माघमासघृतकम्बलपूजापटलप्रारम्भः
अथ वक्ष्ये विशेषेण सर्वज्ञानप्रदायकम्
मासे च कम्बलं पूज्य पुत्रपौत्राभिवर्द्धनम् ॥ १ ॥
कुम्भस्थरविमासे तु पौर्णम्यां सितपक्षके
माघऋक्षे माघमासे ————– ॥ २ ॥
उदयाद्युदयान्तञ्च ऋक्षं पर्वतसंयुतम्
उदयाद्यस्तमनान्तञ्च विंशति नाडिकाथवा ॥ ३ ॥
तद्दिने ऋक्षसंयुक्तं मासपूजां प्रकल्पयेत्
पूर्वोक्तयागं सङ्कल्प्य वेदिकां मद्ध्यमे चरेत् ॥ ४ ॥
कल्पयेत् श्रीविशालञ्च मण्डलं पञ्चवर्णकैः
गुणाश्रकुण्डं सङ्कल्प्य मेखला त्रयमुत्तमम् ॥ ५ ॥
ऐशान्ये वेदिकाङ्कृत्वा दशकुम्भञ्च मद्ध्यमे
शिवं सम्पूजयेत्कुम्भे स्वर्णपङ्कजमुत्तमम् ॥ ६ ॥
पुष्यरागं न्यसेन्मद्ध्ये पूर्वे वालङ्कृतं घटम्
मण्डले शिवमभ्यर्च्य पूर्ववत् अधिवासनम् ॥ ७ ॥
इन्धनं कुन्दशाखैश्च अश्वत्थं होमयेत्ततः
गोघृतं धान्यहोमश्च —- तुलसीदलम् ॥ ८ ॥
—पूर्ववत्कृत्वा वेणुबीजं न्यसेत्ततः
आचम्य निक्षिपेत् जम्बू पल्लवं परिकीर्तितम् ॥ ९ ॥
अर्घ्यं सिद्ध्यर्त्थकं पूज्य मूलबेरेऽभिषेचयेत्
तद्दिने तु विशेषेण कर्षयोदकमुच्यते ॥ १० ॥
धौतवस्त्रेण संवेष्ट्य विविधैर्वस्त्रपूरितम्
कर्षं गन्धेन संयोज्य लेपयेद्धृदयेन तु ॥ ११ ॥
स्फटिकं शतसङ्ख्या च मणिभिर्भूषितन्ततः
करवीरञ्च वकुलं शतपत्री तथैव च ॥ १२ ॥
बहुकर्णिका समभ्यर्च्य कम्बलञ्च ततश्शृणु
मेषं शक्तिमृगञ्चैव आपूरित्याख्यरोमकम् ॥ १३ ॥
श्वेतमेषञ्च रोमञ्च उत्तमं परिकीर्तितम्
कृष्णमेषन्त्यजेच्चैव विशेषं श्रुणु षण्मुख ॥ १४ ॥
कम्बलं पञ्चवर्णैश्च कृष्णदोषो न विद्यते
रोमजं कम्बलञ्चैव उत्तमं परिकीर्तितम् ॥ १५ ॥
दशहस्तसमं दीर्घं षट्वितस्ति च विस्तरम्
मद्ध्यमं सप्तहस्तं स्यात् पञ्चहस्तन्तु कन्यसम् ॥ १६ ॥
चित्रकम्बलमाख्यातं रक्तपीताञ्जनो हरिः
श्वेतनीलनिभञ्चैव चित्रकम्बलमुत्तमम् ॥ १७ ॥
चमरो मृगरोमश्च कन्न्यसं परिकीर्तितम्
घृतमष्टादशप्रस्थं द्वादशप्रस्थमेव वा ॥ १८ ॥
षट्प्रस्थमथवा कुर्यात्कम्बलं स्नापयेत्ततः
अलाभे द्रव्यहीने वा कार्पासं वस्त्रमेव वा ॥ १९ ॥
अधिवासनमेवोक्तं स्थापयेत्स्थलिकोपरि
गन्धपुष्पैरलङ्कृत्य कूर्चं मद्ध्ये च निक्षिपेत् ॥ २० ॥
परिचारकमाहूय विन्यसेत्तस्य मस्तके
तूर्य्यवाद्यैस्समायुक्तं गीतनृत्तैरलङ्कृतम् ॥ २१ ॥
शनैः प्रदक्षिणं कृत्वा पिञ्छचामरसंयुतम्
निराजनविधिं कृत्वा गर्भगेहे प्रवेशयेत् ॥ २२ ॥
लिङ्गे च वेष्टयेच्चैव बहुदीपैरलङ्कृतम्
गुलान्नन्तु निवेद्याथ अन्यैरपि निवेदयेत् ॥ २३ ॥
चूतं निष्पावसंयुक्तं व्यञ्जनं परिकीर्तितम्
औदुम्बरं समादाय त्रिपादीपूर्ववच्चरेत् ॥ २४ ॥
तन्मद्ध्ये सुषिरं कल्प्य मृत्कुम्भं मद्ध्यमे न्यसेत्
माषमात्रन्तु सुषिरं तन्मूले स्वर्णपुष्पकम् ॥ २५ ॥
कुम्भमद्ध्ये जलं क्षिप्य वस्त्रपूतं विशेषतः
तृणं पाटलिपुष्पञ्च रोचनामेलकन्तथा ॥ २६ ॥
वासनां कल्पयेत्पश्चात्सृगोदकन्निवेदयेत्
पूर्ववत् मुखवासञ्च जातीसहितदापयेत् ॥ २७ ॥
रागं गान्धारमित्युक्तं गीतं दशाक्षरी तथा
तालमट्टयमेवोक्तं प्रत्यालीढं सुनृत्तकम् ॥ २८ ॥
जर्झरीवाद्यमित्युक्तं मासपूजां समाचरेत्
त्रिपादोत्तरनाडी त्रि अन्ते पूजां समाचरेत् ॥ २९ ॥
घृतकम्बलमाहृत्य विसर्जनमतः परम्
पुनश्च स्नाननैवेद्यं पूर्ववत्कल्पयेत्ततः ॥ ३० ॥
एवं यः कुरुते मर्त्यः शिवदीक्षाफलं लभेत् ॥ ३१ ॥
इति माघमासघृतकम्बलपूजाविधिपटलः द्वात्रिंशत्तमः