०४२ अष्टबन्धनपटलः

अष्टबन्धनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अष्टबन्धविधिक्रमम्
पूर्वे तु ग्रामनाशं स्यात् आग्नेय्यामग्निदग्धकम् ॥ १ ॥

याम्ये मृत्युभयं विद्यात् नैर्ऋते रोगसम्भवम्
वारुणे वृष्टिहीनं स्यात् वायौ दुर्भयमाप्नुयात् ॥ २ ॥

उत्तरे द्रव्यहीनं स्यात् दुर्भिक्षं शम्भुकाष्ठके
शिशुनाशं दिने योगाल्लग्नभत्वाज्जयं भवेत् ॥ ३ ॥

कृमिसङ्कुलमेवोक्तं यजमानो विनश्यति
अष्टबन्धनहीने तु आचार्यस्तत्क्षणे घटे ॥ ४ ॥

शिवमावाहयेत्पश्चात्तद्दोषं श्रुणु षण्मुख
परचक्रभये प्राप्ते बिम्बमुत् घटितेऽपि च ॥ ५ ॥

चोरैर्दुष्टैः प्रमादेन अशनी पतनेऽपि वा
एवमादिषु कालेषु सद्य आवाहयेत् घटे ॥ ६ ॥

दुर्दिनञ्चैव दुष्कालं दुऋक्षङ्कुतिथिर्भवेत्
मासेशून्ये प्रमादेन अनवीक्ष्य घटे यजेत् ॥ ७ ॥

ज्ञाती वा अनुजो वापि बान्धवेषु विशेषतः
क्षयकुष्ठमहारोगान् काठिन्ये तत्क्षणेऽपि वा ॥ ८ ॥

तद्दिने चैव निर्दोषं विशेषं श्रुणु वक्ष्यते
द्रव्याभावे विड्वरे वा परचक्रभयेन वा ॥ ९ ॥

एकवत्सरपर्यन्तं नद्दोषं परिकल्पयेत्
वत्सरादूर्ध्वकाले तु बहुकालगतोऽपि वा ॥ १० ॥

सर्वमासे तु कर्तव्यम् अष्टबन्धनमुत्तमम्
सर्ववारे प्रकर्तव्यं सर्वऋक्षे प्रकल्पयेत् ॥ ११ ॥

किञ्चिद्विशेषम् ऋक्षे च मृदान्धः पादजीवके
हित्वा च सर्वऋक्षे तु अष्टबन्धनमुत्तमम् ॥ १२ ॥

गुलाकायमखण्डश्च कालार्द्धप्रहरस्तथा
विहायप्रोक्षणे चैव उपरागौ विवर्जयेत् ॥ १३ ॥

अष्टबन्धनकाले तु अस्तम्ये च बृहस्पतिः
अत्कालं वर्जयेच्चैव अन्यकाले प्रकल्पयेत् ॥ १४ ॥

गुरुरस्तमने काले कारयेदष्टबन्धनम्
कथं शम्भोर्विशेषेण गुरुरस्तमने भवेत् ॥ १५ ॥

गुरुरस्तमने कल्प्य वक्ष्ये श्रुणु षडानन

देवाचार्यो गुरुस्तस्मात्सर्वकर्मविवर्जयेत् ॥ १६ ॥

भृगुरस्तमने काले दैत्यानां गुरुरित्यपि
तस्मात् हित्वा नृणां कर्म चौलाद्यन्ये च कर्मणि ॥ १७ ॥

वर्जयेद्विधिवत्पश्चात् शिवकर्मेन दोषभाक्
प्रतिष्ठाद्युत्सवे चैव अष्टबन्धनमेव च ॥ १८ ॥

भ्रुगुरस्तमने काले कारयेद्देशिकोत्तमः
शङ्कुस्थापनकाले तु कर्षणादि प्रकल्प्यते ॥ १९ ॥

नूतनग्रामविद्ये वा रथायन्त्रादिकेऽपि वा
शुक्रदोषं न्यसेच्चैव सर्वकर्मचरेत्तथा ॥ २० ॥

आलये सङ्कटे जीर्णे पूर्वे तु परिकल्पयेत्
मूललिङ्गं विशेषेण गर्भगेहस्थितश्चरेत् ॥ २१ ॥

