पादुकाराधनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि पादुकाराधनं श्रुणु
सर्वानुग्रहकारणं जगत्सृष्ट्यर्त्थकारणम् ॥ १ ॥
चतुरङ्गुलमानीय्य षडङ्गुलप्रविस्तरम्
वृत्ताकारं प्रकुर्वीत अग्रे तु कर्णिकाश्रितम् ॥ २ ॥
अधच्छदनषोढाश्च दलसङ्ख्या क्रमेण तु
उपपीठमधो भागे सुतीक्ष्णं कारयेत्ततः ॥ ३ ॥
कर्णिका मद्ध्यमे चैव पादुका द्वयमुच्यते
पूर्ववद्यागशालाञ्च षोडशस्तम्भसंयुतम् ॥ ४ ॥
वेदिकां पूर्ववत्कल्प्य दशकुम्भं न्यसेत्ततः
परिवारघटान्पूज्य तोरणान्मङ्गलान्यजेत् ॥ ५ ॥
नवकुण्डं प्रकल्प्याथ पञ्चकुण्डमथापि वा
अथवा एककुण्डं वा पूर्वोक्तविधिनाचरेत् ॥ ६ ॥
कुम्भमूले वृषं पूज्य कुम्भे चैव सदाशिवम्
पञ्चावरणमार्गेण पूजयित्वा विशेषतः ॥ ७ ॥
उक्तमन्त्रैर्हुनेदग्निं जलाधिवासनन्तथा
नयनोन्मीलनञ्चैव मद्ध्ये पादुकयोश्चरेत् ॥ ८ ॥
रत्नन्यासं विना चैव शेषं पूर्ववदाचरेत्
न्यासकर्मसमाराद्ध्य घटस्नानं समाचरेत् ॥ ९ ॥
महाहविर्निवेद्याथ ब्राह्मणान्पूजयेत्ततः
दक्षिणान्दापयेत्पश्चात् नित्योत्सवमतः परम् ॥ १० ॥
दर्भकूर्चं समादाय पादुकोपरिविन्यसेत्
शिवमावाहयेत्पश्चात् गन्धपुष्पैस्समर्चयेत् ॥ ११ ॥
शिबिकां रोपयेत्तत्र तूर्यवाद्यैस्समन्वितम्
छत्रचामरपिञ्छैश्च दीपेश्च बहुभिर्युतम् ॥ १२ ॥
प्रदक्षिणक्रमेणैव भोगशक्त्यालयङ्गतः
मञ्चमारोपयेद्देवं नैवेद्यं धूपदीपकम् ॥ १३ ॥
तन्मध्ये तु महाशय्यां श्रीफलैश्च विराजितम्
क्षौमवस्त्रेण संवेष्ट्य सम्पुटाकारनिर्मितम् ॥ १४ ॥
कर्णिकारफलञ्चैव कार्पासञ्चैव पूरयेत्
चतुर्हस्तसमं दीर्घं द्विहस्तञ्चैव विस्तरम् ॥ १५ ॥
षडङ्गुलघनं प्रोक्तं चित्रवस्त्रैरलङ्कृतम्
करमेकेन दीर्घं स्यात् षडङ्गुलसुविस्तरम् ॥ १६ ॥
चित्रवस्त्रैरलङ्कृत्य तन्तुनावेष्टयेत्किल
अन्नकार्पासमयिना पार्श्वयोश्च विराजितम् ॥ १७ ॥
मल्लिका शोकपुन्नागजाती च मृगपुष्पकैः
तस्योर्ध्वे पुष्पराशिञ्च तस्योर्ध्वे मृदुवस्त्रकम् ॥ १८ ॥
षोडशान्युपयाद्दर्भान् कूर्चरूपं भवेत्ततः
मद्ध्ये स्थिरासनं पूज्य नेत्रमुद्रां प्रदर्शयेत् ॥ १९ ॥
पादुकापुष्पमादाय कूर्चेप्यावाहनं गुरुः
स्थापनं सन्निधानञ्च सन्निरोधावकुण्ठनम् ॥ २० ॥
धेनुमुद्रां प्रदृश्याथ स्वागतं ज्ञापयेत्ततः
गौरीमावाहयेत्पश्चात् ———– ॥ २१ ॥
