अमावास्यापूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अमायजनमुत्तमम्
उदयाद्युदयान्तञ्च अमाया उत्तमं भवेत् ॥ १ ॥
उदयाद्यस्तमनान्तं मद्ध्यमं परिकीर्तितम्
पञ्चविंशतिनाड्यस्तु अधमं परिकीर्तितम् ॥ २ ॥
तद्दिने तीर्त्थमित्युक्तं तद्रात्रौ पूजयेच्छिवम्
मद्ध्याह्नव्यापिनीयुक्तं तीर्त्थकार्यं विधीय्यते ॥ ३ ॥
तद्दिने श्राद्धकर्मापि पितॄणान्तृप्तिमक्षयम्
तिलोदकप्रदानञ्च तद्दिने तु विशेषतः ॥ ४ ॥
मासमेकदिनं प्रोक्तं कथं श्राद्धं महेश्वर
तद्दिने तु पितृश्राद्धं कुलकोटिं समुद्धरेत् ॥ ५ ॥
उदयाद्यस्तमनान्तं पञ्चभागं विभज्य च
प्रातस्सङ्गममद्ध्याह्नम् अपराह्णन्तथैव च ॥ ६ ॥
सायाह्नमिति सञ्ज्ञेयः सायाह्नव्यापिनी यदि
परे हनि त्वमायान्तु यत्राधिक्यं दिने भवेत् ॥ ७ ॥
तद्दिने च पितृश्राद्धं तिलोदकमथापि वा
श्रद्धया दीयते श्राद्धं यथा शक्तिविचारतः ॥ ८ ॥
प्रथमादिपूर्णिमान्तं शुक्लपक्षन्तथैव च
यत्तिथौ म्रियते मर्त्यः तत्तिथौ श्राद्धमुत्तमम् ॥ ९ ॥
श्रोत्रियो वेदविदुषश्शास्त्रज्ञो ज्ञानवान्तथा
शिवपूजापरो विप्रश्शिवद्विजकुलोद्भवः ॥ १० ॥
शिवदीक्षा युतश्चैव उत्तमं परिकीर्तितम्
अपत्नीकोवनस्थश्च पाण्डित्यज्ञानहीनकः ॥ ११ ॥
अदीक्षितश्चाङ्गहीनः काणः पिशुनशुण्डकः
गोलकोदत्तपुत्रश्च ऋतुपूर्वोजपुत्रिकौ ॥ १२ ॥
दन्तहीनोदुराचारो लोके भवति निन्दितः
धूर्त्तो बह्वग्निसन्तप्तः क्रूरो वाप्यन्यजातयः ॥ १३ ॥
एतान्त्यजेदभावे च देशिकः पत्निहीनकः
श्राद्धं करोति यद्विप्रो यद्वाभावे गुह श्रुणु ॥ १४ ॥
ब्रह्मचारी च विप्रश्च विश्वेदेवे प्रशस्यते
अभावे पैतृकश्चैव कारयेदन्यजातयः ॥ १५ ॥
स्वस्वजातिष्वभावेन वर्जयेतान्यजातयः
चरेच्छ्राद्धं गृहे चैव गोमयालेपनं तथा ॥ १६ ॥
द्विजातिवरणञ्चैव उपचारेण भक्तिमान्
ब्राह्मणान् ग्राहयेत् भक्त्या स्नानानुष्ठानपूर्वकम् ॥ १७ ॥
नित्यकर्मप्रकुर्वीत तदेवब्राह्मणान् वरेत्
पादप्रक्षालनं कृत्वा गन्धतैलाभिषेचनम् ॥ १८ ॥
मथितञ्च स्वशिष्येण लेपनं स्नानमाचरेत्
यथाविधि प्रकुर्वीत धौतवस्त्रोत्तरीय्यकम् ॥ १९ ॥
वस्त्रयज्ञोपवीतञ्च भूषणादीनि दापयेत्
स्वगृह्योक्तविधानेन वह्निकार्यं पुराकृतम् ॥ २० ॥
विश्वेदेवं पुराप्रोक्तं पश्चात्पैतृकमुत्तमम्
वैष्णवन्तु तदन्ते वा अर्चयित्वा विशेषतः ॥ २१ ॥
