सोमधारिप्रतिष्ठापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वकामफलप्रदम्
सोमधारिप्रतिष्ठान्तु सर्वमङ्गलकारणम् ॥ १ ॥
चतुर्भुजं त्रिणेत्रञ्च जटामकुटमण्डितम्
वामपार्श्वे जटामद्ध्ये अर्द्धचन्द्रसमन्वितम् ॥ २ ॥
वामपत्रसमायुक्तं दक्षिणे नक्रकुण्डलम्
शिखास्थाने शिरश्चक्रं कर्णपत्रसमायुतम् ॥ ३ ॥
मूलपत्रसमायुक्तं शिरः कूर्मसमायुतम्
मृगटङ्कसमायुक्तम् अभयं वरदन्तथा ॥ ४ ॥
अभयं सिह्मकर्णं वा समपादद्वयं भवेत्
किङ्किणी वलयं जान्वोः सिह्मचर्माभिवेष्टितम् ॥ ५ ॥
उपवीतसमायुक्तं हारकेयूरभूषितम्
कटकं वलयञ्चैव पादनूपुरमण्डितम् ॥ ६ ॥
पद्मपीठोपरिस्थञ्च अन्तस्मितसमायुतम्
कर्णान्तञ्चैव ताल्वन्तम् अंसान्तं स्तनमण्डलम् ॥ ७ ॥
नाभ्यन्तञ्चैव कट्यन्तं गौरी वामेत्र कल्पयेत्
एवं वनस्थितां गौरीम् अथवा पृथगासने ॥ ८ ॥
द्विभुजं च द्विनेत्रञ्च किरीटमकुटान्वितम्
लम्बकर्णसमायुक्तं सर्वाभरणभूषितम् ॥ ९ ॥
किञ्चित्कुञ्चितवामे च वामे च लम्बकन्तथा
सव्ये शुण्डाकृती जुष्टी केवलं भुजमेव च ॥ १० ॥
प्रभायां पूर्ववत्कृत्वा चन्द्रशेखररूपिणम्
षोडशस्तम्भसंयुक्तं पूर्ववद्यागमण्टपम् ॥ ११ ॥
इन्द्रईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम्
एकासनस्थिते पक्षे पूर्वादिचतुरश्रकम् ॥ १२ ॥
विदिक्षुयोनिकुण्डञ्च चतुः कुण्डं प्रकीर्तितम्
वेदिकामद्ध्यमे चैव दशकुम्भं न्यसेत्ततः ॥ १३ ॥
नयनोन्मीलनञ्चैव जलाधिवासनन्तथा
बिम्बशुद्धिं ततः कृत्वा शयनारोपणञ्चरेत् ॥ १४ ॥
घटे स्थिरासनं पूज्य विद्याङ्गं नेत्रमुद्रिकाम्
प्रणवं पूर्वमुच्चार्य भकारन्तु ततः परम् ॥ १५ ॥
चन्द्रमाश्च चतुर्त्थ्यन्तं नमोन्तं मूलमन्त्रतः
आवाह्य पूजयेत्पश्चात् अष्टबन्धेन मिश्रकम् ॥ १६ ॥
सुगन्धपुष्पसंयुक्तम् अञ्जलीकरसंयुतम्
अङ्गुष्ठादिकनिष्ठान्तं करन्यासविधिं श्रुणु ॥ १७ ॥
संयोज्यानामिकामूले अञ्जलीकरसंयुतम्
मूलाधारं समभ्यर्च्य हृत्कण्ठादिप्रदेशके ॥ १८ ॥
ओङ्कारं पूर्वमुच्चार्य हङ्कारञ्च्च ततः परम्
अकारश्च उकारश्च मकारं बिन्दुरेव च ॥ १९ ॥
नादान्तमुच्चरेच्चैव ब्रह्मरन्ध्रे परिस्थया
हृत्कण्ठतालुभ्रूमद्ध्ये ब्रह्मरन्ध्रे कृताञ्जलिम् ॥ २० ॥
—- गतिं ध्यात्वा उन्मन्यन्तमुच्चरन्
लयान्तमुच्चरन्प्राप्य तदधः प्रणवात्मना ॥ २१ ॥
ब्रह्मरन्ध्रे शिकारञ्च भ्रूमद्ध्ये तु वकारकम्
तालौ यकारमुच्चार्य कण्ठे नकारमुच्चरन् ॥ २२ ॥
हृत्प्रदेशे मकारन्तु मूलाधारे गते सति
पुनरुद्धृत्य हस्ताभ्यां प्रणवं पूर्वमुच्चरन् ॥ २३ ॥
भकारमुच्चरन्पश्चात् चन्द्रशेखरमाख्यकम्
चतुर्त्थ्यन्तं नमोन्तञ्च भ्रूमद्ध्यान्तं समुद्धरेत् ॥ २४ ॥
हृदयेनैव मन्त्रेण घटे सम्पूजयेत्ततः
आवाह्य स्थापनञ्चैव सन्निधाननिरोधनम् ॥ २५ ॥
अवकुण्ठगतञ्चैव पञ्चमुद्रां प्रदर्शयेत्
पीठशक्तिं प्रपूज्याथ प्रथमावरणं यजेत् ॥ २६ ॥
हृदयादिसमभ्यर्च्य शर्वादिद्वितये यजेत्
पञ्चावरणमार्गेण मङ्गलान्ध्वजशस्त्रकान् ॥ २७ ॥
तोरणान्पूर्ववत्पूज्य वह्निकार्यं समाचरेत्
एकासनस्थतां गौरीं वेदिकां वायुदेशके ॥ २८ ॥
करकान्दशसङ्ख्यांश्च स्थापयेद्विधिमार्गतः
प्रणवं पूर्वमुच्चार्य ह्रीङ्कारं द्वितयं भवेत् ॥ २९ ॥
गौर्यै चैव चतुर्त्थ्यन्तं कुम्भमावाह्य बुद्धिमान्
प्रथमावरणञ्चैव द्वितीयावरणं यजेत् ॥ ३० ॥
वृत्तकुण्डं हुनेत्पश्चात् आग्नेय्याद्यङ्गमुच्यते
होमयेत्तु विशेषेण शेषं पूर्ववदाचरेत् ॥ ३१ ॥
पृथगासनञ्च देव्याथ प्रत्येकं यागमण्टपम्
नवपञ्चैककुण्डं वा तोरणान्मङ्गलांश्चरेत् ॥ ३२ ॥
पूर्ववद्वह्निकर्मापि पञ्चावरणमार्गतः
सुमुहूर्ते सुलग्ने च घटस्नानं समाचरेत् ॥ ३३ ॥
संस्नाप्य भोगशक्त्याथ प्रभायां स्नानमाचरेत्
कल्याणकर्मचाराद्ध्य पाणिग्रहणपूर्वकम् ॥ ३४ ॥
प्रदक्षिणक्रमेणैव भद्रपीठे निवेशयेत्
महाहविर्निवेद्याथ पूजां कृत्वा समाचरेत् ॥ ३५ ॥
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमप्नुयात् ॥ ३६ ॥
इति सोमधारिप्रतिष्ठापटलश्चतुःपञ्चाशत्तमः