स्थापनादीनि कर्तव्यं नैवेद्यं धूपदीपकम्
शयनं मनसाभाव्य दिग्बन्धनावकुण्ठनम् ॥ २२ ॥
दशायुधं समभ्यर्च्य भैरवाष्टकमर्चयेत्
तृतीय्यावरणे चैव सप्तमातृगणार्चयेत् ॥ २३ ॥
इन्द्रादीनर्चयेच्चैव दशदीक्षुशिवाज्ञया
विघ्नं प्रशान्तयेत् भागं श्रावयेद्वामपार्श्वके ॥ २४ ॥
क्रमुकं कदली चूर्ण छेदिकाधारिका तथा
सुगन्धानि सुपुष्पादि अम्लानदीपपूर्वके ॥ २५ ॥
निधायजलपात्रञ्च परितश्छदनन्तथा
कवाटं बन्धयेच्चैव तत् बाह्ये सव्यपार्श्वके ॥ २६ ॥
नन्दिकुम्भोदरौ पूज्य दक्षिणे भैरवं यजेत्
गोपुरद्वारमाबन्ध्य स्वदेशे च निगद्यते ॥ २७ ॥
प्रातस्समयतत्पूर्वे घटिकापञ्चकोत्थितः
वाचास्तोत्रं मनोद्ध्यानं सम्प्राप्यावाह्य देशिकः ॥ २८ ॥
शौचाचम्म्य प्रशान्तश्च स्नानानुष्ठानपूर्वकम्
धौतवस्त्रोत्तरीय्यञ्च शिवधामप्रवेशयेत् ॥ २९ ॥
निश्चित्य नाडिका त्रीणि भोगशक्त्यालयङ्गतः
अष्टपुष्पं समभ्यर्च्य दन्तशोधनपूर्वकम् ॥ ३० ॥
भावनास्नानकर्मञ्च नैवेद्यं दापयेत्ततः
धूपदीपन्ततः कृत्वा पाद्यमं चमनार्घ्यकम् ॥ ३१ ॥
दापयेच्छिवमुत्थाप्य पादुके योजयेत्ततः
शिबिकायां समारोप्य प्रादक्षिण्य क्रमेण च ॥ ३२ ॥
गर्भगेहे समारोप्य मूललिङ्गे सुयोजयेत्
उदयात्पूर्वं निश्चित्य मुहूर्तं न्यूनमुत्तमम् ॥ ३३ ॥
उषः काले प्रकुर्वीत मूललिङ्गाभिषेचनम्
नैवेद्यमुदयात्पूर्वं पूजान्ते भास्करोदयम् ॥ ३४ ॥
एवं निश्चित्य पूजाञ्च उषः काले प्रशस्यते
व्रतकाले विशेषेण जनानामुदयात्परम् ॥ ३५ ॥
भोगशक्त्यालये रात्रौ पादुकाराधनं पुरा
भ्रान्ते चोरैः प्रमादैर्वा म्लेच्छैर्वा परिमाहितैः ॥ ३६ ॥
ग्राहयेत्पादुकां यत्र कथं शम्भोश्शिवार्चनम्
घटमादाय सूत्रेण वेष्टयेज्जलपूरितम् ॥ ३७ ॥
अलङ्कृत्य घटं स्थाप्य कूर्चादाकर्षयेच्छिवम्
घटे चावाहयेच्चैव योजयेन्मूलबेरकैः ॥ ३८ ॥
नित्यपूजां प्रकुर्वीत पूर्ववत्पादुकाञ्चरेत्
पादुकाराधने काले सर्वदोषो न विद्यते ॥ ३९ ॥
कथं शम्भोर्विशेषेण विड्वरे विद्यतेऽपि वा
मातापितृविना चान्ये अनुजोज्ञातिबान्धवाः ॥ ४० ॥
काठिन्येऽपि च निश्चेष्टाम् अमृतं तत्क्षणे गुरुः
स्नानानुष्ठानपूर्वं यः पादुकाराधनञ्चरेत् ॥ ४१ ॥
तित्यपूजां प्रकुर्वीत अन्ते आशौचमिष्यते
प्रतिष्ठोत्सवकाले तु तदेवकथमीश्वर ॥ ४२ ॥
पूर्वे चाङ्कुरतः पश्चात् वास्तुर्यजनमद्ध्यमे
