सायरक्षाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वलोकहिताय च
सर्वकामप्रदं प्रोक्तं श्रुणुष्व शरवणोद्भव ॥ १ ॥
राजराष्ट्राभिवृद्ध्यर्त्थं सायरक्षां प्रकल्पयेत्
रवेरस्तमनात्पूर्वं त्रिमुहूर्तन्तु नाडिका ॥ २ ॥
स्नानकर्मसमारभ्य धौतवस्त्रोत्तरीयकम्
दीक्षाशुद्धिर्द्विजश्शिष्यः पाकशालां प्रवेशयेत् ॥ ३ ॥
शोधनं क्षालनञ्चैव ताम्रलोहादिजीवितम्
अथवामण्टपे वापि पात्रशुद्ध्यर्त्थमीरितम् ॥ ४ ॥
सितशाली हेमशाली पञ्चशाली महाव्रती
क्वणशाली दीपशाली आहरेत्सद्यमन्त्रकैः ॥ ५ ॥
शोषयेद्वाममन्त्रेण गोमयेन विशुद्ध्यति
अस्त्रमन्त्रेण चाभ्यर्च्य तुषञ्च सिकतान्यपि ॥ ६ ॥
शोधनं क्षालयेच्चैव पञ्चवारं त्रिवारकम्
द्रोणतण्डुलमाहृत्य चोद्घलालपितन्तु वा ॥ ७ ॥
उलूखलन्तु वामेन मुसलेनैव चास्त्रकैः
तोयेन चूर्णमिश्रेण लवणं कुडुपत्रयम् ॥ ८ ॥
भाण्डेष्वन्तरितन्तोयं वस्त्रेण सेचयेत्किरेत्
तन्मद्ध्ये निक्षिपेत् ———– भवेत् ॥ ९ ॥
अभावे माहिषन्दद्यात्कारयेच्छिवसन्निधौ
नित्याग्नौ ज्वलितं दीपं षट्त्रिंशत्तन्तुनाघटे ॥ १० ॥
वर्तिम्बद्ध्यसमादाय सरुद्रगणिकास्त्रियः
नृत्तगीतैश्च वाद्यैश्च छत्रचामरसंयुतम् ॥ ११ ॥
प्रदक्षिणक्रमेणैव अन्तर्मण्टपमाविशेत्
त्रिपादिकोर्ध्वे विन्यस्य तत्पूर्वे च ततश्शृणु ॥ १२ ॥
त्रिपादिकोर्ध्वे स्थलिके पञ्चपात्रन्न्यसेत्ततः
षट्त्रिंशत्तन्तुनावेष्ट्य कर्णिकामद्ध्यमे न्यसेत् ॥ १३ ॥
यद्वा विन्यस्य कर्पूरम् अथवा शालिचूर्णकम्
चूलिका कृतिमद्ध्ये च आज्येन वर्तिदीपकम् ॥ १४ ॥
चतुस्संस्कारशुद्धेन गन्धपुष्पादिनार्चयेत्
ईशानं पुरुषं घोरं वामं सद्यक्रमेण तु ॥ १५ ॥
पञ्चब्रह्मन्यसेच्चैव धूपदीपं प्रदापयेत्
पूर्वं घटं समादाय मुखहृत्पाददेशके ॥ १६ ॥
न्यसेत्प्रदक्षिणं त्रीणि मात्राषोडशसङ्ख्यया
पञ्चवक्त्रन्ततः पश्चात्पूर्ववद्विन्यसेत्क्रमात् ॥ १७ ॥
नीराञ्जनं ततः कृत्वा चन्द्रबीजं प्रपूजयेत्
मात्राषोडशसङ्ख्या च पूर्ववन्विन्यसेत्क्रमात् ॥ १८ ॥
पाद्यञ्चाचमनार्घ्यञ्च भूततत्वेकसङ्ख्यया
सर्षपञ्च मरीची च कार्पासं बीजमुच्यते ॥ १९ ॥
शुष्कगोमयमेवोक्तं निम्बपत्रं विभूति च
पृथक्पृथक् मुष्टिमात्रान् वेष्टयेत्त्रिप्रदक्षिणम् ॥ २० ॥
अग्निं पात्रेषु निक्षिप्य भस्म चैव ततश्शृणु
मात्रान्तु भूतसङ्ख्या च पञ्चमूर्ध्नासमायुतम् ॥ २१ ॥
पञ्चवक्त्रसमायुक्तं स्रक् गुह्यञ्जानुदेशयोः
अंसौ च भस्मनाधार्यं नेत्रमन्त्रेण पूजयेत् ॥ २२ ॥
दर्पणं मुनिमात्रं स्यात् शिरोमन्त्रेण पूजयेत्
चित्रञ्चैव च तन्मात्रम् अस्त्रमन्त्रं न्यसेत्ततः ॥ २३ ॥
मूर्ध्निदेशे तु दर्शित्वा चामरञ्च ततश्शृणु
चतुस्संस्कारशुद्धेन अस्त्रमन्त्रं यजेत्ततः ॥ २४ ॥
पङ्क्तिसङ्ख्या क्रमान्मात्रं तालञ्चैव ततश्शृणु
बहुरूपन्न्यसेच्चैव मात्रा तु युगसङ्ख्यया ॥ २५ ॥
बृन्दं त्रिमात्रसंयुक्तं सद्यमन्त्रं यजेत्ततः
शिवाय मूलमन्त्रेण सुपुष्पन्दापयेत्ततः ॥ २६ ॥
पाद्यमाचमनार्घ्यञ्च दापयेत्तच्छिवाय च
पश्चात् गौरीं समभ्यर्च्य धूपदीपन्ददेत् गुरुः ॥ २७ ॥
यद्वाच शिवपूजान्ते भोगशक्तिं प्रपूजयेत्
पश्चात् शिवाय सम्पूज्य पाद्यमाचमनार्घ्यकम् ॥ २८ ॥
भोगशक्तिं स्रुवन्दाप्य नृत्तगीतं समाचरेत्
प्रातःकाले च मद्ध्याह्ने उक्तमात्रान्तदर्द्धकम् ॥ २९ ॥
धूपदीपादिकन्दत्वा उपचारं समर्चयेत्
महेश्वरादिबेराणां कथं शम्भो विशिष्यते ॥ ३० ॥
अभिन्नमेकपीठे च देवी सहितमेव वा
धूपदीपादिकन्दत्वा प्रत्येकन्तु न कारयेत् ॥ ३१ ॥
वक्ष्ये किञ्चिद्विशेषोऽस्ति भस्मन्देवाय दापयेत्
———————————– ॥ ३२ ॥
पृथक्पीठस्थिताङ्गौरीं प्रत्येकं कारयेत्ततः
एवं कृत्वा विशेषेण राजयाष्ट्रविवर्द्धनम् ॥ ३३ ॥
पुत्रपौत्राभिवृद्ध्यर्त्थं सर्वकामफलप्रदम् ॥ ३४ ॥
इति सायरक्षाविधिपटल द्विपञ्चाशत्तमः