———– अथवाचलमुत्तमम्
बालालयं प्रकल्प्याथ ऐशान्ये दक्षिणेऽपि वा ॥ २२ ॥

उत्तरे पूर्वदेशे तु ब्रह्मस्थाने प्रकल्पयेत्
गर्भगेहस्य विस्तारं तन्मानं परिकल्पयेत् ॥ २३ ॥

लिङ्गमाना यथाकल्प्य तन्मानं कल्पयेत् गुरुः
अथवा द्रव्यहीनो वा पूजांशे — माचरेत् ॥ २४ ॥

पूजांशं त्रिगुणी कृत्य एकभागं प्रकल्पयेत्
पीठं लिङ्गं प्रकल्प्याथ पूर्ववत्परिकल्पयेत् ॥ २५ ॥

मासमेकेऽपि कुम्भं स्यात् द्विमासं खड्गमुच्यते
त्रिमासं शूलमेवोक्तं षाण्मासं पटमुच्यते ॥ २६ ॥

वत्सरं दारुबिम्बञ्च द्विवर्षञ्च त्रिवर्षकम्
अन्तस्त्रिवर्षे बिम्बन्तु यजेत् बालालयेऽपि वा ॥ २७ ॥

शिथिलं स्त्रीमुखैर्वापि अथवाखण्डितेऽपि वा
महामारिज्वरं ग्रामे राजाराष्ट्रं विनश्यति ॥ २८ ॥

तद्दोषशमनार्त्थाय प्रहरशान्तिं प्रकल्पयेत्
त्रिपक्षं होमयेच्चैव पूर्ववत् बिम्बमुत्तमम् ॥ २९ ॥

पञ्चास्त्रं जपयेल्लक्षं पृथक्पृथक् विशेषतः
नित्यपूजां प्रकल्प्याथ नैमित्तिकं न कारयेत् ॥ ३० ॥

गणेश्वरादिगौरी वा सोमास्कन्देश्वरादि वा
तेषां जीर्णग्रहञ्चैव सर्वोपकरणानि वै ॥ ३१ ॥

पूर्ववद्यागशालाञ्च कुण्डमण्डलवेदिकाम्
तोरणान्मङ्गलांश्चैव परिवारघटेऽपि वा ॥ ३२ ॥

पूर्वोक्तविधिना चैव विशेषं श्रुणु षण्मुख
सोमास्कन्दादिबेरं वा केवलं स्नापयेत्ततः ॥ ३३ ॥

गन्धपुष्पैरलङ्कृत्य नैवेद्यं धूपदीपकम्
यात्राहोमं प्रकुर्वीत बिम्बमादाय देशिकः ॥ ३४ ॥

महामण्टपमद्ध्ये च अथवा अग्रमण्टपे
स्नापयेन्नित्यपूजाञ्च विना नैमित्तिकं गुरुः ॥ ३५ ॥

गणेश्वरादिगौरी वा मूलबेरे श्रुणुष्वथ
घटे चाकृष्यसम्पूज्य उक्तमन्त्रैर्हुनेत्ततः ॥ ३६ ॥

बेरमुत्थाप्य गत्वा च सुस्थाने शुचिदेशिकः
रत्नन्यासं प्रकुर्वीत स्थापयेद्देशिकोत्तमः ॥ ३७ ॥

तत् घटं स्थापयेत्पश्चात् नित्यपूजां समाचरेत्
दिनं प्रतिविशेषेण दशकुम्भं न्यसेत्ततः ॥ ३८ ॥

शान्तिहोमं प्रकल्प्याथ अस्त्रमन्त्रजपन्तथा
सहस्रं वा तदर्द्धं वा अष्टोत्तरशतन्तु वा ॥ ३९ ॥

प्रत्येकं जपमात्रेण विशेषैर्वाभिषेचनम्
एककालं द्विकालं वा त्रिकालं वा समाचरेत् ॥ ४० ॥

ब्राह्मणान्भोजयेत्तत्र दिनं प्रतिविशेषतः
आलयं कल्पयेत्पश्चात् पुनर्यागं समाचरेत् ॥ ४१ ॥

नवपञ्चककुण्डं वा पूर्वोक्तविधिना सह
यत्काले मन्दिरं कल्प्य तत्क्षणे तु प्रवेशकम् ॥ ४२ ॥

