आश्वयुजमासा अन्नपूजा पटलप्रारम्भः
अथ वक्ष्ये विशेषेण अन्नपूजाविधिं श्रुणु
अन्नादिसर्वसौभाग्यं राजराष्ट्राभिवृद्धिदम् ॥ १ ॥
तुलाराशिगते भानौ तन्मासे शुक्लपक्षके
पर्वयुक्तमयुक्तं वा अश्विनी ऋक्षमेव वा ॥ २ ॥
पूर्ववद्यागशालाञ्च मण्डलं चतुरश्रकम्
मद्ध्ये वेदिं प्रकल्प्याथ दर्पणोदरसन्निभम् ॥ ३ ॥
वेदिका मद्ध्यमे चैव गौरी तिलकमेव वा
ऐशान्ये वेदिकां कृत्वा दशकुम्भं न्यसेत्ततः ॥ ४ ॥
तत्पूर्वे तु त्रिकोणञ्च कुण्डं सङ्कल्पयेत्ततः
पूर्वोक्तविधिना चैव यागोपकरणानि वै ॥ ५ ॥
धान्यराशिं प्रकल्प्याथ तन्मद्ध्ये विन्यसेत् घटम्
निक्षिप्य पङ्कजं रत्नं कूर्चं स्वर्णदलादिभिः ॥ ६ ॥
मद्ध्ये शिवं समभ्यर्च्य उक्तमन्त्रैस्समर्चयेत्
पूर्वोक्तविधिना हुत्वा तमालैरिन्धनैरपि ॥ ७ ॥
तुलसी —– समिधैर्हुनेत्
नीवारद्रव्यहोमैश्च ——– ॥ ८ ॥
स्पर्शाहुतिन्ततः कृत्वा मासद्रव्यं ततश्शृणु
सितशाली हेमशाली द्वीपशालीयवस्तथा ॥ ९ ॥
सूक्ष्मशाली विशेषेण शिवदीक्षायुतस्तथा
कर्षणं वहनं — हृदास्त्रेणैव दापयेत् ॥ १० ॥
जलं निक्षिप्य समये अघोरम्मन्त्रमुच्चरन्
अस्त्रमन्त्रेण हृदिना शिवमन्त्रेण ताडयेत् ॥ ११ ॥
अघोरे चण्डनाथञ्च शिबिकामारोपयेत्ततम्
केदारतलसामीप्ये स्थापयेत् भक्तनायकम् ॥ १२ ॥
रैणुकं शोष्य — हृदयेनैवमर्दयेत्
अत्युष्णञ्चैवमन्दोष्णं वर्जयेत्पक्वमेव वा ॥ १३ ॥
नक्षत्रकुलसङ्काशं सहस्रप्रस्थसंयुतम्
तस्यार्द्धं वा तदर्द्धं वा सर्वद्रव्यं समाददेत् ॥ १४ ॥
आचार्यसन्निधौ स्थाप्य सर्वद्रव्यं समाददेत्
पाचकाचार्यमाहूय शिवभक्तसुशीलकम् ॥ १५ ॥
शिवदीक्षायुतं शैवं पाचकाचार्यसन्निधौ
दापयेत्सर्वद्रव्याणि भाण्डमन्त्रेण क्षालयेत् ॥ १६ ॥
वह्निमन्त्रेण सन्दीप्य तमालैः काष्ठमुत्तमम्
वकुलं यज्ञकाष्ठञ्च बिल्वञ्च तुलसी तु वा ॥ १७ ॥
गोमयं शुष्ककाष्ठं वा इन्धनं परिकीर्तितम्
इत्युत्तरशतं सङ्ख्या पलं वा शिवतण्डुलम् ॥ १८ ॥
हृदामन्त्रेण आपूर्य धूमात्युष्णं विवर्जयेत्
अतिपक्वमपक्वञ्च वर्जयित्वा च साधकः ॥ १९ ॥
नवनीतं समादाय भाण्डमद्ध्ये च निक्षिपेत्
यवागूं सन्त्यजेच्चैव शुद्धपात्रे प्रदापयेत् ॥ २० ॥
कारवल्लिद्वयञ्चैव ——–
आलर्कं राजमाषञ्च उर्वारुकफलन्तथा ॥ २१ ॥
नारङ्गञ्चैव लिकुचं पनसं धात्रिमेव च
चूतं वितालमीसे वा लताञ्चतरुमेव वा ॥ २२ ॥
बृहतीकदली चैव गोसकाख्यं प्रकीर्तितम्
व्यञ्जनं पाचयेच्चैव अपूपांश्च बहून्विधान् ॥ २३ ॥
पूर्ववत्कल्पयेत्पश्चात् आज्येनैव परिप्लुतम्
स्पर्शाहुतिन्ततः कृत्वा परिचारकमस्तके ॥ २४ ॥
निवेश्य तूर्यवाद्यैश्च प्रादक्षिण्य क्रमेण वा
मूलबेरेऽभिषिच्याथ अस्त्रोदकेन स्नापयेत् ॥ २५ ॥
शेषं पूर्ववदेवोक्तं दुकूलेनैव वेष्टयेत्
इन्द्रनीलेनखचितं मणिमालाविभूषितम् ॥ २६ ॥
अष्टगन्धं समं लेपेत् कल्हारं पाटली तथा
उत्पलञ्चन्द्रकान्तञ्च गैरिकान्तं प्रवालकम् ॥ २७ ॥
वकुलं श्वेतकुरवमलङ्कृत्य विशेषतः
अहमुद्रत्यलिङ्गे च पीठे च परिदापयेत् ॥ २८ ॥
चूतपल्लवपत्रैश्च मरीच्यन्नं निवेदयेत्
पानीय्यमिक्षुसारं स्यात् जातिपत्रेण धूपकम् ॥ २९ ॥
त्रिशतं सङ्ख्यया दीपं भ्रामयेल्लिङ्गमूर्द्धिनि
सप्ततालप्रविस्तारं वृत्तं वै मद्ध्यमे श्रुणु ॥ ३० ॥
कर्णिका कृतिमेवोक्तं त्रिशतं सङ्ख्यया तथा
दीपलक्षणमेवोक्तं पाद्यन्तु त्रुटिसंयुतम् ॥ ३१ ॥
आचम्यं कोष्ठसहितमर्घ्यन्तु कुसुमैर्युतम्
वाद्यं वा ——– गौणमुच्यते ॥ ३२ ॥
नृत्तं पद्माङ्गसंयुक्तं गीतं चिन्तामणी तथा
रागं कौशिकमेवोक्तं कल्पयेत् शिवसन्निधौ ॥ ३३ ॥
एवं कृत्वा विशेषेण ततो विजयमाप्नुयात् ॥ ३४ ॥
इति आश्वयुजमास अन्नपूजा पटल एकचत्वारिंशत्तमः