०५३ सोमास्कन्दपूजा पटलः

सोमास्कन्दपूजा पटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वज्ञानप्रदायकम्
सर्वलोकहितार्त्थाय सर्वानुग्रहकारकम् ॥ १ ॥

उत्सवेश्वरमाख्यातं सोमास्कन्देश्वरार्चनम्

पूजांशं त्रिगुणीकृत्य त्रिगुणं द्विगुणं भवेत् ॥ २ ॥

अथवापि च एकं वा कृशे वृद्धिक्रमं भवेत्
पूर्ववन्मधुवाक्षिप्य मृदा च न परिवेष्टयेत् ॥ ३ ॥

चलिकामेलिकाञ्चैव पात्रं वृणिमहेलुटि
टङ्क — नकौठारं पूर्ववत्बेरमीरितम् ॥ ४ ॥

एकवक्त्रञ्चतुर्बाहुं जटामकुटमण्डितम्
जटावामे तु धुर्तूरम् अर्द्धचन्द्रसमन्वितम् ॥ ५ ॥

वेणीं वस्त्रं भकारं वा दक्षिणेनक्रकुण्डलम्
वामकर्णे तु पत्रं स्यात्कर्णपत्रसमन्वितम् ॥ ६ ॥

कर्णमूले दुरिलतां कर्णोर्द्ध्वे पत्रनालकम्
वक्त्रकेशन्तथा पार्श्वे उपदूषणदूषितम् ॥ ७ ॥

टङ्कञ्च दक्षिणे पार्श्वे वामे कृष्णमृगन्तथा
अभयन्दक्षिणे चैव वामे तु वरदन्तथा ॥ ८ ॥

कारयेत्सिह्मकर्णं वा कटकादिविभूषितम्
तालमानं समाङ्गुष्ठं तालार्द्धन्तर्जनी तथा ॥ ९ ॥

एकांशं वृद्धितन्मद्ध्यम् अनामिकन्तु तर्जनी
तादृशं कल्पयेच्चैव कनिष्ठा च ततश्शृणु ॥ १० ॥

अनामिका त्रिभागञ्च द्विभागञ्च कनिष्ठिकम्
रेखात्रयन्तु तन्मद्ध्ये मूलञ्चैव द्विरेखया ॥ ११ ॥

एकरेखान्ततोर्ध्वे तु तालमद्ध्यन्ततश्शृणु
पद्मरेखान्ततः कृत्वा अधवा चतुरश्रकम् ॥ १२ ॥

उपवीतन्तु वामांसे त्रिसूत्राकृतिमारभेत्
उदरे वृश्चिकारस्था कुण्डे एवं प्रकल्पयेत् ॥ १३ ॥

दक्षिणे लम्बितं पादं शयनं वामपादकम्
सिह्मवक्त्रा कृतिञ्चैव कटिचर्मेण वेष्टयेत् ॥ १४ ॥

प्रबद्ध्य चित्रवर्णेन पुच्छवस्त्रं द्विपार्श्वयोः
पादे लम्बितवस्त्रञ्च पद्मपीठोपरिस्थितम् ॥ १५ ॥

पश्चिमे तु शिरश्चक्रं वृत्ताकारं वृषान्वितम्
मद्ध्ये पद्मदलञ्चैव शिखास्थाने प्रकीर्तितम् ॥ १६ ॥

अथो लम्बितकेशञ्च कर्णे मणिविभूषितम्
द्विपादञ्च द्विनयनं लम्बकर्णौ द्विपार्श्वयोः ॥ १७ ॥

किरीटमकुटोपेतं द्विपार्श्वे च स्तनद्वयम्
यज्ञोपवीतयुक्ताङ्गं सर्वाभरणभूषितम् ॥ १८ ॥

दक्षिणे शयनं पादं वामपादन्तु लम्बितम्
दक्षिणे चोत्पलञ्चैव वरदं वामहस्तके ॥ १९ ॥

यद्वासनं निवेश्याथ वस्त्रेण वेष्टयेत्घटम्
पद्मपीठोपरिस्थञ्च तन्मद्ध्ये लक्षणं श्रुणु ॥ २० ॥

