शिवरात्रिपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणुष्मशरवणोद्भव
शिवरात्रिव्रतं पुण्यं सर्वपापप्रणाशनम् ॥ १ ॥
राजराष्ट्राभिवृद्ध्यर्त्थं शिवज्ञानप्रदायकम्
माघफाल्गुनयोः कृष्ण चतुर्दश्यां शुभे दिने ॥ २ ॥
सौरमासे व्रतं कुर्यात् चान्द्रमानेन कारयेत्
सौरमानं यथा शम्भो चन्द्रवृद्धिदिनन्तथा ॥ ३ ॥
प्रथमादिनमारभ्य अमावास्यान्तिकं क्रमात्
त्रिंशद्दिनं प्रकुर्वीत चान्द्रमानमिहोच्यते ॥ ४ ॥
मेषादिराशिगमनं सौरमानं प्रशस्यते
सौरमाने विशेषोऽस्ति मासऋक्षप्रथानकम् ॥ ५ ॥
चैत्रर्क्षं मेषमासे तु चैत्रमासं प्रकीर्तितम्
विशाखर्क्षन्तु वृषभे वैशाख इति कथ्यते ॥ ६ ॥
मूलर्क्षं ज्येष्ठमासे तु मिथुने तु प्रशस्यते
उत्तराषाढकटकम् आषाढं परिकीर्तितम् ॥ ७ ॥
श्रविष्ठर्क्षं केसरी च श्रावणं परिकीर्तितम्
कन्न्यागते रविश्चैव उत्तरप्रोष्ठपन्तथा ॥ ८ ॥
एवं प्रोष्ठपदं प्रोक्तं तुलाराशिगते रविः
अश्विनी ऋक्षमेवोक्तम् आश्विजं परिकीर्तितम् ॥ ९ ॥
कृत्तिका ऋक्षयन्मासे कार्तिके च प्रकीर्तिकम्
आर्द्रा ऋक्षं प्रकुर्वीत मार्गशीर्षमिहोच्यते ॥ १० ॥
पुष्ययुक्तन्तु यन्मासं पुष्यमासं प्रकीर्तितम्
माघ ऋक्षन्तु यन्मासं माघमासं प्रकीर्तितम् ॥ ११ ॥
ऋक्षमुत्तरसञ्ज्ञेयः फाल्गुन्यमिति कत्थ्यते
पर्वसंयुक्तऋक्षञ्च तत्तन्मासाख्यमेव वा ॥ १२ ॥
यन्मासे कृष्णपक्षे च उत्तमं परिकीर्तितम्
अथवा परविद्धे च कर्तव्यं शिवरात्रिकम् ॥ १३ ॥
पूर्वविद्धान्त्यजेच्चैव सर्वकार्येषु सम्मतम्
तिथिद्वये तु सम्प्राप्ते मासादौ प्रथमे हनि ॥ १४ ॥
मासान्ते तु त्रयोदश्यां चतुर्दश्यायुतन्तु वा
पूर्वे तु कथितं श्रेष्ठम् अन्तं मद्ध्यममुच्यते ॥ १५ ॥
दिवात्रयोदशी चैव रात्रौ चैव चतुर्दशी
सारात्रिश्शिवरात्रिस्स्यात् उत्तमं परिकीर्तितम् ॥ १६ ॥
उदयाद्युदयान्तञ्च अहोरात्रञ्चतुर्दशी
उत्तमं शिवरात्रिः स्यात् पूजनीयं शिवस्य च ॥ १७ ॥
त्रयोदशी चतुर्दश्यां शिवरात्रिं प्रपूजयेत्
पारणन्तु चतुर्दश्यां विशेषं परिकीर्तितम् ॥ १८ ॥
आदौ त्रयोदशी चैव मद्ध्यमं च चतुर्दशी
अन्ते कुहूसमायुक्तं मद्ध्यमं परिकीर्तितम् ॥ १९ ॥
तद्दोषशमनार्त्थाय पञ्चास्त्रैश्च शतञ्जपेत्
पूजा —- पश्चात्पूजां समाचरेत् ॥ २० ॥
उदयाद्यस्तमनान्तञ्च चतुर्दशितिथिर्भवेत्
कुहूयुक्तञ्च तद्रात्रौ शिवपूजां विवर्जयेत् ॥ २१ ॥
पूर्वरात्रौ शिवं पूज्य सर्वकर्मार्हको भवेत्
पूर्वरात्रौ चतुर्दश्यां पञ्चादशविनाडिका ॥ २२ ॥
परे हनि निशी चैव पक्षसङ्ख्या च नाडिका
पूर्वरात्रौ प्रकर्तव्यं शिवरात्रिव्रतञ्चरेत् ॥ २३ ॥
पूर्वे त्रयोविंशत् नाडि नाडिका तत्र उच्यते
परे हनि चतुर्दश्यां पञ्चाशन्नाडिका तथा ॥ २४ ॥