तत्क्षणे स्नानमाचम्म्य घटेऽप्यावाहयेच्छिवम् ॥ ४३ ॥
रक्षासूत्रं प्रकुर्वीत सर्वदोषो न विद्यते
आशौचं यागपूजान्ते तन्मद्ध्ये तु न दोषभाक् ॥ ४४ ॥
दुर्दिनं तारदुर्योगाननवेक्ष्य षडानन
पादुका पूर्ववत्कृत्वा प्रतिष्ठाङ्कारयेत्ततः ॥ ४५ ॥
प्रमादे पतने काले तन्निवृत्य च तत्क्षणैः
मूलबेरे विशेषेण सम्प्रोक्षणं समाचरेत् ॥ ४६ ॥
पादुकाराधनं पश्चात्पूर्ववत्परिकल्पयेत्
प्रमादैः पादुकाभिन्ने महाशान्तिं प्रकल्पयेत् ॥ ४७ ॥
सम्प्रोक्षणं ततः पश्चात्पूर्ववत्परिकल्पयेत्
प्रादक्षिण्ये च तन्मद्ध्ये शूद्रादिस्पर्शनेऽपि वा ॥ ४८ ॥
अघोरास्त्रेण मन्त्रेण अष्टोत्तरशतं हुनेत्
भोगशक्त्यालये प्राप्ते चोरैर्वा स्पर्शनेऽपि वा ॥ ४९ ॥
सवस्त्रक्षालनञ्चैव सम्प्रोक्षणं समाचरेत्
गर्भगेहे च सम्प्राप्ते चण्डालम्लेच्छजातिभिः ॥ ५० ॥
सवस्त्रशोधनञ्चैव हित्वा भाण्डादिगड्डुकम्
प्रथमावरणे चैव पचनालयमुच्यते ॥ ५१ ॥
तद्भाण्डं वर्जयेच्चैव सम्प्रोक्षणं समाचरेत्
प्राकारस्यान्तरे प्राप्ते पूर्वे च प्रोक्षणं चरेत् ॥ ५२ ॥
अष्टोत्तरशतं वापि एकोनञ्च शतार्द्धकम्
पञ्चविंशतिभं वास्तु पठनं मूलबेरके ॥ ५३ ॥
प्रथमावरणे द्वारे शान्तिहोमं समाचरेत्
द्वितीय्यावरणे प्राप्ते शान्तिकुम्भेन प्रोक्षयेत् ॥ ५४ ॥
तृतीय्यावरणे प्राप्ते गव्येन प्रोक्षणं भवेत्
यथा क्षत्रियपत्नी च चण्डालेन सुशायिनी ॥ ५५ ॥
तथासंयोगमात्रेण तत्प्रजाक्षौरको भवेत्
अण्डजः पादजः स्त्रीषु सम्भोगमिति कत्थ्यते ॥ ५६ ॥
तदात्मजस्सुराग्राही नवृत्तिश्च —- भितः
वैश्यस्त्री च सुराग्राही संयोगात् मुच्यते ॥ ५७ ॥
रजकोनाम इत्येते तद्भेदं रजको भवेत्
बाह्ये दशपदान्ते च सुराग्राही शुचिर्भवेत् ॥ ५८ ॥
अहमर्त्यस्सप्तपदी तदेवरजकींशुकः
प्रथमावरणे प्राप्ते अहं कीर्त्य कारवः ॥ ५९ ॥
शान्तिहोमं प्रकुर्वीत केवलं प्रोक्षणञ्चरेत्
पाकशालां प्रविश्याथ भाण्डन्त्यक्त्वा शुचिर्भवेत् ॥ ६० ॥
मण्टपान्तः प्रवेश्याथ गण्डूकादिपरित्यजेत्
वस्त्रशोधनमेवोक्तं शान्तिहोमं समाचरेत् ॥ ६१ ॥
स्नपनं पञ्चविंशत्या कारयेद्देशिकोत्तमः
प्रथमावरणे प्राप्ते सुराग्राही विमोहितः ॥ ६२ ॥
मण्टपान्तः प्रवेश्याथ सम्प्रोक्षणं समाचरेत्
प्राकारमद्ध्यमे वापि शान्तिहोमं समाचरेत् ॥ ६३ ॥
