०५१ अष्टमीपूजाविधिपटलः

अष्टमीपूजाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अष्टम्यर्चनमुत्तमम्
कृष्णपक्षेऽष्टमीत्युक्तं पूर्वविद्धाप्रशस्यते ॥ १ ॥

वर्जयेत्परविद्धा च अष्टम्यामभिधीयते
उदयाद्युदयान्तञ्च उत्तमं परिकीर्तितम् ॥ २ ॥

उदयादि समारभ्य अष्टम्यस्तमनात्परम्
यामार्द्धं व्यापकञ्चैव अभिषेकं प्रशस्यते ॥ ३ ॥

रात्रौ प्रथमयामे तु अभिषेकं समाचरेत्
प्रदोषे तु कलामात्रम् अष्टमी व्यापकं भवेत् ॥ ४ ॥

तत्काले पूजनं कर्तुं सर्वसिद्धिप्रदायकम्

एकमासे द्विपक्षे च अष्टमीसु प्रवर्तते ॥ ५ ॥

तन्मासमधिकं प्रोक्तं द्विपक्षे च शिवं यजेत्
यन्मासे चाष्टमीहीनं तन्मासादूर्ध्वमासके ॥ ६ ॥

स्वातिथिद्वयसम्प्राप्ते हीनमासार्द्धकं यजेत्
सातिथिद्वितयं न्यूनं तन्मासात्पूर्वमासके ॥ ७ ॥

अष्टम्यां शिवमभ्यर्च्य हीनमासाधिकं बुधः
यः पूर्वे वाप्यष्टम्यामपरे पूर्वमर्चयेत् ॥ ८ ॥

तद्दिने चोपवासञ्च शिवं सम्पूजयेत्ततः
व्रतानामुत्तमं प्रोक्तम् अष्टम्यान्तु महाव्रतम् ॥ ९ ॥

मार्गशीर्षकमासादि आरभ्य व्रतमाचरेत्
सहस्रकलशांश्चैव तस्यार्द्धं वा तदर्द्धकम् ॥ १० ॥

अष्टोत्तरशतं वापि अशीत्येकोनपञ्चाशत्
पञ्चविंशतिनवान्तञ्च घृतस्नानं समाचरेत् ॥ ११ ॥

प्रातर्मद्ध्याह्नरात्रौ च त्रिकालं पूजितोत्तमः
अथवा एककालं वा रात्रौ पूजां समाचरेत् ॥ १२ ॥

सहस्रकलशान्स्थाप्य शिवसायुज्यमाप्नुयात्
मद्ध्यमं भोगमोक्षञ्च अधमं पुत्रवर्द्धनम् ॥ १३ ॥

अष्टोत्तरशतञ्चैव रुद्रलोकमवाप्नुयात्
एकाशीति शतायुष्यं जयमेकोनपञ्चाशत् ॥ १४ ॥

सकर्मसफलं पञ्चविंशतिस्नपनन्तथा
रन्ध्रन्तु क्रोधनाशञ्च भूतसङ्ख्या महीपतिम् ॥ १५ ॥

मन्दोष्णेन जलेनैव गोशृङ्गाकृतिस्नापयेत्
कपिलागोघृतेनैव उत्तमं परिकीर्तितम् ॥ १६ ॥

गन्धतैलादिकुम्भान्तं नित्यवत्स्नानमाचरेत्
महाहविर्निवेद्याथ गुलान्नं पायसान्नकम् ॥ १७ ॥

फलत्रयञ्च पयसा दधिचेक्षुसलाजकम्
उपचारान्समभ्यर्च्य नमस्कारं प्रदक्षिणम् ॥ १८ ॥

तित्थ्यन्ते पारणां कुर्यात्सर्वाभीष्टफलप्रदम्
नक्तं वा भोजयेच्चैव शिवमन्त्रं समुच्चरन् ॥ १९ ॥

मार्गशीर्षञ्च पुष्यञ्च माघफाल्गुनचैत्रकम्
वैशाखं ज्येष्ठमाषाढं श्रावणं भाद्रपदं तथा ॥ २० ॥

