०३१ पुष्यमासमधुपूजापटलः

पुष्यमासमधुपूजापटलप्रारम्भः
अथ वक्ष्ये विशेषेण मधुपूजाविधिक्रमम्
मकरस्थे दिवानाथे तन्मासे शुक्लपक्षके ॥ १ ॥

पुष्यऋक्षसमायुक्तं पर्वयुक्तं विशेषतः
खण्डिते यदि नक्षत्रे उदयात् षोडशनाडिका ॥ २ ॥

तद्दिने कारयेत्पूजामुत्तमं परिकीर्तितम्
एकमासे द्विनक्षत्रे द्विऋक्षे पूजयेच्छिवम् ॥ ३ ॥

एकमासे द्विपर्वे च ऋक्षयुक्ते विशेषतः
ऋक्षहीने तु पर्वे च न पूजां कर्त्तुमर्हसि ॥ ४ ॥

पूर्वञ्च यागशालाञ्च मद्ध्ये वेदिं प्रकल्पयेत्
तत्पूर्वे कुण्डमाकल्प्य अर्द्धचन्द्रं प्रकीर्तितम् ॥ ५ ॥

ऐशान्ये वेदिकाङ्कृत्वा दशकुम्भञ्च मद्ध्यमे
मक्षिकं बालमधुना उत्तमं परिकीर्तितम् ॥ ६ ॥

बृह्मन्मक्षिकमेवोक्तं मद्ध्यमं परिकीर्तितम्
सहस्रप्रस्थसंयुक्तं तस्यार्द्धं वा तदर्द्धकम् ॥ ७ ॥

अथवा शतसङ्ख्या च तस्यार्द्धं वा तदर्द्धकम्
शिवकुम्भे शिवं पूर्य षट्प्रस्थं शक्तिकुम्भके ॥ ८ ॥

आढकं वसुकुम्भे च प्रस्थं प्रस्थं तदन्यके
पङ्कजं रत्नसहितं सकूर्चं हेमपल्लवम् ॥ ९ ॥

ससूत्रन्नालिकेरञ्च वस्त्रधान्ये च संस्थितम्
पूर्वोक्तविधिना हुत्वा औदुम्बरसमिद्धुनेत् ॥ १० ॥

नीवारं होमयेच्चैव शेषं पूर्ववदाचरेत्
इन्धनं वकुला प्रोक्तम् अधिवासनपूर्वकम् ॥ ११ ॥

मण्डलेशं समभ्यर्च्य नैवेद्यं धूपदीपकम्
पाद्यं पूर्ववदेवोक्तं चन्दनन्तु विशेषतः ॥ १२ ॥

आचार्यबिल्वपत्रञ्च अर्घ्यन्तु यवमुच्यते
स्नानमाढ्योदकैर्युक्तं शेषं पूर्ववदाचरेत् ॥ १३ ॥

वस्त्रं कपिलमित्युक्तं गन्धम् अगरुमेव च
भूषणैराजतैर्युक्तं पुष्पं स्यात् श्वेतपद्मकम् ॥ १४ ॥

श्रियावर्त्तञ्च मन्दारं नन्द्यावर्तं समर्चयेत्
नैवेद्यं पायसञ्चैव व्यजनं कदली तथा ॥ १५ ॥

नालिकेरं प्रकल्प्याथ पानीयञ्च ततश्शृणु
शुद्धाम्बुवस्त्रपूतञ्च स्वर्णपात्रेषु निक्षिपेत् ॥ १६ ॥

एलालवङ्गकर्पूर चन्दनं मृगनाभिकम्
पानीय्यमिति विख्यातं कर्पूरं मुखवासकम् ॥ १७ ॥

अगरुन्धूपमेवोक्तं दीपञ्चैव ततश्शृणु
एकपात्रे विशेषेण अष्टोत्तरशतन्तु वा ॥ १८ ॥

कर्णिकाकृतिमद्ध्ये च तन्तुना मद्ध्यमे वलेत्
शेषं पूर्ववदाकृत्वा मेफरागं सुपाठितम् ॥ १९ ॥

गीतं वरालिकायाञ्च ————

तालं वै मल्लिकामोदं ————- ॥ २० ॥

नृत्तम् अशोकमित्युक्तं वाद्यं मद्दलमुच्यते
शिवसन्तुष्टमनसाद्ध्यात्वा चैव समाचरेत् ॥ २१ ॥

एवं वै मासपूजाञ्च आयुर्वर्द्धनमुत्तमम्
इष्टकाम्यार्त्थसिद्ध्यर्त्थं शिवसायुज्यमाप्नुयात् ॥ २२ ॥

इति पुष्यमासमधुपूजाविधिपटल एकत्रिंशत्तमः