सिंहमासशर्करापूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सिंहमासार्चनं श्रुणु
केसरी गतभानौ च शुक्लपक्षे च पर्वणि ॥ १ ॥
श्रविष्ठाऋक्षसंयुक्ते पर्वयुक्ते विशेषतः
पूर्वोक्तविधिना यागं मण्टपं चतुरश्रकम् ॥ २ ॥
मद्ध्ये वेदिं प्रकल्प्याथ स्वायम्भुवाख्यमण्डलम्
तत्पूर्वे कुण्डमेवोक्तं चतुरश्रं प्रकीर्तितम् ॥ ३ ॥
शम्भुकाष्ठं मद्ध्यमे च ————-
—————– वेदिकां पूर्ववच्चरेत् ॥ ४ ॥
दशकुम्भन्न्यसेच्चैव पूजयेत्तु महेश्वरम्
अग्नौ सन्तर्प्य देवानां वरं द्रव्यमुच्यते ॥ ५ ॥
इन्धनं कामवृक्षञ्च सवेणुसमिदन्तथा
नृत्तं वा मुखभद्राख्यं रागं मण्डूकमेव वा ॥ ६ ॥
वाद्यन्तिलकमित्युक्तं गीतं वै हरिमेव च
पर्न्नाशर्कद्विशतञ्चैव दीपसङ्ख्या विशेषतः ॥ ७ ॥
धूपञ्चन्दनधूली च पानीय्यञ्च ततश्शृणु
अम्बरोत् भवमेवोक्तं गिरिवापी समुद्धृतम् ॥ ८ ॥
व्यञ्जनञ्चैव आलर्कं फलिनी पक्वसंयुतम्
घृतान्नञ्चैव नैवेद्यं वैडूर्याभरणन्तथा ॥ ९ ॥
नीलोत्पलञ्च मुसली हेमाभ्याङ्गी च शङ्खिनी
पुष्पक्रमं विशेषेण श्रीपर्णी पत्रमेव च ॥ १० ॥
गन्धं रजतगन्धञ्च मिश्रवर्णञ्च वस्त्रकम्
धौतोदकमिति प्रोक्तम् अर्घ्यं त्वानीलसर्षपम् ॥ ११ ॥
आचम्यञ्च हिमाम्बूनि वाद्यं वै नवनीतकम्
पूर्वोक्तविधिना चैव अग्नौ सन्तर्पयेत्ततः ॥ १२ ॥
सहस्रफलसङ्ख्या च सितं वै सङ्ख्यया तथा
सहस्रप्रस्थसंयुक्तं तिलं वै परिकीर्तितम् ॥ १३ ॥
सम्यक्क्षालनमन्त्रेण शर्करामिश्रमेव च
स्पर्शाहुतिं ततः कृत्वा स्थलिकोपरिविन्यसेत् ॥ १४ ॥
प्रादक्षिण्य क्रमेणैव लिङ्गपीठे च दापयेत्
नैवेद्यं धूपदीपञ्च गीतनृत्तैस्समन्वितम् ॥ १५ ॥
जपान्तं पूजयेत्पश्चात् सुप्रसन्नं शिवं दृशेत्
इष्टकाम्यार्त्थसिद्ध्यर्त्थं रणमोचनमेव च ॥ १६ ॥
सायुज्यपदमाप्नोति शिव एव न संशयः ॥ १७ ॥
इति सिंहमासपूजापटल एकोनचत्वारिंशत्तमः