चापमासपूजा पटलप्रारम्भः
अथ वक्ष्ये विशेषेण चापमासे विशेषतः
मासपूजामहापुण्यं साक्षान्मोक्षप्रदायकम् ॥ १ ॥
प्रवक्ष्यामि समासाद्य भानौ शार्ङ्गं गते सति
तन्मासे शुक्लपक्षे तु सिनीवालिदिने तथा ॥ २ ॥
आर्द्रानक्षत्रयुक्तञ्च राजराष्ट्राभिवृद्धिदम्
पर्वयुक्तमयुक्तं वा ऋक्षप्राधान्यमेव वा ॥ ३ ॥
मद्ध्याह्नसमये प्राप्ते उदयास्तमनान्तकम्
उत्तमं मासपूजाञ्च विंशन्नाडीमथापि वा ॥ ४ ॥
अथवा षोडशानाडी तद्दिने पूजयेच्छिवम्
नोचेत्पूर्वदिने कृत्वा मासपूजाविधीय्यते ॥ ५ ॥
एकमासे द्विनक्षत्रे मासपूजा द्वयेऽपि वा
पूर्वोक्तयागं सङ्कल्प्य मद्ध्ये वेदं प्रकल्पयेत् ॥ ६ ॥
स्वस्तिकं मण्डलञ्चैव तोरणान्मङ्गलान्यजेत्
तत्पूर्वे योनिकुण्डन्तु पूर्ववत्परिकल्पयेत् ॥ ७ ॥
ऐशान्ये वेदिकायाश्च उपवेदीं प्रकल्पयेत्
हेमशाली महाशाली अष्टद्रोणं प्रपूजयेत् ॥ ८ ॥
द्रोणमात्रन्तिलञ्चैव मुद्गमाषञ्च निम्बकम्
गोधूमं वैणवञ्चैव निष्पावं सर्षपन्तथा ॥ ९ ॥
शिवं पृथक्पृथक्चैव पद्ममष्टदलं लिखेत्
त्रिदिनं नवनीतञ्च गोघृतन्दाहयेत्ततः ॥ १० ॥
वस्त्रपूतं घृतं ह्रत्य शिवकुम्भे शिवन्तथा
पूरयित्वा विशेषेण स्वर्णकुम्भे तु पूरयेत् ॥ ११ ॥
अथवा राजतेनैव ताम्म्रेणैव प्रपूरयेत्
अथवा मृत् घटे वापि शिवकुम्भपरिव्रतान् ॥ १२ ॥
षट्प्रस्थं वर्द्धनीञ्चैव आढकं वसुसङ्ख्यया
तन्तुनापञ्चवर्णेन वेष्टयेद्वर्द्धनीं श्रुणु ॥ १३ ॥
त्रिसूत्रं वेष्टयेच्चैव शेषांश्चैव द्विसूत्रकम्
वेष्टयेद्दक्षिणावर्तं नवरत्नन्तु निक्षिपेत् ॥ १४ ॥
मद्ध्यमं पञ्चरत्नञ्च रत्नत्रयमथापि वा
शिवकुम्भे विनिक्षिप्य नवमेककमेव वा ॥ १५ ॥
शिवकुम्भस्य मद्ध्ये तु स्वर्णपङ्कजमुत्तमम्
वर्द्धनीमद्ध्यमे चैव स्वर्णनीलोत्पलञ्चरेत् ॥ १६ ॥
राजतं पद्मपुष्पञ्च अन्येषां कुम्भमद्ध्यमे
स्वर्णेन रजतेनैव चरेच्चूतदलाकृतिम् ॥ १७ ॥
स्तबकन्दलसङ्ख्या च तन्मद्ध्ये सापिधानकम्
उपरीनालिकेरञ्च कूर्चमद्ध्ये विनिक्षिपेत् ॥ १८ ॥
मस्तके लम्बकूर्चञ्च रक्तवस्त्रेण वेष्टयेत्