पचनालयं प्रवेश्याथ भाण्डन्त्यक्त्वाशुचिस्तथा
द्वितीय्यावरणे चैव गव्येन प्रोक्षणं भवेत् ॥ ६४ ॥
यथापुष्पवती नारी सूतकीशवधारिणी
प्रवेश्य मन्दिरं गत्वा सुराग्राहि समं भवेत् ॥ ६५ ॥
प्रोक्षणं शान्तिहोमञ्च गव्यं पूर्ववदाचरेत्
रासभं कुक्कुटं गृध्रं श्वानं व्याघ्रं प्रवेशयेत् ॥ ६६ ॥
तदान्तर्मण्टपं गत्वा भाण्डं त्यक्त्वा शुचिर्भवेत्
शान्तिहोमं ततः कृत्वा स्नपनं पञ्चविंशतिम् ॥ ६७ ॥
अभिषेकन्ततः कृत्वा पूर्ववत्परिकल्पयेत्
प्रथमावरणे गत्वा बाह्य देशगतो भवेत् ॥ ६८ ॥
केवलं शान्तिहोमञ्च तेन सञ्चारदेशिकम्
प्रोक्षयेदम्भसा चैव पश्चात्पूजां समाचरेत् ॥ ६९ ॥
पचनालयमद्ध्ये तु प्रविश्य यदि यत्स्थले
भाण्डन्त्यक्त्वा शुचिर्भूत्वा शान्तितो येन प्रोक्षयेत् ॥ ७० ॥
आलये रुधिरं दृ◌ा शान्तिहोमं समाचरेत्
मोहेन मलमूत्रञ्च कुरुते मण्टपान्तरे ॥ ७१ ॥
सम्प्रोक्षणं ततः कृत्वा प्राकारे च ततश्शृणु
शान्तिहोमं ततः कृत्वा पूजयित्वा यथा विधि ॥ ७२ ॥
नरैर्मृतं प्रकुर्वीत सम्प्रोक्षणं समाचरेत्
द्वितीय्यावरणे चैव महाशान्तिं प्रकल्पयेत् ॥ ७३ ॥
तृतीय्यावरणे चैव शान्तिहोमं समाचरेत्
गोवधीग्रामचण्डालो मार्जनो यवनस्तथा ॥ ७४ ॥
कपिलोकीर्तिलम्बश्च शिवालयं नलङ्घयेत्
मोहेन लङ्घनं कृत्वा सम्प्रोक्षणं समाचरेत् ॥ ७५ ॥
तत् भाण्डं वर्जयेच्चैव वस्त्रशोधनमारभेत्
ब्रह्मक्षत्रियवैश्याश्च पादजश्च चतुर्विधाः ॥ ७६ ॥
ब्राह्मणानां दशाहं स्यात्क्षत्राणां द्वादशाहकम्
वैश्यानां पक्षसङ्ख्या च शूद्रो मासेन शुद्ध्यति ॥ ७७ ॥
शिवदीक्षायुतो विप्रः क्षत्रियो वैश्यशूद्रकः
आदिशैवकुलो विप्रः सद्यो निर्वाणशोधितः ॥ ७८ ॥
मातापितृमृते काले आशौचन्नसमाचरेत्
शिवद्ध्यानेन रहितः किञ्चित् ज्ञानपरायणः ॥ ७९ ॥
त्रिदिनम् आचरेत्पश्चात् विशेषं श्रुणु सुव्रत
आत्मार्त्थञ्च परार्त्थञ्च ज्ञानवादाधिकारिणाम् ॥ ८० ॥
एकाहं शुद्धयेच्चैव क्षत्रियाणां ततश्शृणु
निर्वाणदीक्षिताश्चैव दिनैकादशतश्शुचिः ॥ ८१ ॥
वैश्यानां समयी चैव आशौचन्तु चतुर्दश
दीक्षा द्वयं प्रकुर्वीत आशौचन्तु त्रयोदश ॥ ८२ ॥
पादजानां दीक्षितानां समयी पञ्चविंशतिम्
विशेषशिवपूजाश्च देवकार्यपरायणम् ॥ ८३ ॥
कालानुष्ठानसहितं षोडशाहं प्रकीर्तितम्
केवलं शिवपूजाञ्च विंशद्दिनं प्रकीर्तितम् ॥ ८४ ॥