मासशून्यं पक्षशून्यं वारशून्यं च दुर्दिनम्
दुरुक्षमानपेक्ष्यश्च तत्क्षणे स्थापयेत् गुरुः ॥ ४३ ॥

जीर्णोद्धारे प्रकुर्वीत न दोषं पूर्ववच्चरेत्
कुग्रामे द्रव्यहीने वा अधमाधमपूजिते ॥ ४४ ॥

यागशालां प्रकल्प्याथ एककुण्डं समाचरेत्

दशकुम्भं न्यसेच्चैव सहस्राहुतिसर्पिषा ॥ ४५ ॥

उक्तद्रव्यैर्हुनेच्चैव पूर्वोक्तविधिनाचरेत्
घटस्नानं प्रकुर्वीत गणेशाद्यम्बिकादि च ॥ ४६ ॥

मूललिङ्गविशेषेण नवकुण्डं प्रकल्पयेत्
अथवा पञ्चकुण्डं वा एककुण्डमथापि वा ॥ ४७ ॥

सप्तविंशत् घटान्यस्य दशकुम्भञ्च मद्ध्यमे
तोरणान्मङ्गलांश्चैव स्रुक्स्रुवञ्च दशायुधम् ॥ ४८ ॥

पञ्चास्त्रञ्च चतुर्वेदं घोषयेत्पूर्ववद्धुनेत्
नवाहञ्चैव सप्ताहं पञ्चाहं वा त्रियावहम् ॥ ४९ ॥

सायं प्रातर्हुनेच्चैव त्रिसहस्रन्तु सर्पिषा
सायम्प्रातः पृथक् हुत्वा तदर्द्धं परिवारके ॥ ५० ॥

उक्तद्रव्यैर्हुनेच्चैव मूललिङ्गेऽभिषेचनम्
स्वयम्भुदैविकञ्चैव दिव्यमाऋषमानुषम् ॥ ५१ ॥

राक्षसङ्गाणवञ्चैव सप्तधा लिङ्गमुच्यते
पूजयेदुत्तमाच्चैव मद्ध्यमा वाधमाधमा ॥ ५२ ॥

जीर्णोद्धारं प्रकुर्वीत बालालयं प्रकल्पयेत्
मन्दिरं पूर्ववत्कल्प्य पश्चात्सम्प्रोक्षणञ्चरेत् ॥ ५३ ॥

पूर्वोक्तविधिना चैव यागशालां प्रकल्पयेत्
रन्ध्राश्च मुनिसङ्ख्या च भूतसङ्ख्येकमेव वा ॥ ५४ ॥

चतुष्षष्टिस्तम्भसङ्ख्या षट्त्रिंशत्स्तम्भमेव वा
षोडशस्तम्भमेवोक्तं यागमण्टपमुत्तमम् ॥ ५५ ॥

इन्द्रादीशानपर्यन्तं यथोक्तं कुण्डमालिखेत्
मङ्गलान्तोरणान्शस्त्रान्स्रुक्स्रुवान्कलशान्घटान् ॥ ५६ ॥

ससूत्रान्सापिधानांश्च सवस्त्रं हेमपङ्कजम्
नवरत्नं पञ्चरत्नम् एकरत्नमथापि वा ॥ ५७ ॥

सकूर्चान्पल्लवञ्चैव प्रसूनं पत्रमेव च
अपूपान्पायसान्पिष्टान् इक्षुचन्दनकुङ्कुमम् ॥ ५८ ॥

रोचनञ्चैव कस्तूरी यक्षकर्दममुच्यते
हिमाम्बुनाभितैलञ्च पूर्वोक्तविधिनाचरेत् ॥ ५९ ॥

साधकः कुम्भमादाय बालालयगृहेऽपि वा
निवेश्यपूजयेल्लिङ्गे भावनान्यासकर्मणि ॥ ६० ॥

यात्राहोमं प्रकुर्वीत पश्चादावाहनं चरेत्
यल्लिङ्गे मस्तके पुष्पं समादायकराञ्जलिम् ॥ ६१ ॥

द्वादशान्तं समुद्धृत्य प्रणवात्मसमार्गता
मूलाधारान्तमानीय्य प्रादक्षिण्य क्रमेण वा ॥ ६२ ॥

