०३६ वैशाखगन्धपूजापटलः

वैशाखगन्धपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि गन्धपूजाविधिं श्रुणु
वृषे भानौ च यन्मासे तन्मासे शुक्लपक्षके ॥ १ ॥

पर्वयुक्तन्तु यदृक्षं विशाखा ऋक्षसंयुते
नाडी षोडश हीने तु पूजां पूर्वदिने चरेत् ॥ २ ॥

एकमासे द्विनक्षत्रे मासपूजा द्वयञ्चरेत्
गन्धपूजां श्रुणुष्वाथ सायुज्यपदसिद्धिदम् ॥ ३ ॥

पूर्वोक्तविधिनायागं वेदिकां शास्त्रवच्चरेत्
तत्पूर्वेनैव कुण्डञ्च पूर्ववत्परिकल्पयेत् ॥ ४ ॥

ऐशान्ये वेदिकां कृत्वा दशकुम्भञ्च मद्ध्यमे
वेदी चैव इमाकान्तं —— ख्यमण्डलः ॥ ५ ॥

गन्धपूजां प्रकर्तव्यं षट्भेदं गन्धवृक्षकम्
अगरूगिरिवृक्षञ्च चन्दनन्देवदारुकम् ॥ ६ ॥

विफलं माधवं प्रोक्तं गन्धवृक्षं विधीय्यते
उत्तमं गन्धवृक्षं स्यात् शेषम्मद्ध्यममुच्यते ॥ ७ ॥

पलं सहस्रसङ्ख्या च सत्वरं काष्ठमाहरेत्
दशनिष्कप्रमाणञ्च शलाकां हेमनिर्मिताम् ॥ ८ ॥

ताडयेत्काष्ठमद्ध्ये च शिलेषं मथितं वृषम्
शुद्धवस्त्रे समादाय कस्तूरी चागशुन्तथा ॥ ९ ॥

कर्पूरं यक्षकर्दञ्च हिमाम्बुनाभिमण्डले
घटेषु शिवमभ्यर्च्य शिवं सम्पूजयेत्ततः ॥ १० ॥

पूर्वोक्तविधिनाहुत्वा स्पर्शाहुतिं समाचरेत्
परिचारकमाहूय उष्णीषादिरलङ्कृतम् ॥ ११ ॥

सलिलं विन्यसेन्मूर्ध्नि प्रादक्षिण्य क्रमेण वा
गर्भगेहे निवेश्याथ मूलबेरे भिषेचयेत् ॥ १२ ॥

गन्धोदकं प्रकुर्वीत पूर्ववद्विधिनाचरेत्
श्यामवर्णनिभं वस्त्रं वेष्टयेत्परितः क्रमात् ॥ १३ ॥

कुङ्कुमेनाङ्कितं गन्धं लेपयेल्लिङ्गपीठके
अष्टोत्तरशतसङ्ख्या च पद्मबीजन्तु मालया ॥ १४ ॥

स्वर्णेन लाञ्छितं मद्ध्ये लिङ्गमूर्द्धनि दापयेत्
करवीरं रक्तपद्मं व्याघ्री च पाटली तथा ॥ १५ ॥

पुष्पैरभ्यर्चयेत्पश्चात् — पत्रैरर्चयेत्
कपित्थं वेणुबीजेन अन्नराशिं शिवाग्रके ॥ १६ ॥

नारङ्गञ्चैव कूश्माण्डं व्यञ्जनेन परिप्लुतम्
पानीय्यमनलाख्यञ्च उष्णोदकमिहोच्यते ॥ १७ ॥

जीरकं शर्करा चैव तन्मद्ध्ये मिश्रमुत्तमम्

पानीय्यमिति विख्यातं मुखवासन्ततश्शृणु ॥ १८ ॥

एलालवङ्गचूर्णञ्च मधुना च परिप्लुतम्
मुखवासन्ततः पश्चात्तृतीय्यं धूपमेव च ॥ १ ॥

दीपं द्विशतसङ्ख्या च शेषं पूर्ववदाचरेत्
पाद्यं कच्चोलसंयुक्तं कर्पूराचम्यमुत्तमम् ॥ २० ॥

अर्घ्यन्तिलेन सहितं शिवाय परिदापयेत्
अग्नेः पूर्णाहुतिन्दत्वा इन्धनं पनसैश्चरेत् ॥ २१ ॥

अन्नदीपाचयेच्चैव कुण्डेष्वग्निं नियोजयेत्
समिधं बिल्वमेवोक्तं यवं हुत्वा क्रमेण तु ॥ २२ ॥

अन्तर्बहिर्बली कृत्वा अग्नि— मद्यास्यसेत्
वाद्यञ्चमुरवं श्रेष्ठं रागं षट्पदमुच्यते ॥ २३ ॥

गीतञ्च रत्नसिह्मञ्च तालमुत् घटितन्तथा
दण्डपादं सुनृत्तञ्च दापयेत् शिवसन्निधौ ॥ २४ ॥

यामार्द्धान्ते त्यजेत् गन्धं चण्डेशाय प्रदापयेत्
एवं वै मासपूजाञ्च सायुज्य पदमाप्नुयात् ॥ २५ ॥

इति वैशाखगन्धपूजापटलः षट्त्रिंशत्तमः