आर्द्राव्रतलक्षणपटलप्रारम्भः
अथ वक्ष्ये विशेषेण आर्द्राव्रतस्य लक्षणम्
शुक्लपक्षे शुभे चैव मासऋक्षं प्रधानकम् ॥ १ ॥
पर्वयुक्तमयुक्तं वा शिवऋक्षप्रधानकम्
एकमासे द्विनक्षत्रे अन्त्यर्क्षे व्रतमाचरेत् ॥ २ ॥
पूर्वर्क्षे पर्वसंयुक्तम् अन्त्यर्क्षे तिथिवर्जितम्
अन्त्यर्क्षे दर्शनं कुर्यात् उत्तमन्तु प्रशस्यते ॥ ३ ॥
पूर्वर्क्षे पूजनं कुर्यात् यजमानो विनश्यति
अन्त्यर्क्षे पूजनं कृत्वा विशेषं श्रुणु षण्मुख ॥ ४ ॥
एकमासे द्विपर्वे च नक्षत्रे पर्वयुक्तके
अन्त्यर्क्षे व्रतपूजाञ्च उत्तमं परिकीर्तितम् ॥ ५ ॥
पर्वहीनद्वये ऋक्षे अन्त्ये व्रतमथाचरेत्
तिथिऋक्षे द्विवारे च ऋक्षप्राधान्यमेव च ॥ ६ ॥
द्विवारे खण्डिते ऋक्षे निशियुक्ते विशेषतः
उदयाद्यष्टनाडी च तद्दिने व्रतमाचरेत् ॥ ७ ॥
तद्दिने तीर्त्थमित्युक्तं पूर्वरात्रौ तु दर्शनम्
उदयाद्युदयान्तञ्च आर्द्रानक्षत्रमेव वा ॥ ८ ॥
तीर्त्थं व्रतञ्च मद्ध्याह्ने तद्रात्रौ स्नानदर्शनम्
पूर्वरात्रौ समारभ्य परे चास्तमनान्तकम् ॥ ९ ॥
आर्द्रऋक्षं प्रकुर्वीत पूर्वरात्राभिषेचनम्
व्रतं परे हनि चैव मद्ध्याह्ने तीर्त्थमाचरेत् ॥ १० ॥
सायाह्ने डोलपूजाञ्च चरेत् आर्द्रोत्सवं ततः
उदयाद्युदयान्तञ्च आर्द्रानक्षत्रमेव वा ॥ ११ ॥
तीर्त्थं व्रतञ्च मद्ध्याह्ने सायाह्ने डोलमाचरेत्
तद्रात्रौ कृष्णगन्धञ्च निशान्ते दर्शनन्तथा ॥ १२ ॥
अभिषेके निशी चैव आर्द्रान्तत्समये सति
उत्तमं स्नानमित्युक्तं सर्वकर्मशुभावहम् ॥ १३ ॥
पूर्वरात्रौ तु विंशत्यां नाडिकापर्वऋक्षकम्
परे हनि विशेषेण चत्वारिनाडिका तथा ॥ १४ ॥
रात्रौभिषेकं कुर्वीत अपरे व्रतमाचरेत्
नाडीकादशकं पूर्वे पञ्चाशन्नाडिकापरे ॥ १५ ॥
स्नानञ्च कृष्णगन्धञ्च दर्शनं पूर्वरात्रिके
व्रतं तीर्त्थञ्च डोला च पूजयेत्तु परे हनि ॥ १६ ॥
नाडिकापञ्चकं पूर्वे शेषऋक्षं परे हनि
पूर्वेऽभिषेचनं कृत्वा परे हनि व्रतञ्चरेत् ॥ १७ ॥
पञ्चाशन्नाडिकापूर्वे तस्योपरिविशेषतः
चतुःत्रयद्वेप्येका नाडिका आर्द्रऋक्षकम् ॥ १८ ॥
प्रभातात्पूर्ववृद्धिश्चेत्परे ह्रासं समाचरेत्
परे वृद्धिं पूर्वे ह्रस्वं कथं शम्भोस्सुपूजनम् ॥ १९ ॥
यः प्रातस्समयात्पूर्वं त्रिमुहूर्त्तन्तु निश्चयम्
पूर्वे वाथ परे वापि नाडिकां कत्थ्यते गुह ॥ २० ॥
पूर्वरात्रौ द्विनाडी च शेषनाड्यः परे हनि
अष्टोत्तरञ्च पञ्चाशत् नाडिकाकत्थ्यते ध्रुवम् ॥ २१ ॥
कथं पूज्य विशेषेण पूजयेद्दर्शनं परे