तस्योपरिविशेषेण धौतवस्त्रेण वेष्टयेत् ॥ १९ ॥
कर्पूरवस्त्रमित्युक्तं गन्धपुष्पैरलङ्कृतम्
विद्येश्वरघटान्वस्त्रं वेष्टयेत्तु पृथक्पृथक् ॥ २० ॥
स्वर्णेन रजतेनैव ताम्रेणैव प्रकल्पयेत्
प्रथमं पूरयेच्चैव सहस्रकलशान् चरेत् ॥ २१ ॥
सितशाली हेमशाली प्रस्थञ्चैव पृथक्पृथक्
परिवारघटान्स्थाप्य पूर्वे वालङ्कृतन्तथा ॥ २२ ॥
गोघृतेनैव सम्पूर्य अधिवासनमारभेत्
शिवं सम्पूजयेत्पश्चात् तत्तन्नाम्ना प्रपूजयेत् ॥ २३ ॥
सहस्राहुतिमेवोक्तं वर्द्धन्यास्तु तदर्द्धकम्
शतं विद्येश्वरांश्चैव अन्येषां सप्तविंशतिम् ॥ २४ ॥
पाद्यद्रव्यसमायुक्तं विशेषमुशिरं क्षिपेत्
आचम्यपूर्ववत्कृत्वा तुलसीं मद्ध्यमे न्यसेत् ॥ २५ ॥
अर्घ्यन्तु पूर्ववत्कृत्वा तण्डुलम्मद्ध्यमे न्यसेत्
मूलबेरे विशेषेण स्नानं कान्तोदकं भवेत् ॥ २६ ॥
वस्त्रं कर्पूरसंयुक्तम् उशीरं गन्धसंयुतम्
भूषणं काञ्चनैर्युक्तं द्रोणपुष्पन्तथैव च ॥ २७ ॥
मन्दारञ्चैव पुन्नागं श्वेतार्कञ्चैव पूजयेत्
धूपं कुङ्कुमसंयुक्तं दीपञ्चाशीति सङ्ख्यया ॥ २८ ॥
निवेद्य चाथमुद्गान्नं व्यञ्जनम् आम्रमेव च
कारवल्ली च संयुक्तं पानीयञ्च ततश्शृणु ॥ २९ ॥
कुहूः पृथ्वीनामयत्र तत्तीरे जातयेत् जलम्
सङ्गृह्यस्वर्णपात्रे च कुम्भोद्भवं प्रकीर्तितम् ॥ ३० ॥
पानीय्यमिति विज्ञेयः मुखवासन्ततश्शृणु
पूर्ववन्मुखवासञ्च लवङ्गञ्चैव संयुतम् ॥ ३१ ॥
रागं गान्धारमेवोक्तं गीतं द्राविडमुच्यते
तालमट्टयसंयुक्तं नृत्तं वैष्णवमुच्यते ॥ ३२ ॥
वाद्यं भेरीन्तु सन्ताड्य दूर्वापत्रसमन्वितम्
मधूकं बन्धनं प्रोक्तं श्रीवृक्षसमिधाहुनेत् ॥ ३३ ॥
शेषं पूर्वोक्तवत्कल्प्य होमयेत् शान्तिकर्मणि
क्रमेण कलशान्ग्राह्य मूलबेरेऽभिषेचनम् ॥ ३४ ॥
उष्णाम्बुना च संस्नाप्य धौतवस्त्रेण वेष्टयेत्
गन्धपुष्पैरलङ्कृत्य नैवेद्यं धूपदीपकम् ॥ ३५ ॥
स्तोत्रं सङ्गीतनृत्तञ्च सन्तुष्टं परिकल्पयेत्
एवं यः कुरुते मर्त्यः सायुज्यपदमाप्नुयात् ॥ ३६ ॥
इति चापमासपूजापटल एकोनत्रिंशत्तमः