षण्मुखः देवस्य देविकर्णान्तं ताल्वन्तञ्च समुच्यते
स्तानान्तञ्चैव कट्यन्तं शक्तिभूषणमुच्यते ॥ २१ ॥

गौरी मानान्तमाकल्प्य गुहलक्षणमुच्यते
द्विभुजञ्च द्विनेत्रञ्च सरत्नमकुटान्वितम् ॥ २२ ॥

अब्जं द्वयकरञ्चैव बालरूपन्दिगन्तरम्
किञ्चित्कुञ्चितपादौ च नग्नरूपन्तथैव च ॥ २३ ॥

देवदेवी च संस्थाने मद्ध्यमे पदं विन्यसेत्
अथवा पूर्वभागे च न्यस्त्वावरपदेऽथ वा ॥ २४ ॥

स्कन्दस्य लक्षणं प्रोक्तं प्रभाया लक्षणं श्रुणु
द्व्यङ्गुलञ्च सुविस्तारं वेत्राकृतितदन्तरे ॥ २५ ॥

द्व्यङ्गुलञ्च सुदीर्घं स्यात् पद्मछदवदाचरेत्
त्रिशूलाकृतिमग्रे च चरेत्पञ्च शिखाकृतिम् ॥ २६ ॥

अकारं पीठपार्श्वे च टङ्काकृतिसमव्ययम्
स्थातव्यं बन्धयेच्चैव सर्वावयवसुन्दरम् ॥ २७ ॥

पूर्ववद्यागशालान्तु षोडशस्तम्भसंयुतम्
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम् ॥ २८ ॥

पूर्वादि च चतुर्दिक्षु चतुरश्रं प्रकीर्तितम्
पूर्ववत्कुण्डमित्युक्तम् आग्नेय्यादिविदिक् श्रुणु ॥ २९ ॥

योनिकुण्डं प्रकल्प्याथ विदिक्षु च विराजितम्
ऐशान्ये वृत्तकुण्डन्तु नवकुण्डं प्रकीर्तितम् ॥ ३० ॥

वेदिका वामपार्श्वे तु रसाश्रं कुण्डमुच्यते

नेत्रोन्मीलनं पश्चात् जलाधिवासनं तथा ॥ ३१ ॥

पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा
अथवा याममेकं वा उत्थाप्य तदनन्तरम् ॥ ३२ ॥

रथे वा शिबिके वापि देवमारोपयेत्ततः
प्रदक्षिणक्रमेणैव यागद्वारसमागते ॥ ३३ ॥

भूमौ वस्त्रं परीधाप्य यजमाने न सो गुरुः
प्रणम्य चार्घ्य पाद्यादि ददेन्मण्टपवेशनम् ॥ ३४ ॥

प्राक्शिरश्चोर्ध्ववक्त्रञ्च शयनं परिकल्पयेत्
दारुजं योनिजञ्चैव अण्डजं मुण्डजन्तथा ॥ ३५ ॥

बीजञ्च धान्यराशिञ्च पूर्ववत्परिकल्पयेत्
बिम्बशुद्धिं ततः कृत्वा शयनं पाददेशके ॥ ३६ ॥

अभ्यङ्गादीन्प्रकल्प्याथ घटे सम्पूजयेच्छिवम्
ससूत्रं सापिधानञ्च रत्नं वै स्वर्णपङ्कजम् ॥ ३७ ॥

सकूर्चन्नालिकेरञ्च लम्बकूर्चं प्रकल्पयेत्
रक्तवस्त्रपरीधानम् आज्ञापल्लवसंयुतम् ॥ ३८ ॥

स्वर्णपल्लवसंयुक्तं गन्धपुष्पैरलङ्कृतम्
अष्टगन्धसमायुक्तं तोयमद्ध्ये विनिक्षिपेत् ॥ ३९ ॥

