मूर्तिहोमपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि मूर्तिहोमविधिक्रमम्
पूर्ववद्यागमद्ध्ये च वेदिकाञ्चतुरश्रकाम् ॥ १ ॥
तत्पूर्वे कुण्डमेवोक्तं स्थण्डिलं वा प्रकल्पयेत्
धान्यपुञ्जैरलङ्कृत्य पद्ममष्टदलं लिखेत् ॥ २ ॥
शिवकुम्भन्न्यसेन्मद्ध्ये वर्द्धनीं वामपार्श्वके
वज्रादिदिशिकुम्भांश्च स्थापयेत्पूजयेत्क्रमात् ॥ ३ ॥
अघोरास्त्रं समभ्यर्च्य रथाङ्गांश्च दशायुधान्
आवाह्य गन्धपुष्पैश्च नैवेद्यन्धूपदीपकम् ॥ ४ ॥
अग्निं पूर्ववदाराध्य अघोरास्त्रं समर्चयेत्
आज्येन होमयेत्पश्चात्पलाशाद्यैर्हुनेत्ततः ॥ ५ ॥
क्षीरेण सहितञ्चैव तथैव तिलहोमकम्
दूर्वायुक्तं हुनेच्चैव पयसा मिश्रितं हुनेत् ॥ ६ ॥
मधुयुक्तं घृतं क्षीरमिश्रितं होमयेत् चरुम्
सहस्रादिशतान्तञ्च यथा शक्त्याहुनेत्ततः ॥ ७ ॥
दशांशं होम्मयेच्चैव पूर्णाहुतिं समाचरेत्
घटे संयोजयेत्पश्चात् अग्निमुद्वासयेत्ततः ॥ ८ ॥
प्रधानघटमादाय अम्भसा प्रोक्षयेदिति
सर्वशान्तिकरं पुण्यं सर्वाभीष्टफलप्रदम् ॥ ९ ॥
सर्वव्याधिप्रशमनं सर्वदोषनिवारणम् ॥ १० ॥
इति मूर्तिहोमपटल अष्टचत्वारिंशत्तमः