वेदिका मद्ध्यमे न्यस्य पूर्वोक्तविधिनाचरेत्
शयनारोपणञ्चैव जलाधिवासनन्तथा ॥ ६३ ॥

नयनोन्मीलनं चैव रत्नन्यासं विवर्जयेत्
शेषान्पूर्वोक्तविधिना प्रथमं ह्यङ्कुरार्पणम् ॥ ६४ ॥

द्वितीय्यं वास्तुपूजाञ्च मण्टपाराधनन्ततः
मूलबेरन्तु संस्नाप्य न्यासकर्मसमाचरेत् ॥ ६५ ॥

यात्राहोमन्ततः कृत्वा घटे चैव चलासनम्
आसनं मूर्तिमभ्यर्च्य नेत्रमुद्रां प्रदर्शयेत् ॥ ६६ ॥

लिङ्गादावाहनं पश्चात् घटे संयोजयेत्ततः
यागमद्ध्ये निवेश्याथ पूर्वोक्तविधिनाहुनेत् ॥ ६७ ॥

सुमुहूर्ते सुलग्ने च बिम्बं सम्पूजयेद्यथा
नेत्रमुद्रां प्रदृश्याथ कुम्भात् बीजं समाददेत् ॥ ६८ ॥

लिङ्गे संयोजयेच्चैव ब्राह्मणान्भोजयेत्ततः
दक्षिणान्दापयेच्चैव सवस्त्रानङ्गुलीय्यकम् ॥ ६९ ॥

भूषणम् उपवीतञ्च सन्तुष्टं परिभावयेत्
अष्टबन्धनहीने तु पूर्वोक्तयागमण्टपम् ॥ ७० ॥

सप्तविंशत्करं दीर्घम् अष्टादशकरन्तु वा
नवहस्तं चरेद्यागं वसुसप्तरसेन्द्रियम् ॥ ७१ ॥

भूतसङ्ख्या करं दीर्घं यागमण्टपमुत्तमम्
कनिष्ठमद्ध्यरेखाच्च बाह्यमूलान्तमेव च ॥ ७२ ॥

करलक्षणमेवोक्तं वक्ष्येऽहं यागलक्षणम्
चतुर्हस्तसमायामं यागद्वारं विशेषतः ॥ ७३ ॥

द्विहस्तं वा त्रिहस्तं वा तस्यार्द्धं विस्तरं भवेत्

पञ्चहस्तसमायामं चतुर्हस्तमथापि वा ॥ ७४ ॥

त्रिहस्तं वा समं दीर्घं स्तम्भलक्षणमेव च
त्रिहस्तं ———————— ॥ ७५ ॥

अपर्वं जर्झरं हित्वा अवक्रमसत्वरं भवेत्
यागन्तु नवभागं स्यात् नवखण्डाकृतिन्तथा ॥ ७६ ॥

स्तम्भोपरिसुकीलञ्च तस्योर्ध्वे गात्रमुत्तमम्
षडङ्गुलन्तु विस्तारम् अष्टाङ्गुलघनं भवेत् ॥ ७७ ॥

स्तम्भात्स्तम्भं समात्सक्तं मद्ध्ये चैव ततश्शृणु
नीरन्ध्रं मद्ध्यमे कल्प्य शेषान्यत् बहिरुच्यते ॥ ७८ ॥

पूर्वादिचतुर्दिक्षु आग्नेयादिविदिक्षु च
मद्ध्यमे च द्विभागञ्च वृद्धितोन्नतमुच्यते ॥ ७९ ॥

पूर्वे च विलिकारोप्य मिलित्वाग्रे च बन्धयेत्
विकिराभिरलङ्कृत्य सम्यक् बन्ध्यसुशीलयेत् ॥ ८० ॥

त्रिणेनसत्वरं पूर्य आबद्ध्यपरिपालकैः
—— विस्तारं पञ्चाङ्गुलन्तु मद्ध्यमम् ॥ ८१ ॥

षडङ्गुलन्तु विस्तारम् उत्तमं परिकीर्तितम्
द्वाराधारसमं दीर्घं पञ्चाङ्गुलघनं भवेत् ॥ ८२ ॥

ऊर्ध्वे गात्रे च संयुक्तं तन्मद्ध्ये त्रिशिखन्तथा
त्रियङ्गुलन्तु विस्तारं पार्श्वयोर्वक्रसंयुतम् ॥ ८३ ॥