ऐशान्ये पीठशक्तिञ्च करकाकृतिमुत्तमम्
परितोष्टघटान्यस्य परिवारघटान्न्यसेत् ॥ ४० ॥

मङ्गलान्तोरणान्शस्त्रान्दिक्ध्वजान्परिकल्पयेत्
घटे सम्पूजयेत्पश्चात् मूलमन्त्रक्रमागतः ॥ ४१ ॥

प्रणवं पूर्वमुच्चार्य व्योमव्यापि निचाक्षरम्
पुनर्व्योमव्यापिनी च नीलकण्ठमतः परम् ॥ ४२ ॥

सोमास्कन्देश्वरञ्चैव चतुर्त्थ्यन्तं समुच्चरन्
नमोन्तमुच्चरेत्पश्चात् मूलमन्त्रमिति स्मृतम् ॥ ४३ ॥

शम्बरं पूर्वमुच्चार्य अञ्जल्यावाह्यमुद्रया
नादान्तमुच्चरन्पश्चात् ———— ॥ ४४ ॥

शब्दं लयमनुप्राप्य मूलाधारे लयङ्गतः
पश्चात्प्रणवमुच्चार्य व्योमव्याप्यादि चाक्षरम् ॥ ४५ ॥

सोमास्कन्देश्वरान्तञ्च चतुर्त्थ्यन्तं नमोन्तकम्
भ्रूमद्ध्यान्तं समागत्वा खण्डिका द्वारमाश्रितम् ॥ ४६ ॥

द्वारमुद्धृत्य मनसा घटेप्यावाह्य पूजयेत्
फलशक्तिं समभ्यर्च्य स्रजाञ्जलित्रयं भवेत् ॥ ४७ ॥

प्रथमावरणे चैव हृदयादिप्रपूजयेत्
द्वितीयावरणे चैव शर्वादीन्पूजयेत्ततः ॥ ४८ ॥

पञ्चावरणमार्गेण पूजयित्वा यथाविधि
मण्टपे वायुदिग्भागे वेदिकां पूर्ववच्चरेत् ॥ ४९ ॥

करकान्दशसङ्ख्यांश्च वेदिकामद्ध्यमे न्यसेत्
क्षित्यादिकुटिलं बृन्दं भोगशक्तिं समर्चयेत् ॥ ५० ॥

प्रणवं पूर्वमुच्चार्य मायाबीजं द्वितीतकम्
उमायेति ततः पश्चात्स्वाहान्तं मन्त्रमुच्चरन् ॥ ५१ ॥

आवाह्य पूजयेत्पश्चात्पीठशक्तिं प्रपूजयेत्
प्रथमावरणं पूज्य हृदयादीन्प्रपूजयेत् ॥ ५२ ॥

द्वितीय्यावरणे पूज्य वामाद्यष्टशिवं यजेत्
नैर्ऋते वेदिकां कृत्वा दशकुम्भन्न्यसेत्ततः ॥ ५३ ॥

मद्ध्ये गुहं समभ्यर्च्य प्रणवं पूर्वमुच्चरन्
सौकारद्वितयं प्रोक्तं स्कन्दाय च नमोन्तकम् ॥ ५४ ॥

आवाह्य पूजयेत्पश्चात् प्रथमावरणं यजेत्
हृदयादीन् समभ्यर्च्य द्वितीय्यावरणे श्रुणु ॥ ५५ ॥

जयन्तादीन्प्रपूज्याथ पूर्ववत्परिकल्पयेत्
कुण्संसारपूर्वन्तु पूर्वोक्तविधिना हुनेत् ॥ ५६ ॥

देवं सम्पूजयेत्पूर्वं मूलमन्त्रेण होमयेत्
देवीं सम्पूजयेत्पश्चात्तन्मन्त्रेणैव होमयेत् ॥ ५७ ॥

पूर्ववच्च चतुर्दिक्षु नरादीन्पूजयेत्ततः
हृदयादीन्समभ्यर्च्य चतुष्कुण्डेषु होमयेत् ॥ ५८ ॥

नेत्रास्त्रं होमयेद्वृत्तकुण्डं सम्पूजयेत्ततः
पश्चात् भोगेशमभ्यर्च्य उक्तमन्त्रेण होमयेत् ॥ ५९ ॥

