०३४ फाल्गुनमासदधिपूजापटलः

फाल्गुनमासदधिपूजापटलप्रारम्भः
अथ वक्ष्ये विशेषेण दधिपूजनमुत्तमम्
दधिमारोग्यसिद्ध्यर्त्थं सर्वाभीष्टप्रदायकम् ॥ १ ॥

पूर्ववत् यागशालाञ्च मद्ध्ये वेदिं प्रकल्पयेत्
वृत्तकुण्डञ्चरेत्पूर्वं चतुरश्राख्यमण्डलम् ॥ २ ॥

स्वर्णेन रजतेनैव कांस्यं मृत् घटमेव वा
वेदिका मद्ध्यमे कुम्भे चतुर्द्रोणं दधिक्षिपेत् ॥ ३ ॥

वर्द्धनी त्रयमित्युक्तं तस्यार्द्धं वा सुकुम्भके
सहस्रकलशांश्चैव द्विप्रस्थञ्च पृथक्पृथक् ॥ ४ ॥

पूर्ववत्परिवारांश्च घटान्पूज्यविशेषतः
मण्डले शिवमभ्यर्च्य उक्तमन्त्रेण होमयेत् ॥ ५ ॥

स्पर्शाहुतिन्ततः कृत्वा काष्ठैश्चन्दनवृक्षकैः
हुज्पनम् इति सञ्ज्ञेयः अपामार्गं समिद्धुनेत् ॥ ६ ॥

अभिषेकन्ततः कृत्वा गन्धतैलादिभिर्यजेत्
परिमार्जनोदकमित्युक्तं पूर्ववत्स्नानमाचरेत् ॥ ७ ॥

स्वर्णवस्त्रञ्च संयुक्तं मृगनाभी च संयुतम्
चन्दनालिप्तलिङ्गे च शङ्खपुष्पसमन्वितम् ॥ ८ ॥

महाद्रोणं बन्धुजीवं जाती च कुशपुष्पकम्
गोमेदाभरणं प्रोक्तं पत्रं वै सिन्धुवारकम् ॥ ९ ॥

शुद्धोदनञ्च नैवेद्यं व्यजनं श्रिङ्गिबेरकम्
लिकुचञ्च निवेद्याथ दीपं वै शीतिसङ्ख्यया ॥ १० ॥

उत्तमं शतदीपञ्च धूपञ्चैव ततश्शृणु
पूर्ववत् घृतसंयुक्तं धूपञ्चैव प्रकीर्तितम् ॥ ११ ॥

पूर्ववत् आमकुम्भञ्च सुवर्णजलमुत्तमम्
नालिकेरजलैर्युक्तं जलोदकमिहोच्यते ॥ १२ ॥

पटहं वाद्यमित्युक्तं गान्धारं कोल्लिमेव च
गीतं मुरारिसंयुक्तं लक्ष्मीतालं समीरितम् ॥ १३ ॥

पद्मपत्राख्यनृत्तञ्च वाद्यञ्चैव हिमाम्भसा
चन्दनैर्युक्तमाचम्य कर्पूरसहितं घृतम् ॥ १४ ॥

दधिपूजनमात्रेण नैवेद्यं धूपदीपकम्
अभिषिच्य ततः पश्चात्पूर्ववत्पूजनीय्यकम् ॥ १५ ॥

चण्डेश्वरं समभ्यर्च्य मद्ध्याह्ने पूजनं चरेत्

एवं यः कुरुते मर्त्यः सपुण्याङ्गतिमाप्नुयात् ॥ १६ ॥

इति फाल्गुनमासदधिपूजापटलश्चतुस्त्रिंशत्तमः