥

एकासनं महापीठे वामे विष्णुसमाश्रितम्
पुरतो दक्षिणे किञ्चित् धातावीरासनस्थितम् ॥ ६ ॥

पुरतोऽग्निसमाराद्ध्य प्रभामण्डलमण्डितम्
सर्वाभरणसंयुक्तं सर्वावयवसुन्दरम् ॥ ७ ॥

द्वात्रिंशल्लक्षणोपेतं स्फटिकाभं स्मिताननम्
कल्याणवेषमाख्यातं मृत्सङ्ग्रहणपूर्वकम् ॥ ८ ॥

अङ्कुरं कारयेत्पश्चात् वास्तुमाराधयेत्ततः
उन्मीलनं दृशौ चैव बिम्बशुद्धिमुदाहृतम् ॥ ९ ॥

अपां वसतितः पश्चात् चरेत् ग्रामप्रदक्षिणम्
पर्यङ्कारोपणं पश्चात् मण्टपाराधनं शिवम् ॥ १० ॥

कृशानुं होमयेत्पश्चात् रन्ध्रं वा मुनिभूतकम्
योनिकुण्डं चतुश्चैव युगाश्रञ्च तु सङ्ख्यया ॥ ११ ॥

प्रधानं वृत्तमित्युक्तं तत्तन्मन्त्रेण होमयेत्
प्रणवं पूर्वमुच्चार्य श्रीशॄं चैव ततः परम् ॥ १२ ॥

वैवाह्यञ्च चतुर्त्थ्यन्तं स्वाहाकारन्तदन्तके
आवाह्यहोमयेत्पश्चात्त्रिखण्डं पूर्ववच्चरेत् ॥ १३ ॥

सुमुहूर्ते सुसंस्नाप्य महाहविर्निवेदयेत्
भस्मकुम्भद्वये ग्राह्य स्वर्णचूतदलैर्युतम् ॥ १४ ॥

ससूत्रं सापिधानञ्च नालिकेरन्तथैव च
कल्याणनायकं पूज्य गौरीं सम्पूजयेत्ततः ॥ १५ ॥

यजमानगृहे वापि आचार्यस्य गृहेऽपि वा
द्विकरं दीर्घसंयुक्तं तदर्द्धं विस्तरन्तथा ॥ १६ ॥

स्वर्णेन रजतेनैव ताम्रेण दारुजैरपि
अथवा तालपत्रे वा फेलञ्च चतुरश्रकम् ॥ १७ ॥

मूले तु सम्पुटाकारम् ऊर्ध्वच्छदनसंयुतम्

मूले तु नवकोष्ठञ्च पञ्चकोष्ठमथापि वा ॥ १८ ॥

द्वितलं त्रितलं वापि सुश्लिष्टं स्निग्धसन्निभम्
स्वर्णेन रजतेनैव ताम्रेण निर्मितन्तु वा ॥ १९ ॥

लिकुचाकृतिकं कृत्वा किञ्चित् द्वारन्तु मद्ध्यमे
कर्णिकाकृतितद्वारे बन्धनं पद्मसन्निभम् ॥ २० ॥

अञ्जनं मद्ध्यमे न्यस्य हृदयेनैव मन्त्रतः
नालिकेराकृतिश्चैव पूर्ववत्कुडुपाकृतिम् ॥ २१ ॥

कुङ्कुमैश्च समापूर्य रजनी कन्दमुत्तमम्
त्र्यङ्गुलञ्च सुविस्तारं दीर्घं पञ्चाङ्गुलं भवेत् ॥ २२ ॥

मुनिसङ्ख्यां ततः पार्श्वे मकुटं मुनिसङ्ख्यया
अन्ये सूच्याकृतिञ्चैव एकपञ्चाशदुत्तमम् ॥ २३ ॥

चित्रवर्णन्ततो मद्ध्ये श्रुणुष्वमूलशोधनीम्
द्व्यङ्गुलञ्च सुविस्तारं दीर्घमष्टाङ्गुलं भवेत् ॥ २४ ॥

पञ्चसङ्ख्यात्रयं वापि टङ्काकृतिचरेत्ततः
रुद्रसङ्ख्या रन्ध्रसङ्ख्या सूच्याकृतिमथाचरेत् ॥ २५ ॥

नारङ्गफलवत्कल्प्य घटवद्वारषट्ककम्
अथोर्ध्वे च द्वये चैव चतुर्द्वारं चतुर्दिशि ॥ २६ ॥

