चैत्रमासदान्तपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि दान्तपूजाविधिक्रमम्
दान्तं श्रीकरमेवोक्तं सर्वसम्पत्करं श्रियम् ॥ १ ॥
पूर्ववद्यागशालाञ्च नवाष्टमुनिहस्तयोः
पञ्चहस्तप्रमाणं वा मण्टपञ्चतुरश्रकम् ॥ २ ॥
वेदिकामद्ध्यमे चैव दर्पणोदरसन्निभम्
विस्तरार्द्धोन्नतं विद्यात्तत्पूर्वे कुण्डमुच्यते ॥ ३ ॥
षडश्रं कुण्डमाकल्प्य मणिमालाविभूषितम्
पञ्चवर्णैरलङ्कृत्य रक्तपद्मं समाचरेत् ॥ ४ ॥
मण्डलं पद्मभद्रञ्च पूर्ववत्परिकल्पयेत्
ऐशान्ये वेदिका मद्ध्ये दशकुम्भन्न्यसेत्ततः ॥ ५ ॥
पूर्वोक्तविधिनावाह्य पूजयेत्तु विशेषतः
मण्डलेशं समभ्यर्च्य पाद्यमाचमनार्घ्यकम् ॥ ६ ॥
पूर्वोक्तविधिनाकल्प्य कुण्डं वै मद्ध्यमे क्षिपेत्
पाद्यन्दद्यात् विशेषेण आचम्य च ततश्शृणु ॥ ७ ॥
तृणञ्च मद्ध्यमे न्यस्य अर्घ्यञ्चैव ततश्शृणु
कुङ्कुमं मद्ध्यमे न्यस्य पूर्ववच्चार्घ्यमुच्यते ॥ ८ ॥
नित्यवद्वाभिषेकान्ते माधव्योदकमाचरेत्
चित्रवर्णाकृतिं वस्त्रं चकुलाख्यं प्रकीर्तितम् ॥ ९ ॥
चन्दभस्मं समाहृत्य चन्दनेनैव मिश्रकम्
लेपयेत् बेरलिङ्गे च पद्मरागाख्यभूषणम् ॥ १० ॥
धारयेद्विधिवञ्चैव कुसुमञ्च ततश्शृणु
विषकासिकदम्बञ्च कदलीश्वेतलोद्ध्रकम् ॥ ११ ॥
पत्रं वा शमीवृक्षेषु नैवेद्यञ्च ततश्शृणु
हरिद्राभं प्रकुर्वीत बृहती परशुन्तथा ॥ १२ ॥
व्यजनं पूर्ववत्कृत्वा पानीयञ्च ततश्शृणु
सिन्धुगामिनदीमद्ध्ये खनित्वा घटमुत्तमम् ॥ १३ ॥
तत्स्वेदजलमाहृत्य वस्त्रपूतं शुचिस्तथा
उशीरञ्चैव ह्रीबेरं गुलेनैव परिप्लुतम् ॥ १४ ॥
पानीय्यमिति विख्यातं धूपञ्चैव ततश्शृणु
रागद्रव्यं न्यसेन्मद्ध्ये धूपं स्यात्परिकीर्तितम् ॥ १५ ॥
पुष्पदीपाकृतिञ्चैव द्विशतं सङ्ख्यया क्रमात्
कस्तूरिसहितञ्चैव मुखवासं प्रकीर्तितम् ॥ १६ ॥
सहस्रसङ्ख्ययादान्तं लिङ्गं न्यूनं शुचिर्भवेत्
तस्यार्द्धं वा तदर्द्धं वा स्पर्शाहुतिं समाचरेत् ॥ १७ ॥
परिचारकमाहूय तस्योर्ध्वे मस्तके न्यसेत्
तूर्य्यवाद्यैस्समायुक्तं प्रादक्षिण्य क्रमेण वा ॥ १८ ॥
शम्भोश्च दापयेत्पश्चात् नैवेद्यं धूपदीपकम्
रागं श्रीकामरं प्रोक्तं गीतन्देशिकमुच्यते ॥ १९ ॥
चण्डभिन्नाख्य तालञ्च आरूढाख्यञ्च नृत्तकम्
वाद्यं मृदङ्गमित्युक्तं नृत्तगीतैस्समन्वितम् ॥ २० ॥
सन्तुष्टं भगवन्ध्यात्वा सर्वसौभाग्यसम्पदम्
यागार्द्धान्ते त्यजेदान्तं चण्डेशाय प्रदापयेत् ॥ २१ ॥
एवं वै विधिना प्रोक्तं राजाविजयमाप्नुयात्
पुत्रार्त्थीलभते पुत्रम् अमुकान्तत्फलं भवेत् ॥ २२ ॥
मोक्षार्त्थी मोक्षमाप्नोति शिव एव न संशयः ॥ २३ ॥
इति चैत्रमासदान्तपूजापटलः पञ्चत्रिंशत्तमः