त्रिमुहूर्ते पूर्वरात्रौ आर्द्रानक्षत्रमेव वा ॥ २२ ॥
अष्टोत्तरञ्च पञ्चाशत् नाडिकाञ्च परे हनि
कथं सम्पूजयेत्पश्चात्पूर्वरात्रौ समाचरेत् ॥ २३ ॥
आर्द्रा च मृगशीर्षा च चतुर्दश्या च तद्दिने
व्याधिनापीडिते राष्ट्रं तस्मात्पूजां परे हनि ॥ २४ ॥
त्रयोदश्या चतुर्दश्या संयुते चैव तद्दिने
आर्द्राऋक्षन्तु सम्पूर्णम् उच्यते पूजनं कथम् ॥ २५ ॥
शान्तिं कृत्वा तु शमनं पश्चात् नृत्तेशमर्चयेत्
शुक्लपक्षे च षष्ठी च शतभिषक् ऋक्षसंयुतम् ॥ २६ ॥
विनायकव्रतं पूज्यं तद्दिने व्रतमुच्यते
षष्ठियुक्तमयुक्तं वा ऋक्षप्राधान्यमाचरेत् ॥ २७ ॥
शतभिषादिऋक्षान्तं गौरीव्रतं प्रकीर्तितम्
अपूपान्लड्डुकान्लाजान् गुलखण्डेक्षुखण्डकान् ॥ २८ ॥
अन्नं बहुविधैश्चैव विघ्नेशाय प्रदापयेत्
रात्रिपूजावसाने च रक्षाबन्धनमुत्तमम् ॥ २९ ॥
अङ्कुरं कल्पयेत्पश्चात् गौरी यानं समाचरेत्
रात्रिकाले महायानं दशरात्रं पृथक्पृथक् ॥ ३० ॥
अहनि वर्जयेद्यात्रां रात्रौ चैव समाचरेत्
पूर्वरात्रौ तु शफरं पिङ्गलं द्वितिये निशि ॥ ३१ ॥
तृतीये तु कपोतं स्यात् चतुर्त्थे सिह्ममुच्यते
पञ्चमे हंसयानञ्च षष्ठे शिबिकयन्त्रकम् ॥ ३२ ॥
सप्तमे समरभूपालम् अष्टमे वाजियन्त्रकम्
नवमे ऋषभञ्चैव दशमे पुष्पधामकम् ॥ ३३ ॥
दशमे दिवसे चैव आर्द्रादिनव्रतं श्रुणु
गौर्याश्चाभ्यङ्गनात्पश्चात् भक्तानां भावयेत्ततः ॥ ३४ ॥
नारीणाञ्च सुमङ्गल्याः अभ्यङ्गस्नानमाचरेत्
शालितण्डुलमाहृत्य पृष्ठं सम्यक्प्रकल्पयेत् ॥ ३५ ॥
त्रिपादं गुलसंयुक्तं तदर्द्धं नालिकेरकम्
तदर्द्धं मुद्गसंयुक्तम् अष्टांशम् आज्यसंयुतम् ॥ ३६ ॥
एलकं जीरकञ्चैव हिङ्गुं युक्त्वा प्रकल्पयेत्
गौरीञ्च दापयेत्पश्चात् भक्तानान्दापयेत्ततः ॥ ३७ ॥
पूर्वरात्रौ विशेषेण नटेशं भावनुज्ञया
पीठमुद्वासनञ्चैव पूर्वरात्रिं प्रकल्पयेत् ॥ ३८ ॥
कौतुकं बन्धयेत्पश्चात्स्नानकर्मपरे हनि
रात्रावष्टादशनाड्योर्ध्वे अभिषेकं समाचरेत् ॥ ३९ ॥
चतुरुत्तरपञ्चाशत् नाडिकोर्ध्वे निवेदयेत्
धूपदीपादिकं दत्वा दर्शनं कारयेत्ततः ॥ ४० ॥
प्रच्छन्नपटमानीय्य आर्द्राऋक्षप्रदर्शनात्
चतुरुत्तरपञ्चाशत् ऊर्ध्वे चैव द्विनाडिका ॥ ४१ ॥
उत्तमम् ऋक्षमित्युक्तं तदूर्ध्वे द्वौ च मद्ध्यमम्
तदूर्ध्वे नाडिके द्वे च अधमं परिकीर्तितम् ॥ ४२ ॥
आदौ तु दर्शनं मुख्यं कारयेत्साधकोत्तमः
पिपीलिकादिकश्चैव दर्शनात्पूर्वमेव वा ॥ ४३ ॥