वज्राकृतिन्तु तन्मद्ध्ये तोरणायुतमीरितम्
षडङ्गुलन्तु विस्तारं षोडशाङ्गुलमुत्तमम् ॥ ८४ ॥

फलकामद्ध्यमे चैव दशाङ्गुलसमन्वितम्
द्विभुजा च द्विनेत्रा च चूलिकाकृतिमुत्तमम् ॥ ८५ ॥

चित्रवस्त्रसमायुक्तं दर्पणं मस्तके धरेत्
अञ्जली करसंयुक्तम् अष्टमङ्गलधारिणम् ॥ ८६ ॥

दर्पणं पूर्वकुम्भञ्च पूर्वे चासक्तवेदिकाम्
वृषभं चामर द्वौ च सव्यदेशे विनिर्दिशेत् ॥ ८७ ॥

श्रीवत्सं स्वस्तिकं प्रत्यक् शङ्खदीपन्तदुत्तरे
एतानि मस्तके धार्य रम्भा चैव तिलोत्तमा ॥ ८८ ॥

उर्वशीमेनकासव्ये क्रमुकीकामवर्द्धनी
सुमुखी सुन्दरी चैव वेदिका सप्तपार्श्वके ॥ ८९ ॥

द्वादशाङ्गुलमायामं चतुरङ्गुलविस्तरम्
—————————- ॥ ९० ॥

वज्रं शक्तिञ्च खट्गञ्च घण्टां पाशं द्ध्वजन्तथा
चतःत्रिशूलचक्रञ्च पद्मं दशविधं तथा ॥ ९१ ॥

शक्तिं गदा च स्त्रीरूपं पद्मञ्चक्रं नपुंसकम्
शेषाः पुमांसं विज्ञेयाः उक्तद्ध्यानं समाचरेत् ॥ ९२ ॥

वज्राद्यङ्कितमौली च द्विकरावञ्जलीकृतम्
पूर्वादिदिक्स्थलेन्यस्य पूर्वाद्यष्टदिशि श्रुणु ॥ ९३ ॥

युगाश्रं योनिकुण्डञ्च अर्द्धचन्द्रं त्रिकोणकम्
वर्त्तुलञ्चैव षट्कोणं शतपत्रन्तु मङ्गलम् ॥ ९४ ॥

इन्द्र ईशानयोर्मद्ध्ये वृत्तं वा मेखलात्रयम्
चतुस्त्रयद्वयञ्चैव मेखलाहस्तविस्तृतम् ॥ ९५ ॥

विस्तारं साम्य तत् घातं मद्ध्ये पद्माकृतिन्तु वा
अश्वत्थपत्रवन्नाभिं पञ्चवर्णैरलङ्कृतम् ॥ ९६ ॥

षट्त्रिंशाङ्गुलदीर्घाणि यज्ञवृक्षैः प्रकल्पयेत्
पद्मपुष्पाकृतिञ्चैव वेदाङ्गुलमुदाहृतम् ॥ ९७ ॥

द्वादशाङ्गुलमायामं वृत्तं दण्डाकृतिन्तथा
तदश्रं चतुरङ्गुल्यं कलशाकृतिमुत्तमम् ॥ ९८ ॥

कुण्डमेकाङ्गुलङ्कृत्वा तदग्रे वसुसङ्ख्यया
वसुसङ्ख्या च दीर्घाणि तत्समं विस्तृतं भवेत् ॥ ९९ ॥

चतुरश्रा कृतिं कृत्वा द्वियङ्गुलघनं भवेत्
त्रियङ्गुलन्तु विस्तारं वृत्तं त्र्यङ्गुलघातकम् १००
पृष्ठे त्रियङ्गुलञ्चैव घनं पद्माकृतिन्तथा
एकाङ्गुलन्तु कुण्डं स्यात् अग्रे कौशिकसङ्ख्यया १०१
त्रियङ्गुलघनं विद्यात् आदौ त्र्यङ्गुलदीर्घकम्
अष्टाङ्गुलन्तु विस्तारम् अग्रे कुब्जाकृतिन्तथा १०२
चतुरङ्गुलमग्रे च फलकाकृतिमुत्तमम्

