महाशान्तिविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि महाशान्तिविधिक्रमम्
भूकम्पे जीवदाहे च रजनी तपनन्दृशेत् ॥ १ ॥
उपसूर्यं दृशेच्चैव उपसोमनिशाकरे
अमायाञ्चन्द्रबिम्बञ्च धूमकेतुप्रदर्शके ॥ २ ॥
देवतारोदनञ्चैव अदृश्यन्देवमन्दिरम्
विवर्णन्देवतानाञ्च रक्तवृष्टिर्भवेद्यदि ॥ ३ ॥
क्षीरवृष्टिरनावृष्टिश्चतुष्पादमृतेषु च
पात्रपादादिकं हीनं मेषेश्वानं प्रजायते ॥ ४ ॥
गोगर्भे महिषीजातं गजगर्भे खरस्तथा
जातिभेदं दृशेच्चैव नरगर्भे मृगाकृतिम् ॥ ५ ॥
भूताकृतीदमेवोक्तम् अफलं सुतरुः
जातिभेदफलन्दृ◌ा ग्रामदैवतपीडने ॥ ६ ॥
उल्कापाते विशेषेण अपशब्दश्रुतेरपि
—- शपदने मन्दिरे तीर्त्थशोषिते ॥ ७ ॥
ईतिबाधापिषेध्यां चोरैर्वादेवमन्दिरे
अन्तः प्रविश्यकाले तु म्लेच्छान्तः प्रविशेद्यदि ॥ ८ ॥
विद्यवृक्षहतञ्चैव कृमिकूटञ्च कुक्कुटम्
विवर्णभेदिते काले विवर्णेनाम्भसापि वा ॥ ९ ॥
एवमादिषु कालेषु महाशान्तिं प्रकल्पयेत्
पूर्ववद्यागशालाञ्च षोडशस्तम्भमण्टपम् ॥ १० ॥
कारयेद्विधिवच्चैव अथवा स्नानमण्टपे
देवस्य सन्निधौ वापि मद्ध्ये कुण्डं प्रकल्पयेत् ॥ ११ ॥
त्रिमेखलं युगाश्रञ्च सम्यक्कुण्डं प्रकल्पयेत्
कुण्डसंस्कारपूर्वन्तु अग्निसंस्कारमेव वा ॥ १२ ॥
स्रुक्स्रुवं संस्कृतिं चैव सर्पिस्संस्कारमेव वा
आवृतान्तं हुनेच्चैव अग्निं प्रार्त्थ्य चरेत् हृदि ॥ १३ ॥
अघोरास्त्रमघोरेण न्यसेत्पाशुपतन्तु वा
शिवास्त्रं वा यजेत्तेषु एकमभ्यर्च्य बुद्धिमान् ॥ १४ ॥
अश्वत्थञ्चैव पालाशं शमीखादिरबिल्वकम्
औदुम्बरवटाकञ्च अपामार्गं गलूचिका ॥ १५ ॥
दूर्वां पृथक्पृथक्चैव अष्टोत्तरशतं भवेत्
साहस्रसङ्ख्यया चैव क्षीरेणैव परिप्लुतम् ॥ १६ ॥
होमयेद्विधिवत्पश्चात् आज्येनैव सहस्रकम्
होमयेत्तु विशेषेण तिलमादाय पात्रके ॥ १७ ॥
क्षीरं घृतं मधुयुतं तिलमिश्रं हुनेत्ततः
सहस्रसङ्ख्याहोमैश्च दूर्वामादाय तत्परम् ॥ १८ ॥
क्षीरेण सेचनं कृत्वा सहस्रं सङ्ख्यया क्रमात्
चरुमाज्येन मिश्रञ्च सर्वञ्चैव हुनेत्ततः ॥ १९ ॥
प्रथमादिनमारभ्य सप्तविंशद्दिनान्तकम्
नित्यहोमं विशेषेण दिनं प्रतिदिनं प्रति ॥ २० ॥
अजस्राग्निं हुनेच्चैव अथोवाच दिनं प्रति
कुण्डसंस्कारमेवोक्तं पूर्वोक्तविधिनाहुनेत् ॥ २१ ॥
द्रव्याभावे सहस्रार्द्धम् अष्टोत्तरशतन्तु वा
तस्यार्द्धं वा तदर्द्धं वा दिनं प्रतिहुनेत्ततः ॥ २२ ॥
पूर्वादि च चतुर्दिक्षु मद्ध्ये चैव विशेषतः
अष्टाविंशतितन्त्रञ्च कामिकादि जपेत्ततः ॥ २३ ॥
पञ्चब्रह्मजपेच्चैव ऋग्वेदादीन्जपेत्ततः
स्तोत्रपाठन्तु मद्ध्ये च गीतनृत्तैस्समन्वितम् ॥ २४ ॥
बेरञ्चेदग्निदग्धं स्यात् उत्पातकभयेऽपि वा
एकाशीति तदर्द्धञ्च तदर्द्धं वाभिषेचयेत् ॥ २५ ॥
महाहविर्निवेद्याथ उपचारान्समर्चयेत्
एवं यः कुरुते मर्त्यः सपुण्यां गतिमाप्नुयात् ॥ २६ ॥
इति महाशान्तिपटलश्चतुश्चत्वारिंशत्तमः