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
पुनरादायगमनं ब्रह्मसन्ध्यन्तमुच्यते ॥ ४४ ॥
यामं गत्वा ततः पश्चात् अधिवासनपूर्वकम्
यक्षकर्दममादाय नटेशाय प्रदापयेत् ॥ ४५ ॥
जनानां शिवभक्तानां दापयेच्चण्डपूर्वकम्
ललाटे तिलकं कुर्यात्पश्चाद्वीधीप्रदक्षिणम् ॥ ४६ ॥
उदयात्पूर्वसमये देवो वीधी प्रदक्षिणम्
कर्तव्यमिति सञ्ज्ञेयः वर्जयेदुदयात्परम् ॥ ४७ ॥
अभावे विड्वरे वापि मृतं वा वृष्टिसम्भवम्
तत्काले तु कथं विद्यात् उदयानन्तरं गुह ॥ ४८ ॥
पादो न द्विमुहूर्तञ्च तावद्वीधीप्रदक्षिणम्
तस्योपरित्यजेत्कार्यम् उत्सवन्तु न कारयेत् ॥ ४९ ॥
मोहेन कारयेत्पश्चात् अभिचारसमं भवेत्
उत्सवन्तु विहीनश्चेत् अघोरास्त्रं शतं हुनेत् ॥ ५० ॥
डोलारोहक्रमं वक्ष्ये लङ्कृतं डोलमण्टपम्
कदली पूगपुन्नागचिकुरादिलङ्कृतम् ॥ ५१ ॥
चित्रवस्त्रैरलङ्कृत्य दिव्यपुष्पैरलङ्कृतम्
चतुस्तम्म्भसमायुक्तं शफराकृतिमुत्तमम् ॥ ५२ ॥
स्वर्णादिशृङ्खलं बध्वा पीठे त्वशमनं यजेत्
वीरशक्तिमलङ्कृत्य तूर्यवाद्यैस्समन्वितम् ॥ ५३ ॥
स्थिरासनं समभ्यर्च्य तस्योपरिनिवेशयेत्
तस्याग्रे भिमुखं स्थित्वा सोमास्कन्देश्वरं यजेत् ॥ ५४ ॥
धूपदीपादिकं कृत्वा गौरीमादाय मन्दिरम्
गत्वा सौभाग्य सिद्ध्यर्त्थं वक्ष्येऽहं डोललक्षणम् ॥ ५५ ॥
कदलीफलपूगैश्च नालिकेरैश्च चम्पकैः
करञ्जवृक्षशार्दूलयुगवर्षप्रमाणतः ॥ ५६ ॥
स्तम्भद्वयञ्च संस्थाप्य द्विशिखा कृतिमद्रुतम्
चन्दनं पनसैर्नीपञ्चङ्कुरुजैः कुञ्चरं चरेत् ॥ ५७ ॥
षट्करं दीर्घसंयुक्तं युगसङ्ख्या च मद्ध्यमम्
चतुर्विंशाङ्गुलं नाहम् अष्टाश्रं परिकीर्तितम् ॥ ५८ ॥
द्वादशाङ्गुलनाहं स्यात् व्रतञ्चैव द्विपार्श्वयोः
साष्टहस्तन्तु दीर्घं स्यात् षडङ्गुलघनं भवेत् ॥ ५९ ॥
द्वादशाङ्गुलविस्तारं पार्श्वाग्रे वृत्तमाकृतिम्
अग्रे तु सुषिरञ्चैव पार्श्वयोश्च षडङ्गुलम् ॥ ६० ॥
मद्ध्येष्टाङ्गुलविस्तारं द्वारञ्च चतुरश्रकम्
तदेवफलकं युग्मं संयुतं बन्धयेत्ततः ॥ ६१ ॥
तदेवयुग्मसंयुक्तं द्विपार्श्वे घट्टयेत्किल
कुपुरे पार्श्वयोर्बन्ध्य विमलं फलकायुतम् ॥ ६२ ॥
नाहमष्टाङ्गुलं प्रोक्तं षट्करन्दीर्घसंयुतम्
कुपुरं पञ्चभागं स्यात् द्विभागं पार्श्वयोस्त्यजेत् ॥ ६३ ॥
तस्यादौ सुषिरञ्चैव त्यङ्गुलं समुदाहृतम्
त्रियङ्गुलघनञ्चैव द्विकरं दीर्घमुच्यते ॥ ६४ ॥
त्रयेषुसुषिरेषुश्च त्रिकीलं घट्टयेत्ततः
षडङ्गुलन्तु विस्तारं त्रियङ्गुलघनं भवेत् ॥ ६५ ॥