तन्मद्ध्ये सुषिरं कृत्वा कनिष्ठाङ्गुलनाहकम् १०३
अधोभागे प्रकर्तव्यं गजोष्ट्राकृतिवच्चरेत्
वेदिकामद्ध्यमे चैव अष्टपद्मदलाकृतिम् १०४
चित्राकारन्तु तत्पार्श्वे सम्यक् मधुरकस्तथा
षड्विंशदङ्गुलं दीर्घम् अग्रे तु चतुरङ्गुलम् १०५
वृत्तञ्चैव तु तन्मद्ध्ये नारङ्गफलकाकृतिम्
पृष्ठे गजशिराकारं दण्डमङ्गुष्ठनाहकम् १०६
अग्रे त्र्ययङ्गुलं पद्मं कर्कशं पर्वकं नयेत्
द्वादशाङ्गुलदीर्घञ्च अष्टाङ्गुलन्तु विस्तरम् १०७
एकाङ्गुलोच्छ्रितं मद्ध्ये वक्त्रं वै मुष्टिमात्रकम्
पृथक्पृथक्च तत्पादौ हस्तौ मुष्टिं प्रकल्पयेत् १०८
कूर्मासनमिति प्रोक्तं पात्रं वै लक्षणं श्रुणु
षडङ्गुलन्तु विस्तारं घातञ्चैव द्वियङ्गुलम् १०९
वृत्ताकारन्तु सुश्लक्ष्णं पात्रं वा परिकल्पयेत्
पञ्चाङ्गुलन्तु दीर्घं स्यात् नाहञ्चैव द्वियङ्गुलम् ११०
यवार्द्धघनमेवोक्तं मद्ध्ये तु सुषिरन्तथा
अथवा निर्मितञ्चैव दर्वीञ्चैव ततश्शृणु १११
पञ्चाङ्गुलन्तु दीर्घं स्यात्पादाङ्गुलन्तु विस्तरम्
घनञ्चैव तु तत्पात्रे द्विपत्राकृतिमच्युतम् ११२
किञ्चित्संयुतमादौ च घटञ्चैव ततश्शृणु
द्विकारिपूरितं कुम्भं वर्त्तुलं कलशाकृतिम् ११३
मद्ध्यभागन्तु विस्तारं सप्तभागं प्रकीर्तितम्
द्वारन्तु एकभागं स्यात्कुण्डं द्व्यङ्गुलमुत्तमम् ११४
ओष्ठमेकाङ्गुलञ्चैव विस्तृतं हेमनिर्मितम्
घनं यवप्रमाणन्तु तस्यार्द्धं वा तदर्द्धकम् ११५
राजतं मद्ध्यमं चैव ताम्रेणैव प्रकल्पितम्
अथवा मृण्मयं वापि मृण्मयं रक्तवर्णकम् ११६
कालं भिन्नञ्च सुषिरं वक्रञ्चापक्वधूमकम्
शिवकुम्भमिति प्रोक्तं वर्द्धन्यामेकदेशके ११७

मद्ध्यप्रदेशात्कुण्डाधः पञ्चभागं प्रकीर्तितम्
तन्मद्ध्ये मुष्टिमात्रेण नाहञ्चैव द्वियङ्गुलम् ११८
मद्ध्ये तु सुषिरं कृत्वा शेषान्पूर्ववदाचरेत्
कलशान्पूर्ववत्कृत्वा त्रिविधं लक्षणं श्रुणु ११९
चतुरङ्गुलविस्तारं पूर्णचन्द्रवदाकृतिम्
ओष्ठमेकाङ्गुलोत्सेधं यवमात्रं घनं व्रजेत् १२०
पालिकाष्टादशाङ्गुल्यं मात्राङ्गुलमुदाहृतम्
एकाङ्गुलघनं प्रोक्तं मुखं वृत्तं षडङ्गुलम् १२१
पूर्णचन्द्रवदाकारं घनञ्चैव षडङ्गुलम्
दण्डं सप्ताङ्गुलं प्रोक्तं नाहं पञ्चाङ्गुलं भवेत् १२२
पादं पञ्चाङ्गुलं प्रोक्तं मद्ध्ये तु सुषिरं भवेत्
घटिका च तदेवोक्तं पात्राकृतिमुदाहृतम् १२३
पञ्चाश्राकृतिमेवोक्तं शेषान्पूर्ववदाचरेत्
शरावं मुखविस्तारं चतुरङ्गुलमीरितम् १२४
कलशाकृतिवत्सार्द्धं शेषं पूर्ववदाचरेत्
अष्टादशाङ्गुलोत्सेधं पादञ्चैव द्वियङ्गुलम् १२५
अष्टाङ्गुलन्तु विस्तारं वृत्तञ्च स्थलिकाकृतिम्
त्रयाङ्गुलमुखोग्त्सेध अष्टाङ्गुलन्तु विस्तृतम् १२६
घातं द्वियङ्गुलञ्चैव शेषं दण्डं प्रकल्पयेत्
चतुरङ्गुलनाहं स्यात् मङ्गलाङ्कुरवारि च १२७
एवं वै द्वयमेवञ्च पालिकालक्षणं श्रुणु
—– प्रोक्तं ज्ञानखट्गं ततश्शृणु १२८
षट्त्रिंशद्दर्भसङ्ख्या च ग्रन्ध्यग्राङ्गुलिकं भवेत्
ग्रन्ध्यग्रन्तु त्रयागाङ्गुल्यं तदर्द्धञ्च त्रिभागकम् १२९
सव्यापसव्यमार्गेण वेण्याकृति च सत्वरम्
सप्ताङ्गुलन्तु दीर्घं स्यात् तदधो वलयद्वयम् १३०
पार्श्वयोश्च अधो भागे एकाङ्गुला च वेणिका
तदधो वलयं द्वौ च तदधश्च त्रियङ्गुलम् १३१
वेणीं वा परिकल्प्याथ आद्यन्तं षोडशाङ्गुलम्

