शान्तिहोमपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि शान्तिहोमविधिक्रमम्
वेदिकां पूर्ववत्कृत्वा षडङ्गुलसमुन्नतम् ॥ १ ॥
दर्पणोदरमद्ध्यस्थं तत्पूर्वं कुण्डमुच्यते
अथवास्थण्डिलं वापि धान्यपुञ्जैरलङ्कृतम् ॥ २ ॥
घटमेकन्न्यसेन्मद्ध्ये पटालङ्कृतपूर्ववत्
पूर्वादिषु चाष्टदिक्षु नैर्ऋतेशानकोणयोः ॥ ३ ॥
दशकुम्भं न्यसेच्चैव तन्तुना वेष्टितन्तथा
मद्ध्ये पाशुपदास्त्रञ्च पूजयित्वा विशेषतः ॥ ४ ॥
वज्रादिपरितः कृत्वा पूजयित्वा विशेषतः
नैवेद्यन्धूपदीपञ्च जपान्तं पूजयेत्ततः ॥ ५ ॥
पालाशं वटमश्वत्थं बिल्वं खादिरमेव च
औदुम्बरमपामार्गं शमीशाखश्च सर्पिषा ॥ ६ ॥
शतार्द्धं गोपुरे चैव एकाहुतिं पृथक्पृथक्
गोघृतेन सहस्रञ्च आहुतिं परिकल्पयेत् ॥ ७ ॥
प्रत्येकं शतसङ्ख्या च नवधासमिधन्तथा
क्षीरेणाप्लावनञ्चैव समिधं होमयेत्ततः ॥ ८ ॥
क्षीरेण मिश्रं सतिलं शतसङ्ख्यां हुनेत्ततः
देवदूर्वाङ्कुरं लक्षं हुत्वा च शतसङ्ख्यया ॥ ९ ॥
क्रमेण पृथक्पृथक् हुत्वा दोषशान्तिं गुरुश्चरेत्
उच्चार्यहोमयेच्चैव चरुं हुत्वा विशेषतः ॥ १० ॥
पयसाज्येन मिश्रञ्च बदरीकफलाकृतिम्
अम्लानकटकं हुत्वा कुम्भे संयोजयेत्ततः ॥ ११ ॥
विमुखार्घ्यं ततः पश्चात्पर्यग्निकरणं श्रुणु
श्वानगृद्ध्रा विभव्याघ्रौ ग्रामसूकरमेव च ॥ १२ ॥
चोरैश्च सूतकीञ्चैव दूरस्त्रीमृदमेव च
चण्डालकपिलो दण्डो चारणोपालिकस्तथा ॥ १३ ॥
धवतोकीर्तिलम्बश्च सुरान् — प्रवेशके
पर्यग्निकरणञ्चैव अन्येषां वर्जयेत्ततः ॥ १४ ॥
अन्यकर्मणि सर्वत्र अम्भसा प्रोक्षणं भवेत्
गव्येन प्रोक्षयेत्पश्चात्पर्यग्निकरणं विना ॥ १५ ॥
पर्यग्निकरणं वक्ष्ये याज्ञिकं वृक्षसम्भवम्
पालाशपर्णशाखाञ्च आबन्ध्य घृतसेचनम् ॥ १६ ॥
वस्त्रमाच्छादनं कृत्वा पापदेवं समर्चयेत्
पञ्चवक्त्रञ्चतुर्बाहुं दशश्रोत्रं सुनासिकम् ॥ १७ ॥
कृष्णवर्णं महाभीमं रक्तदृष्टिभयं करम्
दृ◌ाकरालवदनं भ्रुकुटीमुखभीषणम् ॥ १८ ॥
महापापकरूपन्तु द्ध्यायेन्मन्त्रैश्च पूजयेत्
कुण्डाग्निज्वलनं शीर्षे स्पर्शाहुतिं समाचरेत् ॥ १९ ॥
पञ्चब्रह्मषडङ्गैश्च विमुखार्घ्यं समाचरेत्
परिचारकमाहूय गन्धवस्त्रैरलङ्कृतम् ॥ २० ॥
पाददेशात्समादाय यत्रस्नानं समाचरेत्
तावत्संशोधयेत्पश्चात् ऐशान्ये विसृजेच्छुचिः ॥ २१ ॥
गव्येन प्रोक्षयेत्पश्चात् शान्तिहोमं समाचरेत्
एवं कृत्वा विशेषेण सर्वदोषनिवारणम् ॥ २२ ॥
इति शान्तिहोमपटलः पञ्चचत्वारिंशत्तमः