सदाशिवाख्यवैष्णव्यम् अक्षतं तिलपुष्पकम्
गन्धपुष्पादिनाभ्यर्च्य मूलेनावाहयेत्ततः ॥ २२ ॥
अभ्यङ्गं कवचेनैव वस्त्रन्तु हृदयेन तु
पुरुषेणोपवीतञ्च बहुरूपेण गन्धकम् ॥ २३ ॥
पादप्रक्षालनञ्चैव अस्त्रमन्त्रेण देशिकः
सद्येन पुष्पमभ्यर्च्य पाद्यमाचमनार्घ्यकम् ॥ २४ ॥
मूलेन षोडशवारम् अभिमन्त्र्यार्घ्यमुच्यते
ईशानेन तु मन्त्रेणाचमनन्तु विधीयते ॥ २५ ॥
हृदयेनैव मन्त्रेण पाद्यमादौ विशेषतः
कदलीपर्णमादाय अश्रं वामे तु प्रोक्षयेत् ॥ २६ ॥
चतुस्त्रयद्वयं वृत्तं गोमयेनैव शुद्ध्यति
अन्नादिव्यञ्जनांश्चैव यावन्मात्रं प्रपूरयेत् ॥ २७ ॥
अस्त्रेण प्रोक्षयेच्चैव पात्रं वामेन संस्पृशन्
अपसव्यक्रमेणैव एकवारं प्रदक्षिणम् ॥ २८ ॥
ईशानेनैव मन्त्रेण परिषिच्य विशेषतः
शम्बरानुच्चरंश्चैव अभिमन्त्र्य विशेषतः ॥ २९ ॥
तिलाक्षतसहोपेतम् उदकेनैव पूर्वकम्
दत्तं दापयते चैव पाद्यादौ मन्त्रमुच्चरन् ॥ ३० ॥
सदाजपन्श्रुतिं जप्त्वा विकिरान्श्राद्धमाचरेत्
उच्छिष्टक्षालनं पश्चात्ताम्बूलसहितन्तथा ॥ ३१ ॥
दक्षिणान्दापयेत्पश्चात् चतुर्विंशति सङ्ख्यया
पितॄणां बलिदानञ्च वह्निमुद्वासनञ्चरेत् ॥ ३२ ॥
तिलोदकन्ददेद्विप्रः अन्येषां वर्जयेत्ततः
आमरूपेण कर्तव्यं क्षत्रियादि प्रशस्यते ॥ ३३ ॥
मातापितृमृते काले श्राद्धं कुर्वति यः पुमान्
अमायादिवसे प्राप्ते चरेत्पितृदिनं श्रुणु ॥ ३४ ॥
दिवसस्याष्टमे भागे पितॄणान्तु तिलोदकम्
दापयेत्तत्र वंशश्च पितॄनाचार्यदेशिकः ॥ ३५ ॥
जातिसेनापतींश्चैव अतिथीन्परिकल्पयेत्
विप्रमेकांशमादाय बहिरासनमाचरेत् ॥ ३६ ॥
तिलेनावर्जयेच्चैव पादक्षालनपूर्वकम्
गन्धपुष्पैरलङ्कृत्य धूपदीपं प्रदर्शयेत् ॥ ३७ ॥
कदलीपर्णमादाय ———
उपपात्रसहोपेतं प्रोक्षयेदस्त्रमन्त्रतः ॥ ३८ ॥
अन्नन्दापयते चैव दद्याल्लवणपूर्वकम्
सर्पिषापयसा चैव दधिमध्वफलत्रयम् ॥ ३९ ॥
व्यञ्जनं पायसान्नञ्च परमान्नं पृथक्पृथक्
दापयेत्कदलीपर्णे पात्रशुद्धिञ्च पूर्वकम् ॥ ४० ॥
पितृभ्यो धूपदीपञ्च तिलञ्चोदकपूर्वकम्
दत्तं ददेद्विशेषेण उदकं प्राश्य बुद्धिमान् ॥ ४१ ॥
प्राणाहुतिं ततः कृत्वा भोजनानन्तरं ततः
क्रमुकं पत्रचूर्णञ्च दक्षिणान्दापयेत्ततः ॥ ४२ ॥
भुञ्जीतपूर्ववत्कृत्वा ताम्बूलन्नैव शोधयेत्
एकभुक्तं प्रकुर्वीत अभावे श्रुणु षण्मुख ॥ ४३ ॥
अशक्तोपि दरिद्रो वा तर्पणानन्तरं गुरुः