शिवकुम्भे च पुन्दर्भैः पक्षसङ्ख्या च कूर्चकम् १३२
गन्धिरेकाङ्गुलं प्रोक्तं ग्रन्ध्यग्रं चतुरङ्गुलम्
करमद्ध्यात्कनिष्ठान्तम् एकदर्भेण वेष्टयेत् १३३
द्वादशं वर्द्धनीञ्चैव वसुसङ्ख्याष्टकुम्भके
पञ्चदर्भेण कूर्चञ्च परिवारश्च कुम्भकान् १३४
लम्बकूर्चं विशेषेण षोडशं सङ्ख्यया तथा
तदर्द्धं परिवारश्च कलशानां विशेषतः १३५
त्रिंशद्दर्भदलैश्चैव समाग्रं ग्रन्धिमुच्यते
एकदर्भेण संवेष्ट्य विष्टरं परिकीर्तितम् १३६
वेदिकादीर्घतन्मानं विष्टरं परिधिन्तथा
परिस्तरणमेवोक्तं तावद्दीर्घं प्रकल्पयेत् १३७
कुण्डानि परितः कृत्वा ऊर्ध्वे पालाशमुच्यते
श्यामन्तन्मानदीर्घञ्च त्रिंशद्दर्भैश्च विष्टरम् १३८
विष्टरं मद्ध्यमे न्यस्य तन्मानं परिकीर्तितम्
समाग्रं सङ्ख्ययादर्भै —- बन्धयेच्चरेत् १३९
परिस्तरणमेवोक्तं द्रव्यं धान्यन्ततश्शृणु
दशाङ्गुलन्तु विस्तारं वृत्ताकारसमन्वितम् १४०
त्रियङ्गुलं घनञ्चैव पार्श्वे वृत्ताकृतिन्तु वा
त्रिय्ङ्गुलं सुविस्तारं वृत्तं वा परिकल्पयेत् १४१
घातं द्वियङ्गुलं प्रोक्तं दशपत्राकृतिन्तु वा
नवधान्यं क्षिपेच्चैव अपूपान्मद्ध्यमे न्यसेत् १४२
धारिकालक्षणं प्रोक्तम् अरणीलक्षणं श्रुणु
छागकन्दञ्च मुकुलं तमादायनभिन्ददेत् १४३
मद्ध्ये सत्वरमादाय द्वादशाङ्गुलनाहकम्
चतुरश्राकृतिं कृत्वा दीर्घं विंशाङ्गुलं भवेत् १४४
अयं सामुष्टिमात्रेण मुकुलञ्च द्विपार्श्वके
अश्वत्थवृक्षमादाय शिञ्ची च सबलातरुम् १४५
मूलवृक्षं समादाय सम्यक्शोषितदारुकम्
कार्पासतूलमादाय कुण्डमद्ध्ये विनिक्षिपेत् १४६