सन्ध्येषु चित्रवर्णं स्यात् मरीच्याकृतिसप्तकम्
तत्तज्जातिमये कल्प्य मद्ध्यमे निक्षिपेत्ततः ॥ २७ ॥

कौबेरफलमात्रञ्च मुनिसङ्ख्यां प्रकल्पयेत्
फेलिकामद्ध्यमे क्षिप्य दूकूलं वस्त्रसंयुतम् ॥ २८ ॥

सदशञ्चाष्टहस्तञ्च द्विकरं विस्तरं तथा
दशनिष्कप्रमाणेन गजकर्णाकृतिन्तु वा ॥ २९ ॥

वक्त्राकृति–र्मन्ये कुब्जाकृतिषु मद्ध्यमे
मुक्ताकृतिं द्विपार्श्वे च मद्ध्ये रन्ध्रं द्विपार्श्वयोः ॥ ३० ॥

कर्णिका निर्मितं सूत्रं षोडशं तन्तुना भवेत्
मङ्गल्यमिति विख्यातं फेलिका मद्ध्यमे क्षिपेत् ॥ ३१ ॥

पुष्पमालां सुगन्धञ्च श्रीबेरं चम्पकाकृतिम्
पङ्कजन्नालिकेरञ्च नवपात्रेषु निक्षिपेत् ॥ ३२ ॥

तूर्यवाद्यैस्समायुक्तम् आस्थानमण्टपे तथा
पुण्याहं वाचयेत्तत्र विघ्नेशं पूजयेत्ततः ॥ ३३ ॥

पादप्रक्षालनं कृत्वा एवैनमिति मन्त्रतः
मधुपर्कं निवेद्याथ शङ्करम्मन्त्रमुच्चरन् ॥ ३४ ॥

अनादिगोत्रसादाख्य वराय पूजयेत्ततः
अनादिगोत्रसम्भूतां गौरीं न्न्यान्ददाम्यहम् ॥ ३५ ॥

सौवर्णञ्चैव ताम्बूलं पार्वती द्विकराम्बुजम्
जलेन सहितन्दत्तं भावयेद्विष्णुपाणिना ॥ ३६ ॥

माङ्गल्यं शिवहस्ताभ्यां यो ब्रह्मा इति मन्त्रतः
कण्ठे बध्नीयमूलेन यो ब्रह्मा इति मन्त्रतः ॥ ३७ ॥

कण्ठे बद्ध्नीयमूलेन स्थण्डिलं कारयेत्ततः
बहिः कार्यं प्रकुर्वीत पञ्चब्रह्मषडङ्गकैः ॥ ३८ ॥

होमयेत्तु विशेषेण पाणिग्रहणमाचरेत्
सव्यभागे महागौरीं सव्यन्तु सव्यपाणिना ॥ ३९ ॥

प्रदक्षिणक्रमेणैव अश्मवैवामपार्श्वके
गौरी पादाम्बुजं सव्यम् उद्धृत्य शिवपाणिना ॥ ४० ॥

अश्ममारोपयेत्पश्चात्प्रदक्षिणक्रमेण वा
प्राङ्मुखोसौदम्पती च लाजं वै गौरिहस्तके ॥ ४१ ॥

होमयेच्छिवपाणिभ्यां हस्ताभ्यां सहसुन्दरीम्
त्रिवारम् अश्ममारोप्य लाजहोमं त्रिवारकम् ॥ ४२ ॥

घोरं पाशुपतञ्चैव प्रत्यङ्गिरं शिवास्त्रकम्
क्षुरिकञ्चैव प्रत्येकं दशसङ्ख्या हुनेत्ततः ॥ ४३ ॥

मूलेन दशवारञ्च पञ्चब्रह्मषडङ्गकैः
एकवारं हुनेच्चैव पूर्णाहुतिं समाचरेत् ॥ ४४ ॥

जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः
अग्निमुत्थाप्य संयोज्य ताम्बूलं दापयेत्ततः ॥ ४५ ॥

ब्राह्मणानां ददेत्पुष्पगन्धैरभ्यर्च्य सेवितम्
दक्षिणान्दापयेत्पश्चात् आचार्यं पूजयेत्ततः ॥ ४६ ॥

वीधी प्रदक्षिणं कृत्वा देवमादाय मन्दिरे

मञ्चमारोपयेत्पश्चात् सर्वकर्मार्हको भवेत् ॥ ४७ ॥

एवं वै कुरुते मर्त्यः सराजाविजयी भवेत् ॥ ४८ ॥

इति वैवाह्यस्थापनपटलष्षट्पञ्चाशत्तमः