०५५ नटेशस्थापनपटलः

नटेशस्थापनपटलप्रारम्भः
अथातश्च महेशान नटेशस्थापनं वद
सर्वलोकहितार्त्थाय गुह्यात् गुह्यतरं श्रुणु ॥ १ ॥

त्रिणेत्रं चतुर्भुजं शान्तं जटामकुटमण्डितम्
कर्णपत्रसमायुक्तं दक्षिणेनक्रकुण्डलम् ॥ २ ॥

जटावामे तु दुत्तूरम् अर्द्धेन्दुपरिचूडितम्
अर्कपुष्पसमायुक्तं बकपुष्पसमन्वितम् ॥ ३ ॥

आरग्वधप्रजञ्चैव स्तबकम् ऊर्ध्वमण्डितम्
दक्षिणे जाह्नवी चैव व्यालं वा चूडितं तथा ॥ ४ ॥

करोटिमद्ध्यमे न्यस्य कुन्दमन्दस्मिताननम्
डमरुन्दक्षिणे हस्ते वह्निञ्च वामहस्तके ॥ ५ ॥

अभयं फणिसंयुक्तं प्रधार्यं पूज्य वामके
दक्षिणे स्वस्तिकं पादं वामपादन्तु कुञ्चितम् ॥ ६ ॥

अपस्मारोपरिस्थञ्च पद्मपीठोपरिस्थितम्
सिह्मचर्मकटी वेष्ट्य व्याघ्रचर्मोत्तरीय्यकम् ॥ ७ ॥

किङ्किणीमालयायुक्तं नागयज्ञोपवीतिनम्
कटकं हारकेयूरं पादनूपुरमण्डितम् ॥ ८ ॥

प्रभामण्डलमद्ध्यस्थं वृत्तं वा अचुलन्तु वा
श्वेतवर्णसमायुक्तं द्वात्रिंशल्लक्षणान्वितम् ॥ ९ ॥

कर्णान्तं नासिकान्तं वा ताल्वन्तं स्तनमण्डलम्
नक्षत्रं गण्यते ज्ञात्वा द्विपादं समभागिनीम् ॥ १० ॥

त्रिभागं लज्जयोपेतं सरत्नमकुटान्वितम्
वामे लम्बकरं विद्यात् दक्षिणे कटकन्तथा ॥ ११ ॥

मन्दस्मितामिमां गौरीं पूर्ववत्परिकल्पयेत्
पूर्ववद्यागशालाञ्च षोडशस्तम्भसंयुतम् ॥ १२ ॥

मण्टपद्वयमेवोक्तं तदेवं वामपार्श्वके
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम् ॥ १३ ॥

अश्रयोन्यार्द्धचन्दञ्च गणवृत्तं षडश्रकम्
पद्मं वस्वश्रकुण्डञ्च तयोर्मद्ध्ये सुवृत्तकम् ॥ १४ ॥

तोरणान्मङ्गलान्शस्त्रान्ध्वजस्रुक्स्रुवमासनम्
दशकुम्भं न्यसेन्मद्ध्ये सप्तविंशत्घटान्न्यसेत् ॥ १५ ॥

चन्द्रम् ईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम्
पूर्वाद्यष्टास्वपि दिक्षु योनिकुण्डं प्रकल्पयेत् ॥ १६ ॥

स्रुक्स्रुवं तोरणञ्चैव मङ्गलांश्च दशायुधान्

ध्वजात्पक्षांश्चकरकान् स्तम्भांश्च कलशान्यथ ॥ १७ ॥

गौरीयागं प्रकल्प्याथ पूर्ववत्परिकल्पयेत्
नेत्रोन्मीलनमेवोक्तं जलाधिवासनन्तथा ॥ १८ ॥

शयनारोपणं पश्चात् न्यासकर्मसमाचरेत्
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ १९ ॥

नवरात्रमिति प्रोक्तं सायम्प्रातर्हुनेत्ततः
तत्वतत्वेश्वरञ्चैव मूर्तिमूर्तीश्वरान्न्यसेत् ॥ २० ॥

भद्रपीठे समारोप्य सुमुहूर्ते सुलग्नके
कलशस्थानमाराद्ध्य हविर्दत्वा विशेषतः ॥ २१ ॥

महाभिषेचनं पश्चात्कल्याणं कारयेत्ततः
स्वगृह्योक्तविधानेन पाणिग्रहणमुत्तमम् ॥ २२ ॥

तूर्यवाद्यैस्समायुक्तं प्रदक्षिणक्रमेण वा
एवं समाराधयते गीतनृत्तैस्समन्वितम् ॥ २३ ॥

प्रणवं पूर्वमुच्चार्य भ्रुकारद्वितयं भवेत्
भेरी तूरुतं बुरुश्च हरहर इति त्वथ ॥ २४ ॥

आनन्दताण्डवञ्चैव चतुर्त्थ्यन्तन्नमोन्तकम्
प्रणवं पूर्वमुच्चार्य श्रीबीजञ्च द्वितीयकम् ॥ २५ ॥

महागौर्यै नमोन्तञ्च भोगशक्तिं प्रपूजयेत्
नटेशं मूलमन्त्रेण पूजयेद्देशिकोत्तमः ॥ २६ ॥

एवं यः कुरुते मर्त्यः शिवसायुज्यमाप्नुयात् ॥ २७ ॥

इति नटेशस्थापनपटलः पञ्चपञ्चाशत्तमः