निर्वाणदीक्षितानाञ्च पक्षसङ्ख्या दिनं भवेत्
योगिनां ज्ञानिनाञ्चैव आशौचन्न समाचरेत् ॥ ८५ ॥
सद्यश्शौचन्तु विप्राणां त्र्यहञ्च परिकल्पयेत्
भूपतिर्वैश्यजातौ च रुद्रसङ्ख्या त्रयोदश ॥ ८६ ॥
आशौचं कल्पयेच्चैव पादजानां विशेषतः
पञ्चविंशतिविंशत्या षोडशं पक्षसङ्ख्यया ॥ ८७ ॥
सद्यश्शौचमिति प्रोक्तं कथं शम्भो श्रुणुष्वथ
शैवदीक्षा महत्वेन कल्पाशौचं विधीय्यते ॥ ८८ ॥
कल्पाशौचं महत्वेन पितृश्राद्धं भवेच्चरेत्
आत्मनश्शुचिरे तानि स्वगृहश्शुचिरुच्यते ॥ ८९ ॥
अग्न्याधानं प्रकुर्वीत आत्मकार्यं विशिष्यते
परकार्यं विना प्रोक्तं दीक्षादिप्रोक्षणादिषु ॥ ९० ॥
न कारयेद्यथा तावत्परार्त्थन्तु न दर्शयेत्
जाताशौचमयन्तावत् परार्त्थन्तु न लङ्घयेत् ॥ ९१ ॥
मोहेन दर्शयित्वा तु अचिरात्कुलनाशनम्
तस्मात्सर्वप्रयत्नेन प्रविशेन्मण्टपान्तरे ॥ ९२ ॥
सम्प्रोक्षणं प्रकुर्वीत प्रथमावरणे श्रुणु
शान्तिहोमं प्रकुर्वीत अम्भसा प्रोक्षणञ्चरेत् ॥ ९३ ॥
प्रथमावरणद्वारं नलङ्घेत्सूतकी भवेत्
विशेषदीक्षिताश्चैव शिवज्ञानपरायणाः ॥ ९४ ॥
शिवकैङ्कर्यधीरत्वं प्रतिविद्यादनुष्ठितम्
आजीवितान्तं तेमीषां परार्त्थे सेवितं यदि ॥ ९५ ॥
शिवलिङ्गं दृशेत्पश्चात् भोजनं जीवितान्तकम्
एवं यः कुरुते मर्त्यस्सद्यश्शौचं भवेदपि ॥ ९६ ॥
मातापितृमृते काले आशौचं सम्भवेद्यदि
कथं व्रतं प्रकुर्वीत द्वितीय्यावरणे यथा ॥ ९७ ॥
प्रादक्षिण्य क्रमेणैव भद्रपीठं प्रदर्शयेत्
विमानन्दर्शयेच्चैव दीपच्छायां प्रदर्शयेत् ॥ ९८ ॥
गणिकाकर्णिकानाञ्च दशानां पक्षसङ्ख्यया
षोडशस्नानमात्रेण शुचिर्भवति षण्मुख ॥ ९९ ॥
चतुर्त्थावरणे चैव पञ्चमावरणेऽपि वा
आशौचन्नाचरेद्विद्वान् विशेषं श्रुणु षण्मुख १००
तृतीय्यावरणे बाह्ये दण्डान्तं भानुसङ्ख्यया
अन्ते नरमृतञ्चैव आशौचन्नसमाचरेत् १०१
चतुर्त्थावरणे चैव नाराचञ्च चतुर्दिशि
आमूलाग्रसमासक्तान् तदन्ते वीधिमुच्यते १०२
वीध्यन्तरे समासक्तान् केवलं वेश्मवर्जितम्
तदन्ते वीधिमद्ध्ये च मृते चैव मनुष्यके १०३
परार्त्थं पूजनं पश्चात् आशौचं न समाचरेत्
पादुकाराधनं कृत्वा भोगभाग्याभिवृद्धिदम् १०४
पादुकाराधनं हीनं गजतामसुखं भवेत्
एवं यः कुरुते मर्त्यः मुक्तकः करकल्पवत् १०५
इति पादुकाराधनपटलस्त्रिचत्वारिंशत्तमः