संहिताहोमपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि संहिताहोममेव तु
यागशालां प्रकल्प्याथ वेदिकां पूर्ववच्चरेत् ॥ १ ॥
तत्पूर्वे कुण्डमुच्यते अथवा स्थण्डिलेऽपि वा
——————- कारयेद्देशिकोत्तमः ॥ २ ॥
घटमेकन्न्यसेच्चैव तन्तुवेष्टमनुत्तमम्
हेमपङ्कजरत्नञ्च नालिकेराम्रपल्लवैः ॥ ३ ॥
अलङ्कृत्यविशेषेण पञ्चब्रह्मषडङ्गकैः
आवाह्य पूजयेत्पश्चात् नैवेद्यन्धूपदीपकम् ॥ ४ ॥
पूर्वोक्तविधिना चैव अग्निकार्यं समाचरेत्
सर्पिषा चैव पालाशं परं हुत्वा विशेषतः ॥ ५ ॥
पञ्चब्रह्मषडङ्गैश्च प्रत्येकं शतसङ्ख्यया
पुर्णान्तं होमयेत्पश्चात्प्रायश्चित्तं चरेत् गुरुः ॥ ६ ॥
होमद्रव्याणि सर्वाणि पूर्ववद्विधिना हुनेत्
पराङ्मुखार्घ्यमन्ते च घटे संयोजयेत्ततः ॥ ७ ॥
दिव्यमुद्रां सुसंयोज्य अम्भसा प्रोक्षणं भवेत्
एवं यः कुरुते मर्त्यस्सर्वदोषनिवारणम् ॥ ८ ॥
इति संहिताहोमपटलस्सप्तचत्वारिंशत्तमः