०४६ दिशाहोमपटलः

दिशाहोमपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि दिशाहोमन्ततश्शृणु
प्रथमावरणञ्चैव पूर्वादीश्च चतुर्दिशः ॥ १ ॥

षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा
मद्ध्ये वेदिं प्रकल्प्याथ तत्पूर्वे कुण्डमुच्यते ॥ २ ॥

अभावे द्रव्यहीने वा पूर्वे चैव विशेषतः
यागशालां प्रकल्प्याथ मद्ध्ये वेदिं प्रकल्पयेत् ॥ ३ ॥

वेदिकायुगसङ्ख्या च कुण्डं वै युगसङ्ख्यया
षोडशस्तम्भसंयुक्तं द्वादशस्तम्भमेव वा ॥ ४ ॥

वेदिकामद्ध्यमे चैव दशकुम्भं न्यसेत्ततः
पृथक्पृथक् समापाद्य सर्वोपकरणानि तु ॥ ५ ॥

पूर्वे तु यागशालायां घटे सम्पूजयेच्छिवम्
शिवास्त्रं पूर्ववत्पूज्य वज्रादीन् स्वस्वदिग्यजेत् ॥ ६ ॥

गन्धपुष्पैरलङ्कृत्य सूत्रादिहोमपल्लवैः

सापिधानादिकं कुर्यात् नैवेद्यं धूपदीपकैः ॥ ७ ॥

पूर्ववद्वह्निकर्माथ चतुस्संस्कारपूर्वकम्
उक्तमन्त्रैर्हुनेच्चैव पालाशं गोघृतन्तथा ॥ ८ ॥

सहस्रं वा तदर्द्धं वा अष्टोत्तरशतन्तु वा
पालाशं गोघृतञ्चैव प्रत्येकं होमयेत्ततः ॥ ९ ॥

हुनेत्पक्षसमिच्चैव पूर्णान्तं होमयेत्ततः
अघोरास्त्रं समभ्यर्च्य उक्तद्ध्यानं समाचरेत् ॥ १० ॥

वज्रादीन्पूर्वमेवोक्तम् अष्टमूर्तीन्समर्चयेत्
अग्निकार्यं समाराद्ध्य सर्पिषाहोमयेत्ततः ॥ ११ ॥

उदुम्बरसमिच्चैव तस्यार्द्धं वा शतन्तु वा
तदर्द्धं वा हुनेच्चैव प्रायश्चित्तं समाचरेत् ॥ १२ ॥

अङ्गानान्तु दशांशञ्च होमयित्वा पृथक्पृथक्
उत्तरे यागवेद्यान्तु दशकुम्भान्न्यसेत्ततः ॥ १३ ॥

प्रत्यङ्गिरं समभ्यर्च्य संयजेत्
वज्रादित्रिशिखान्तञ्च अर्चयित्वा विशेषतः ॥ १४ ॥

गोघृतेन हुनेच्चैव न्यग्रोधसमिधाहुनेत्
गोधूमां मधुनामिश्रां पूर्ववद्धोमयेत्ततः ॥ १५ ॥

प्रायश्चित्तं हुनेच्चैव पूर्णान्तं योजयेत् घटे
पराङ्मुखार्घ्यं सर्वेषां दापयेद्देशिकोत्तमः ॥ १६ ॥

प्रधानघटमादाय प्रोक्षयेदस्त्रमन्त्रतः
दिशाहोममिति प्रोक्तं सर्वदोषनिवारणम् ॥ १७ ॥

इति दिशाहोमपटलष्षट्चत्वारिंशत्तमः