०५० उपरागोत्सवपटलः

उपरागोत्सवपटलप्रारम्भः
अथ वक्ष्ये विशेषेण उपरागोत्सवं श्रुणु
उपरागं महच्छब्दं कथं शम्भो महेश्वर ॥ १ ॥

पापाधिके क्रूरकाले जनानां व्याधिपीडिते
उपग्रहोदये प्राप्ते उपरागं भविष्यति ॥ २ ॥

ब्राह्मणानां समीपे तु यथा चण्डालस्पर्शवत्

तथा नीच गृहे योगे कृष्णसर्पवदाकृतिः ॥ ३ ॥

अत्यन्तं मद्ध्यमे पार्श्वे राहुकेत्वोस्समीपके
शुद्धस्फटिकवर्णाभं शशिनञ्च सुधामयम् ॥ ४ ॥

अकलङ्गप्रभं रत्नं डाडिमी मुकुलोपमम्
जपापुष्पनिभाकारम् अम्लानकुसुमप्रभम् ॥ ५ ॥

माणिक्यसदृशं देहं रवेस्सामीप्यमुच्यते
कृष्णाभं प्रतिभट्यन्ते स्पर्शदोषं भवेद्यदि ॥ ६ ॥

सर्वप्रजानां भूलोके महास्पर्शं विधीयते
तद्दोषशमनार्त्थाय स्नानं दानं जपं यजेत् ॥ ७ ॥

मेषसङ्क्रान्तिकाले तु आश्वीजविषुवे तथा
विषुकाले तु सम्प्राप्ते विप्राणां व्याधिपीडितम् ॥ ८ ॥

आषाढे सङ्क्रमे स्पृश्य भूभुजानान्तु पीडदः
प्रातः काले व्याधिमृत्युर्मद्ध्याह्ने तु दरिद्रता ॥ ९ ॥

सायाह्ने पुत्रनाशः स्यात् अतोर्ध्वं कुलमक्षयम्
अर्द्धरात्रे तदूर्ध्वे च धान्यानां सम्भवो भवेत् ॥ १० ॥

उषः काले सर्वनाशं जन्मर्क्षे प्राणपीडितम्
द्विचतुष्षष्ठमासेषु भयं भवति निश्चितः ॥ ११ ॥

सूर्योपरागकाले च आदौ पुण्यप्रशंसनम्
चन्द्रोपरागसमये अन्ते सर्वहितं भवेत् ॥ १२ ॥

स्नानं दानं जपं होमं शम्भोर्यजनमुत्तमम्
औषधम् उपदेशञ्च विद्याभ्यासं प्रशस्यते ॥ १३ ॥

तत्काले पाचयेदन्नं भुञ्जीत व्याधिपीडितम्
पाकमन्नं यजेच्चैव सर्वसौभाग्य सम्पदम् ॥ १४ ॥

पुरानिर्मितपाकञ्च कथं पूज्यश्च देशिकः
दर्भानादाय तद्भाण्डे तैलौषधजलेऽपि वा ॥ १५ ॥

अन्यानि वेशयेच्चैव तस्माद्दोषो न विद्यते
पाकमद्ध्ये तु सम्प्राप्ते दर्भानादाय निक्षिपेत् ॥ १६ ॥

मुक्तान्तेऽपि च नैवेद्यं कारयेद्देशिकोत्तमः
अपुष्पवृक्षमूले च अफलो वृक्षमूलके ॥ १७ ॥

आदाय मुसलेनैव ताडयेत्सर्वसिद्धिदम्
स्त्रीसंयोगं प्रकुर्वीत सुपुत्रं जायते तदा ॥ १८ ॥

सर्वदोषप्रशमनं देवं सम्पूजयेत्ततः
महेश्वरं समादाय तूर्यवाद्यैस्समन्वितम् ॥ १९ ॥

अस्त्रमूर्तिं समादाय तीर्त्थतीरे मनोरमे
पुण्याहं वाचयेत्तत्र देहशुद्धिं तथैव च ॥ २० ॥

अन्तर्यजनमित्युक्तं जाह्नव्यादीन्समर्चयेत्
अस्त्रदेवन्तु संस्नाप्य सर्वे स्नात्वा विशेषतः ॥ २१ ॥

पश्चाद्देवालयङ्गत्वा पूर्ववत्सर्वमाचरेत्
सहस्र कलशं स्नाप्य तस्यार्द्धं वा तदर्द्धकम् ॥ २२ ॥

तदर्द्धं वा शतं वापि शतमित्यभिधीयते
पञ्चविंशतिरर्द्धं वा भूतान्तमभिषेचनम् ॥ २३ ॥

मधुयुक्तं घृतं क्षीरं गजतोयं प्रशस्यते
पूर्ववत्स्नापयेच्चैव गन्धपुष्पैरलङ्कृतम् ॥ २४ ॥

नैवेद्यधूपदीपान्तं पूर्ववत्परिकल्पयेत्
एवं यः कुरुते राजा सर्वपापैः प्रमुच्यते ॥ २५ ॥

सर्वव्याधिप्रशमनं सर्वपीडानिवारणम् ॥ २६ ॥

इति उपरागोत्सवविधिपटलः पञ्चाशत्तमः