ऊर्ध्वे कुहूसमायुक्तं मद्ध्यमं शिवरात्रिकम्
हरिश्रविष्ठवारीश ऋक्षसंयुक्ततद्दिने ॥ २५ ॥
तद्रात्रौ शिवपूजाञ्च अमादोषो न विद्यते
तद्दिने सोमवारं स्यात् त्रिकोटिशिवरात्रिकम् ॥ २६ ॥
तद्रात्रौ पूजयेत्पश्चात् उत्तमं शिवरात्रिकम्
केवलं कुहुयुक्तं वा मद्ध्यमं पूजयेच्छिवम् ॥ २७ ॥
तद्दोषशमनार्त्थाय पञ्चास्त्रैर्होमयेत्ततः
पृथक्पृथक्सहस्रञ्च हुत्वा पूजां समाचरेत् ॥ २८ ॥
एकदन्तकृतां पूजां त्रेतायां स्कन्दपूजितम्
आत्मभूर्द्वापरे पूजां कलौ सम्पूजयेद्धरिः ॥ २९ ॥
शिवपूजां प्रवक्ष्यामि नित्यपूजावसानके
चतर्य्यामं प्रकुर्वीत पुण्याहं वाचयेत्ततः ॥ ३० ॥
अष्टोत्तरशतञ्चैव स्नपनं पूर्वयामके
एकाशीतिघटं स्थाप्य द्वियामे पूजयेच्छिवम् ॥ ३१ ॥
घटमेकेन पञ्चाशत्स्नपनञ्च त्रियामके
पञ्चविंशत् घटान्स्थाप्य चतुर्यामं प्रपूजयेत् ॥ ३२ ॥
प्रथमे बिल्वपत्रैश्च द्वितीय्ये कुन्दमुच्यते
सुखपत्रैः प्रपूज्यैश्च कपित्थैश्च तृतीय्यके ॥ ३३ ॥
निर्गुण्डी च चतुर्यामे पत्रैरभ्यर्चनन्तथा
प्रथमे पञ्चगव्यञ्च पञ्चामृतं द्वितीयके ॥ ३४ ॥
फलोदकं तृतीये च गन्धतोयञ्चतुर्त्थके
प्रथमे रक्तवस्त्रन्तु द्वितीये पीतवस्त्रकम् ॥ ३५ ॥
तृतीये श्वेतवस्त्रञ्च चतुर्त्थे श्यामवर्णकः
वस्त्रभेदाः ————- प्रकीर्तिताः ॥ ३६ ॥
चन्दनञ्चैव कर्पूरं पूर्वयामे प्रपूजयेत्
अगरूञ्चैव कस्तूरीं द्वितीये पूजयेत्ततः ॥ ३७ ॥
यक्षकर्दमगन्धञ्च तृतीये पूजयेत्ततः
हिमाम्बुनाभितैलञ्च गन्धं वै तुर्ययामके ॥ ३८ ॥
पायसान्नं पूर्वयामे परमान्नं द्वितीयके
कृसरान्नं तृतीये च शुद्धान्नन्तु चतुर्त्थके ॥ ३९ ॥
चन्दनञ्चैव निर्य्यासं धूपं वै पूर्वयामके
कुङ्कुमं कुन्दुरुष्कञ्च द्वितीये पूजयेत्ततः ॥ ४० ॥
मेघञ्च कृष्णलोहञ्च तृतीये पूजयेत्ततः
कर्पूरञ्च लवङ्गञ्च चतुर्य्यामे प्रपूजयेत् ॥ ४१ ॥
प्रथमं पुष्पदीपं स्यात् द्वितीय्ये सप्तसङ्ख्यया
तृतीय्ये पञ्चसङ्ख्या च त्रिदलञ्च चतुर्त्थके ॥ ४२ ॥
रात्रिपूजां प्रकुर्वीत विघ्नेशं पूजयेत्ततः
पश्चाच्छिवं समभ्यर्च्य चतुर्त्थेषु पृथक्पृथक् ॥ ४३ ॥
प्रतियामं यजेच्चण्डं द्वारपूजान्न कारयेत्
उत्सवश्च बलिं हित्वा अग्निकर्मविवर्जयेत् ॥ ४४ ॥
मूलबेरे विशेषेण स्थिरासनं प्रपूजयेत्
अष्टपुष्पं समभ्यर्च्य भोगाङ्गन्तु विवर्जयेत् ॥ ४५ ॥
शर्कराराधनं पश्चात् चतुर्य्यामावसानके
केवलम् अर्द्धयामार्त्थम् अष्टपुष्पं समर्चयेत् ॥ ४६ ॥
नैवेद्यं धूपदीपञ्च पादुकाराधनं ततः
क्षेत्रपालं समभ्यर्च्य कवाटमरिबन्धनम् ॥ ४७ ॥
सद्योत्घाटनन्ततः पश्चात् नित्यकर्मसमाचरेत्
पूर्ववन्नित्यपूजाञ्च कारयेत् देशिकोत्तमः ॥ ४८ ॥
एवं वै शङ्करं पूज्य शिवसायुज्यमाप्नुयात्
इति शिवरात्रिपूजापटलस्त्रयस्त्रिंशत्तमः