कीलत्रयेषु सम्बन्ध्य हंसाङ्ख्यं परिकीर्तितम्
गणिकाष्टकसंयुक्तं रथाख्यं श्रुणुषण्मुख ॥ ६६ ॥
साष्टहस्तसमायाम द्विकरं दीर्घनाहकम्
अपर्वकतरुश्चैव पुरुषद्वयमायतम् ॥ ६७ ॥
तस्याग्रे करमानञ्च नाहञ्चैव प्रकीर्तितम्
षोडशं हस्तदीर्घञ्च एकस्तम्भं विधीय्यते ॥ ६८ ॥
पूर्वादिपश्चिमान्तं वा उत्तरादक्षिणान्तकम्
षडङ्गुलघनञ्चैव अष्टाङ्गुलसुविस्तरम् ॥ ६९ ॥
करं षोडशदीर्घं स्यात् फलकद्वयमुत्तमम्
मद्ध्ये तु सुषिरं विद्यात् द्विपूर्षोर्ध्वे तु बन्धयेत् ॥ ७० ॥
तन्मानं फलकायुग्मं पूर्वाग्रे पश्चिमाग्रके
तन्मानं फलकायुग्मं दक्षिणे उत्तराग्रयोः ॥ ७१ ॥
मद्ध्ये मद्ध्ये च सम्बद्ध्वा अग्रे अग्रे च बन्धयेत्
तस्योर्ध्वे करमानेन ऊर्ध्वे चतुविना तथा ॥ ७२ ॥
त्रिभागं पूर्ववत्कृत्वा ————-
तस्योर्ध्वे करमानेन पूर्ववच्च त्रयंशुकम् ॥ ७३ ॥
चतुरंशं विना चैव तस्योर्ध्वे पूर्ववच्चरेत्
कीलानग्रे तदग्रे च तदग्रे शृङ्गनिर्मितम् ॥ ७४ ॥
तस्योर्ध्वे मकुटं कल्प्य चित्रवस्त्रैरलङ्कृतम्
पतकं कोणस – षु ————- ॥ ७५ ॥
गणिकाहूय——— प्रथमे द्वादशन्तथा
द्वितीय्य अष्टकन्न्या च तृतीय्ये नरकसूत्रगम् ॥ ७६ ॥
भ्रामयेत् वै —- प्रादक्षिण्य क्रमेण वा
रथाख्यं कल्पयेत्पश्चात् —– विनिलं श्रुणु ॥ ७७ ॥
सुव्रतं ————————–
पूर्ववत्स्तम्भमालिख्य तस्याग्रे द्विशिखा कृति ॥ ७८ ॥
तन्मद्ध्ये चैव लिख्या च नारा च कृतिमुत्तमम्
त्रिदशस्तम्भदीर्घञ्च विंशाङ्गुलसुनाहकम् ॥ ७९ ॥
मद्ध्ये तु सुषिरं कल्प्य नाराचं मद्ध्यमे न्यसेत्
दण्डाग्रे शृङ्खलं बद्ध्य ऊर्ध्वोदुम्बरमद्ध्यमे ॥ ८० ॥
पार्श्वयोदुम्बराकारम् अधोदुम्बरमेव च
सम्बद्ध्य —— मद्ध्यमे श्रुणु ॥ ८१ ॥
अयसा चैव नाराचं —————-
द्विपार्श्वे ———— सक्तमद्ध्यमे ॥ ८२ ॥
मेखलाकृतिमद्ध्ये वा कटिमद्ध्यप्रदेशके
————— विनिलं डोलमुच्यते ॥ ८३ ॥
प्रादक्षिण्य क्रमेणैव चक्रभृङ्गन्ततश्शृणु
पूर्वोक्तस्तम्भसंयुक्तं तस्योपरिविशेषतः ॥ ८४ ॥
हंसडोलाकृतिश्चैव चतुःफलकसंयुतम्
चतूफलकसंयुक्तमष्टकीलन्तु पार्श्वयोः ॥ ८५ ॥
मद्ध्ये तु पुरसंयुक्तं तत्पार्श्वे बन्धयेद्ध्रुवम्
रज्जुनाबन्धयेन्मद्ध्ये किलासुश्छन्नभिन्न च ॥ ८६ ॥
गणिकाषट्कमद्ध्ये च वर्त्तुलं भ्रमराकृतिम्
नृत्तैर्बहुविधैश्चैव अङ्गमार्गेण यत्तथा ॥ ८७ ॥
डोलोत्सवमिदं प्रोक्तं सर्वकर्मफलप्रदम्
एवं ज्ञानेन सम्पूज्य सपुण्यां गतिमाप्नुयात् ॥ ८८ ॥
इति आर्द्राव्रतलक्षणपटलत्रिंशत्तमः