आत्मानं पितृरूपन्तु अपसव्योपवीतकम् ॥ ४४ ॥
पात्रं प्रोक्षयते पश्चात् अन्नव्यञ्जनपूर्वकम्
निक्षिप्य प्रोक्षयेदन्नं पितृमन्त्रं समुच्चरन् ॥ ४५ ॥
व्यञ्जनैस्सहितोपेतं कुक्कुटाण्डप्रमाणतः
—– अन्नमादाय प्रादक्षिण्य क्रमेण वा ॥ ४६ ॥
पिण्डोपरि प्रदातव्यम् अङ्गुष्ठाग्रे विनिक्षिपेत्
सव्योपवीतिनं पश्चात् इष्टं भुञ्जीत यो नरः ॥ ४७ ॥
पुनर्भुक्तं न कुर्वीत अमादिवसमाचरेत्
ब्राह्मणानां प्रकुर्वीत अन्येषां वर्जयेत्ततः ॥ ४८ ॥
कारवल्ली त्रयञ्चैव कदलीफलपर्णकम्
अपक्षफलदण्डञ्च प्रसूनं राजमाषकम् ॥ ४९ ॥
अलर्कञ्चैव निष्पावं रत्नाभं बृहतीलता
वज्रवल्ली कालशाकं दण्डशाकं – यमा ॥ ५० ॥
माषं मुद्गं महावल्ली नारङ्गादय एव च
शृङ्गिबेरं महाशाकं बालकन्दं सुतीक्षणी ॥ ५१ ॥
धौतकीवनवैदर्भी आम्रमामलकन्तथा
नालिकेरं कर्करीञ्च उर्वारुकफलन्तथा ॥ ५२ ॥
पितृश्रेष्ठमिति प्रोक्तं पितॄणामक्षयं भवेत्
अभावे मुद्गपयसा दधिसर्पिश्च तण्डुलम् ॥ ५३ ॥
तस्याभावे तण्डुलं वा दापयेत् ब्राह्मणाय च
अशक्तविषये चैव तद्दिने स्नानकर्मणि ॥ ५४ ॥
नित्यकर्मसमाराद्ध्य अग्निमादाय बुद्धिमान्
वनं गत्वा पितृश्रेष्ठं शाकमूलसमाश्रितम् ॥ ५५ ॥
शुष्कपर्णपलाशादि ग्राहयेत् —-
शतखामुपरिस्थाप्य अग्नीना वाहयेत् बुधः ॥ ५६ ॥
ध्यात्वा पितॄन्समभ्यर्च्य अत्यन्तं दुःखितो भवेत्
पितॄणामक्षयां तृप्तिं वनश्राद्धं प्रकीर्तितम् ॥ ५७ ॥
नृपवैश्यौ पादजानां मातापितृमृते दिने
प्रातस्समयकालञ्च मद्ध्याह्ने नाडिका त्रयम् ॥ ५८ ॥
तिथिव्यापकमेवोक्तम् आमश्राद्धं विधीयते
मद्ध्याह्ने नाडिका त्रीणि हीनं पूर्वदिने चरेत् ॥ ५९ ॥
पितृश्रेष्ठं पदार्त्थञ्च शालितण्डुलमुत्तमम्
द्विजेभ्यः प्रददेत् उक्तं पश्चाद्भोजनमाचरेत् ॥ ६० ॥
स्थलशुद्धिं ततः कृत्वा रसान्सम्प्रोक्षयेत्ततः
पात्रे रसान्निवेश्याथ मनसाभावयेत्पितॄन् ॥ ६१ ॥
वन्दनं पुरतः कृत्वा श्राद्धकर्मविधीयते
आमश्राद्धमिति प्रोक्तं हिरण्यश्राद्धकं श्रुणु ॥ ६२ ॥
देशान्तरगते वापि राजबीडा च विड्वरे
यथा शक्तिहिरण्यञ्च दापयेत् ब्राह्मणाय च ॥ ६३ ॥
वन्दनं कारयेत्पश्चात् आत्मानं भोजयेन्नरः
चातुर्वर्णो द्विवर्णश्च हिरण्यश्राद्धमाचरेत् ॥ ६४ ॥
श्राद्धहीनश्च यो मर्त्यः अपुत्रो वा दरिद्रतः
एवं यः कुरुते मर्त्यः पितृलोकमवाप्नुयात् ॥ ६५ ॥
इति अमापूजाविधि पटल एकोनपञ्चाशत्तमः