आश्वीजकृत्तिकामासे मासं प्रतिसमर्चयेत्
नन्द्यावर्तेन सम्पूज्य पायसान्नं निवेदयेत् ॥ २१ ॥

चुलुकोदकमात्रेण पीत्वा गोमूत्रमुत्तमम्
अतिरात्राख्य यज्ञस्य फलं दृष्टगुणं भवेत् ॥ २२ ॥

मार्गशीर्षे समभ्यर्च्य पुष्ये चैव ततश्शृणु
करवीरेण सम्पूज्य दध्यन्नञ्च निवेदयेत् ॥ २३ ॥

घृतं सम्प्राश्य पूर्वे वा वाजपेयफलं भवेत्
माघे बील्वकरवीरेण पूज्यदध्यन्नं निवेदयेत् ॥ २४ ॥

गोक्षीरं प्राशयेच्चैव चुलुकोदकमुत्तमम्
गोमयाष्टपलं बध्वा फाल्गुने च ततश्शृणु ॥ २५ ॥

पद्मपुष्पैस्समभ्यर्च्य तिलान्नञ्च निवेदयेत्
मधुसम्प्राशयेच्चैव राजसूयाख्य यज्ञकम् ॥ २६ ॥

तत्फलाष्टगुणं प्रोक्तं चैत्रे चैव ततश्शृणु
पुन्नागकुसुमैः पूज्य मुद्गान्नञ्च निवेदयेत् ॥ २७ ॥

गोधूमं प्राशयेच्चैव अग्निष्टोमफलं भवेत्
वैशाखे कर्णिकारञ्च आज्यान्नञ्च निवेदयेत् ॥ २८ ॥

दिने कुशोदकं पीत्वा पुरुषमेधफलं लभेत्
ज्येष्ठे च द्रोणपुष्पैश्च शुद्धान्नञ्च निवेदयेत् ॥ २९ ॥

शृङ्गोदकञ्च पीत्वा तु पौण्डरीकफलं लभेत्
आषाढे चैव श्वेतार्कं हरिद्रान्नं निवेदयेत् ॥ ३० ॥

प्राशयेत्तु गोमयाम्बु सौत्रामणिफलं लभेत्
श्रावणे जातिपुष्पैश्च कदलीफलमिश्रकम् ॥ ३१ ॥

अन्नं निवेदयेत्तत्र मन्त्ररूपजलं पिबेत्
अतिरात्रफलं लब्ध्वा श्रुणु भाद्रपदेऽष्टमी ॥ ३२ ॥

चम्पकैः कुसुमैः पूज्य पनसाम्रफलैस्सह
नैवेद्यन्दापयेच्चैव प्राशनं बिल्वतोयकम् ॥ ३३ ॥

अनन्तं लभते पुण्यम् आश्विन्ये च ततश्शृणु

मन्दारकुसुमैः पूज्य सितयुक्तं पचप्लुतम् ॥ ३४ ॥

अन्नं निवेदयेच्चैव अग्निष्टोमफलं लभेत्
गोकर्णाकृतिहस्तेन प्राशयेत्प्रतिमासकम् ॥ ३५ ॥

अनन्तपुण्यफलदम् अष्टम्यांशिवमर्चयेत्
जन्माशौचं मृताशौचं व्रतीनान्तु भवेद्यदि ॥ ३६ ॥

तथा च चोपवासञ्च आपःप्राशनमात्रकम्
कर्तव्यमपरे मासे द्विगुणं पूजयेत्ततः ॥ ३७ ॥

अपरे चैव कर्तव्यम् आशौचे तु न कारयेत्
एतत्व्रतस्य मद्ध्ये तु स्त्रीणाञ्चैव रजस्वला ॥ ३८ ॥

भर्तारञ्चैव पुत्रञ्च उषित्वा च यथाविधि
तद्दिने चोपवासन्तु स्त्रीणां व्रतमुपास्यताम् ॥ ३९ ॥

इत्यष्टमीपूजाविधिपटल एकपञ्चाशत्तमः