तन्मद्ध्ये मथनं सम्यक् अग्निमादाय शोधितम्
द्वादशाङ्गुलदीर्घं स्यात् एकाङ्गुलन्तु विस्तरम् १४७
पदपत्रवदग्रे वा अन्याग्रे पर्वचन्दवत्
द्वियङ्गुलं समाघातम् अयसानिर्मितं तथा १४८
दर्वीन्तु कल्पयेत्पश्चात् शलाकालक्षणं श्रुणु
अष्टाङ्गुलसुदीर्घाणि एकाङ्गुलन्तु विस्तरम् १४९
यवमात्रघनं विद्यात् शलाकापरिकीर्तितम्
पूर्णचन्द्रसमं दीर्घं दशाङ्गुलसुविस्तरम् १५०
चतुरङ्गुलघातञ्च शलभापत्रनिर्मितम्
लाक्षासर्जरमन्धूकं शुकुरुं नवनीतकम् १५१
काषायं विप्रकं चैव कार्पासं ह्यष्टकन्तथा
वेदिका मद्ध्यमे चैव अष्टद्रोणैश्च शालिभिः १५२
परिवारघटानाञ्च प्रत्येकं शिवसङ्ख्यया
वास्तुपूजादिपूजान्तं कलशानां पृथक्पृथक् १५३
धान्यं शिवं विनिक्षिप्य तदर्द्धं तण्डुलं भवेत्
शिवस्य कुडुपं सङ्ख्या तिलञ्चैव प्रकीर्तितम् १५४
माषमाङ्गञ्च शिम्बञ्च तिलवत्सङ्ख्ययाक्रमात्
प्रभाते त्रिसहस्रञ्च रात्रौ च त्रिसहस्रकम् १५५
मद्ध्यमं द्विसहस्रं वा पञ्चाशतसहस्रकम्
सर्पिषा होमयेच्चैव प्रधाने परिकीर्तितम् १५६
तस्यार्द्धं परिवाराणां होमयेत्तु विशेषतः
दशांशं द्रव्यहोमैश्च दशांशं समिधाहुतिः १५७
शतांशञ्च अपूपादीन् होमकर्मविशेषतः
दशनिष्कप्रमाणन्तु स्वर्णपङ्कजमुत्तमम् १५८
तस्यार्द्धं हेमकल्हारं तस्यार्द्धं परिवारकम्
इतरेषाञ्च देवानां तस्यार्द्धं वा विनिक्षिपेत् १५९
नवरत्नं पञ्चरत्नं त्रिरत्नमथवापि वा
अथवा एकरत्नं वा कुम्भमद्ध्ये विशेषतः १६०
उत्तमं तिलवत्कृत्वा मद्ध्यमं यवमुच्यते

अथवाङ्गुलिमद्ध्यं वा तन्तुवेष्टनमुत्तमम् १६१
पञ्चविंशतिपर्णं वा तदर्द्धं भानुसङ्ख्यया
अथवा वसुवर्णं वा हेमं चूतदलाकृतिम् १६२
सर्वद्रव्यान्समापाद्य यागद्वारे प्रवेशयेत्
मण्टपाराधनं पूर्वं द्वितीय्यमभिषेचनम् १६३
तृतीय्यं वास्तुकर्मञ्च यात्राहोमं चतुर्त्थकम्
घटे चावाहयेत्पश्चात् वेदिकां पूजयेदपि १६४
सप्तमं होमकर्मञ्च अष्टमं पीठशोधनम्
सैकतेन समापूर्यं द्व्यङ्गुलं हेमरत्नकैः १६५
युगाङ्गुलन्तु लेह्येन अष्टबन्धनमुच्यते
द्वादशस्नपनञ्चैव महास्नपनमुत्तमम् १६६
इहार्य यजनञ्चैव त्रयोदशमिति स्मृतम्
आचार्यं पूजयेच्चैव वस्त्रहेमाङ्गुलीयकैः १६७
दक्षिणान्दापयेच्चैव ब्राह्मणान्पूजयेत्ततः
दक्षिणाञ्जपकर्त्तॄणां दापयेत् ब्राह्मणाय च १६८
एवं यः कुरुते मर्त्यः सपुण्याङ्गतिमाप्नुयात् १६९
इति अष्टबन्धनपटलद्विचत्वारिंशत्तमः