०३८ आषाढमासक्षीरपूजापटलः

आषाढमासक्षीरपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि क्षीरपूजाविधिक्रमम्
भानौ कर्कटके प्राप्ते शुक्लपक्षे शुभे दिने ॥ १ ॥

उत्तराषाढऋक्षे च पर्वयुक्ते विशेषतः
पूर्वोक्तयागं सङ्कल्प्य मद्ध्ये वेदिं प्रकल्पयेत् ॥ २ ॥

तत्पूर्वे वृत्तकुण्डन्तु पूर्ववत्परिकल्पयेत्
ऐशान्ये वेदिकां कृत्वा दशकुम्भान्यसेत्ततः ॥ ३ ॥

लिङ्गाब्जं स्वस्तिकञ्चैव मण्डलं परिकीर्तितम्
पूर्वोक्तविधिना हुत्वा चणकं द्रव्यमुच्यते ॥ ४ ॥

इन्धनं खादिरञ्चैव समिधं चूतमुच्यते
कुण्डस्य वामपार्श्वे तु स्वर्णेन रजतेन वा ॥ ५ ॥

कांस्यपात्रे विशेषेण क्षीरसङ्ग्रहणं भवेत्
क्षीरं दधिद्वये चैव द्विगुणं परिकीर्तितम् ॥ ६ ॥

सद्यो गोक्षीरमादाय प्रस्थञ्च द्विसहस्रकम्
खारिसङ्ख्या द्रोणसङ्ख्या बहुपात्रे पृथक्पृथक् ॥ ७ ॥

अत्युष्णञ्चैव मन्दोष्णं त्यजेत्साधारणोष्णकम्
पाचयेच्चैव पञ्चांशं षष्ठांशं वा प्रकल्पयेत् ॥ ८ ॥

अतिपक्वमपक्वञ्च वर्जयित्वा विशेषतः
अतिपक्वमपक्वञ्च घोरेणैव शताहुतिम् ॥ ९ ॥

स्पर्शाहुतिं प्रकल्प्याथ गन्धपुष्पैरलङ्कृतम्
स्पर्शाहुतिञ्च तत्पूर्वम् अष्टभागं प्रकीर्तितम् ॥ १० ॥

एकांशं ग्राहयेच्चैव आचार्याय प्रदापयेत्
अभिषेकन्ततः कृत्वा रत्नोदकं समाचरेत् ॥ ११ ॥

पिङ्गलं वस्त्रमाच्छाद्य गन्धं वै देवदारुकम्
सवज्रखचितं भूष्यं पुष्पञ्चैव ततश्शृणु ॥ १२ ॥

सिन्धुवारञ्च धुत्तूरं वकुलं मल्लिका तथा
पत्रं वाधातकी प्रोक्तं नैवेद्यञ्च ततश्शृणु ॥ १३ ॥

फलोदकञ्च नैवेद्यं व्यञ्जनञ्च ततश्शृणु
उर्वारुकमिति ज्ञेयः उपकूश्माण्डमेव च ॥ १४ ॥

धूपं वै कृष्णलोहञ्च दीपञ्चत्वारिसङ्ख्यया
द्विशतं पूजनं कृत्वा पानीयञ्च ततश्शृणु ॥ १५ ॥

घटे हिमजलं क्षिप्य षष्टिनिष्कप्रमाणतः
सुवर्णन्तु जले क्षिप्य हेमोदकं प्रकीर्तितम् ॥ १६ ॥

दूर्वया सहितं पाद्यमाचम्यञ्च लवङ्गकम्
अर्घ्यं कुशाग्रसहितं पत्रं कुरवकन्तथा ॥ १७ ॥

वाद्यं पटहसंयुक्तं गीतं गौडं भविष्यति
नृत्तं परिमितं ज्ञेयं रागं दशाक्षरी तथा ॥ १८ ॥

उपचारान्समभ्यर्च्य सराजाविजयी भवेत्
एवं यः कुरुते मर्त्त्यः सपुण्यां गतिमाप्नुयात् ॥ १९ ॥

इति आषाढमासक्षीरपूजापटलः अष्टत्रिंशत्तमः