आग्नेय्यादि चतुर्दिक्षु हृदयादीन्यजेद्धुनेत्

नेत्रास्त्रं पूर्ववच्चैव प्रधाने होमयेत्ततः ॥ ६० ॥

षडश्रकुण्डे संस्कारं स्कन्दं सम्पूजयेत्ततः
होमयेद्विधिवच्चैव शान्तिकुम्भं पृथक्पृथक् ॥ ६१ ॥

पूर्वोक्तविधिना हुत्वा तद्बाह्ये च ततश्शृणु
वेदिकां पूर्ववत्कृत्वा सप्तधान्यं ततोपरि ॥ ६२ ॥

पद्ममष्टदलं लिख्य घटमेकं न्यसेत्ततः
वह्निमावाहयेत्कुम्भे पूर्ववत्पूजयेत् गुरुः ॥ ६३ ॥

चतुरश्रं प्रकल्प्याथ कुण्डे वा स्थण्डिलेऽपि वा
वह्निमाराधयेत्पश्चात् वह्निमन्त्रेण होमयेत् ॥ ६४ ॥

सायम्प्रातर्हुनेच्चैव पूतरन्ध्रं मुनित्रयम्
दिनसङ्ख्यां हुनेच्चैव त्रिखण्डां कल्पयेत्ततः ॥ ६५ ॥

षडध्वमन्त्रमुच्चार्य तत्वतत्वेश्वरं यजेत्
मूर्तिमूर्तीश्वरं हुत्वा ऋत्विग्भिः स्पर्शनं हुनेत् ॥ ६६ ॥

जप्त्वा गत्वा हुनेच्चैव तत्वत्रयं प्रपूजयेत्
वह्निं संयोजयेत्कुम्भे सुमुहूर्ते सुलग्नके ॥ ६७ ॥

भत्रपीठं समारोप्य न्यासकर्मसमाचरेत्
नेत्रान्तं पूजयेत्पश्चात् शक्तिं स्कन्दप्रभान्तथा ॥ ६८ ॥

पृथक्पृथक्प्रपूज्याथ घटमुत्थापयेत्ततः
कुम्भात् बीजं समादाय देवं संयोजयेत्ततः ॥ ६९ ॥

वर्द्धन्यापीठिकां स्नाप्य पूर्वाद्यष्टदले श्रुणु
विद्येश्वरघटान्पूज्य शक्तिकुम्भं ततः परम् ॥ ७० ॥

देवीमावाहयेत्पूज्य तदधोपीठिकां यजेत्
अष्टकुम्भं दलेपूज्य तदेव स्कन्दमर्चयेत् ॥ ७१ ॥

घटं संयोजयेत्पश्चात्प्रभायां पूजयेत्ततः
वह्निकुम्भं समादाय प्रभां सम्पूजयेत्ततः ॥ ७२ ॥

महाहविर्निवेद्याथ धूपदीपं समाचरेत्
सहस्रस्नपनं वापि तस्यार्द्धं वा तदर्द्धकम् ॥ ७३ ॥

कलशं स्नापयेत्पश्चात् हविर्दत्वा निवेदयेत्
आचार्यं पूजयेत्पश्चात् ब्राह्मणान् भोजयेत्ततः ॥ ७४ ॥

कौतुकन्तु त्रिपक्षान्ते वर्जयेत्परमेश्वरम्
तावन्नित्यं यजेच्चैव नैमित्तिकं न कारयेत् ॥ ७५ ॥

कल्याणकर्मचाराद्ध्य स्वगृह्योक्तविधानतः
पाणिग्रहणपूर्वं यः पूर्ववत्परिकीर्तितम् ॥ ७८ ॥

एवं सम्पूजयेच्चैव सर्वज्ञानप्रदायकम्
इष्टकाम्यार्त्थसिद्ध्यर्त्थं शिवसायुज्यमाप्नुयात् ॥ ७९ ॥

इति होमास्कन्दप्रतिष्ठापटलस्त्रिपञ्चाशत्तमः