०४० भाद्रपदमास अपूपपूजापटलः

भाद्रपदमास अपूपपूजापटलप्रारम्भः
अतःपरं प्रवक्ष्यामि मासिभाद्रपदे शुभे
शुक्लपक्षे सिनीवालि उत्तरप्रोष्ठपन्तथा ॥ १ ॥

एकमासे द्विनक्षत्रे पूजयेत्तु द्वयोरपि
ऐश्वर्यपदमेवोक्तम् अपूपं पूजनं यथा ॥ २ ॥

शिवं षोडशसङ्ख्या च सर्वे साहस्रसङ्ख्यया
माषापूपं गुलापूपं चूलिकां स्थलिकन्तथा ॥ ३ ॥

रसापूपं तिलापूपं तेषां साहस्रमेव च
गोघृते पाचयेत् शुद्धं शुद्धपात्रे च आददेत् ॥ ४ ॥

अष्टभागं विभज्या वा एकांशं देशिकाय च
मुन्यंशं ग्राहयेत्पात्रे वामभागे निवेशयेत् ॥ ५ ॥

पूर्वोक्तयागं सङ्कल्प्य मण्टपं चतुरश्रकम्
तत्पूर्वे पद्मकुण्डन्तु पूर्वोक्तविधिना चरेत् ॥ ६ ॥

ऐशान्ये दशकुम्भञ्च विन्यसेत्पूजयेच्छिवम्
मद्ध्ये वेदिं प्रकल्प्याथ परमण्डलमुच्यते ॥ ७ ॥

पूर्वोक्तविधिना हुत्वा द्रव्यं शिवं हुनेत्ततः
अपामार्गं हुनेच्चैव इन्धनं छदकाष्ठकैः ॥ ८ ॥

स्पर्शाहुतिन्ततः कृत्वा प्रादक्षिण्य क्रमेण वा
पाद्यमाचमनीयार्घ्यं कुशाग्रं लबुपत्रकम् ॥ ९ ॥

मुक्ता च इति विज्ञेयः अभिषेकन्ततश्शृणु
पूर्वोक्तविधिना स्नात्वा मृदोदमभिषेचयेत् ॥ १० ॥

मिश्रवस्त्रं समाच्छाद्य सुरत्नखचितन्तथा
स्वर्णभूषणमेवोक्तं माला च परिकीर्तितम् ॥ ११ ॥

कर्णिकारत्नपुन्नागं प्रवालं मल्लिका तथा
एकपत्रारविन्दञ्च गन्धञ्चैव ततश्शृणु ॥ १२ ॥

कुष्टेन सहितं गन्धं माषान्नञ्च निवेदयेत्
सितभुक् दण्डशङ्खञ्च व्यञ्जनं परिकीर्तितम् ॥ १३ ॥

पानीय्यमिति विख्यातं नालिकेरजलं ग्रहेत्
पनसं मातुलुङ्गञ्च नारङ्गं शिवसन्निधौ ॥ १४ ॥

नृत्तं कमलवर्त्तञ्च मेघरञ्जी सुगीतकम्
तिलकं वाद्यमित्युक्तं रागं वै नट्टभाषकम् ॥ १५ ॥

राजोपचारमार्गेण पूजयेत्परमेश्वरम्
एवं कृत्वा विशेषेण सर्वसौभाग्य सम्पदम् ॥ १६ ॥

इति भाद्रपदमासापूपपूजापटलश्चत्वारिंशत्तमः