ज्येष्ठमासफलपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि फलपूजाविधिक्रमम्
ज्येष्ठे मासिसितेपक्षे शुक्लपक्षे च पौर्णमे ॥ १ ॥
मूलर्क्षे पूजनं कुर्यात्पर्वयुक्तं विशेषतः
पर्वयुक्तमयुक्तं वा ऋक्षप्राधान्यमेव वा ॥ २ ॥
नाडिका षोडशे हीने पूजां पूर्वदिने चरेत्
एकमासे द्विनक्षत्रे अन्त्यर्क्षे पूजयेच्छिवम् ॥ ३ ॥
नित्यपूजादिने प्राप्ते क्रियाद्रव्यविहीनके
तद्दोषशमनार्त्थाय मासपूजां समाचरेत् ॥ ४ ॥
पूर्वोक्तयागं सङ्कल्प्य षोडशस्तम्भसंयुतम्
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ५ ॥
मद्ध्ये वेदिं प्रकल्प्याथ उपवेदिं प्रकल्पयेत्
तत्पूर्वे कुण्डमित्युक्तम् अष्टाश्रं परिकीर्तितम् ॥ ६ ॥
वेदिकामद्ध्यमे चैव नवनाभाख्यमण्डलम्
पञ्चवामैरलङ्कृत्य पूर्ववद्विधिनाचरेत् ॥ ७ ॥
ऐशान्ये वेदिकां कृत्वा दशकुम्भं न्यसेत्ततः
कुण्डस्य वामभागे तु धान्यपुञ्जैरलङ्कृतम् ॥ ८ ॥
शुद्धपात्रं समादाय क्षालयेदस्त्रवारिणा
पक्वमाम्रफलञ्चैव अपक्तन्तु विवर्जयेत् ॥ ९ ॥
कदल्याममृताख्यञ्च सुगन्धञ्च पिशाचकम्
गात्रं पुष्पसुगन्धञ्च स्नानकाले विशेषतः ॥ १० ॥
नृसिंहं पर्वतञ्चैव इक्षुकालन्तु पूजनम्
नैवेद्यकाले सम्पूज्य पनसञ्च ततश्शृणु ॥ ११ ॥
गिरिपाख्यपनसं सैहकं वनपानसम्
—- चैव इत्येते चतुर्विधं प्रकीर्तितम् ॥ १२ ॥
पनसाख्यं सैंहिकञ्च पूजाञ्चैव प्रशस्यते
पृथक्पृथक्सहस्रञ्च तस्यार्द्धं वा तदर्द्धकम् ॥ १३ ॥
सहकारञ्च साहस्रं फलं विद्यात्तदर्द्धकम्
वितालं फलसाहस्रं तस्यार्द्धं वा तदर्द्धकम् ॥ १४ ॥
आदाय क्षालयेच्चैव शुद्धपात्रे च दापयेत्
पूर्वोक्तविधिना हुत्वा स्पर्शाहुतिं समाचरेत् ॥ १५ ॥
परिचारकमाहूय अश्वत्थेन्धनमेव च
जम्बू च समिदाहुत्वा एलकं होमयेत्ततः ॥ १६ ॥
पूर्णाहुतिन्ततः कृत्वा घटे संयोजयेत्ततः
परिचारकशिष्ये च स्थलिकं विन्यसेत्ततः ॥ १७ ॥
प्रादक्षिण्यक्रमेणैव गर्भगेहे निवेशयेत्
पाद्यन्तु पूर्ववत्कल्प्य विशेषं वारिवाजितम् ॥ १८ ॥
निक्षिप्य पाद्यमेवोक्तं कथं शम्भोऽपि वारिजम्
वारिवारिजशब्दे च हिमवाम्बुप्रकीर्तितम् ॥ १९ ॥
आचम्ये चलवङ्गञ्च अर्घ्यं व्रीहि च निक्षिपेत्
अभिषेकन्ततः कृत्वा फलोदकं विशेषतः ॥ २० ॥
घटान्तमभिषिच्याथ कृष्णवस्त्रेण वेष्टयेत्
मौक्तिकाभरणञ्चैव शतसङ्ख्या क्रमेण वा ॥ २१ ॥
गुग्गुलूतैलमिश्रेण गन्धालेपनमुत्तमम्
बृहतीरक्तगन्धञ्च श्वेतार्कं चम्पकन्तथा ॥ २२ ॥
पुष्पमालाविभूष्यञ्च बिल्वपत्रैस्समर्चयेत्
सर्षपान्नं न्निवेद्याथ व्यञ्जनञ्च ततश्शृणु ॥ २३ ॥
बृहती राजमाषञ्च पानीय्यञ्च ततश्शृणु
सुघटे जलमादाय माषमात्रं सुवर्णकम् ॥ २४ ॥
गन्धेन मिश्रितं स्वर्णं कुम्भमद्ध्ये विनिक्षिपेत्
हेमोदकमिति ज्ञेयं पानीयमिति कीर्तितम् ॥ २५ ॥
घनसारेण सम्मिश्रं धूपञ्चैव प्रकीर्तितम्
विंशतिद्विंशतिञ्चैव दीपाराधनमुच्यते ॥ २६ ॥
वाद्यं ढक्कारिसंयुक्तं नृत्तं वै कुञ्चितं भवेत्
गीतं दशाक्षरी चैव रागं भैरवमुच्यते ॥ २७ ॥
यामार्द्धान्ते त्यजेच्चैव चण्डेशाय प्रदापयेत्
एवं सङ्कल्प्य विधिना सर्वकार्यं जयं भवेत् ॥ २८ ॥
इति ज्येष्ठमासफलपूजापटलस्सप्तत्रिंशत्तमः