धनुर्मास उषःकालपूजापटलप्रारम्भः
अथ वक्ष्ये विशेषेण उषःकाले शिवार्चनम्
शृणुष्वच महासेन सर्वानुग्रहकारणम् ॥ १ ॥
चापं प्राप्ते सवितरि प्रत्यूषे पूजयेच्छिवम्
नराणाञ्च क्वचित्कालम् एकसन्धिदिनं प्रति ॥ २ ॥
चैत्राणां माससन्धिञ्च देवानामपिसन्धि च
घटिकापञ्चकं मासम् अब्दञ्च षष्टिसङ्ख्यया ॥ ३ ॥
उषः प्रातश्च मद्ध्याह्नं सायाह्ने चार्द्धयामके
मार्गशीर्षे च मासे तु उषः कालं प्रशस्यते ॥ ४ ॥
त्रिंशद्दिनमुषः कालं दिनाधिक्यन्तु वर्जयेत्
एकोनत्रिंशदिवसं कथं शम्भो विशेषतः ॥ ५ ॥
पूर्वमासे मिलित्वा च दिनमेकं शिवार्चनम्
त्रिंशद्दिनं प्रकुर्वीत उषःकालं प्रशस्यते ॥ ६ ॥
मकरस्थे दिवानाथे प्रथमे दिवसे तथा
प्रातः काले प्रकुर्वीत मेषे च प्रथमे हनि ॥ ७ ॥
सङ्क्रान्तौ पूजनञ्चैव मद्ध्याह्नमभिधीयते
भानौ कर्कटके प्राप्ते तद्दिने पूजनन्तथा ॥ ८ ॥
तुलाराशिगते भानौ तद्दिने चार्द्धयामकम्
चतुः कालन्तु देवानां पूजनं शङ्करस्य च ॥ ९ ॥
मद्ध्याह्ने सङ्क्रमं गत्वा कथं पूजामनुष्ठितम्
रात्रौ चैव उषे भानौ उत्तमं परिकीर्तितम् ॥ १० ॥
प्रातःकाले च मद्ध्याह्ने प्रदोषे सङ्क्रमं यदि
पूजाकाले अकाले वा उषः कालाख्यपूजनम् ॥ ११ ॥
त्रिंशद्दिनसमं ज्ञेयः दिने पूजां प्रदापयेत्
एकत्रिंशद्दिनं प्रोक्तं हित्वा सङ्क्रमितं दिनम् ॥ १२ ॥
चान्ते कवासरं स्थानं द्रव्यं ———
समादाय पृथक्कालं पूजयेच्च यजेद्गुरुः ॥ १३ ॥
एकोनत्रिंशद्रात्री च मिलित्वा दिनमेव वा
त्रिंशद्दिनं प्रकुर्वीत पूजयेत्साधकोत्तमः ॥ १४ ॥
सहस्रदिनपूजाञ्चेत् फलमेकत्र सन्धिषु
प्रभाते पूर्वमुत्थाय न्यूनं वै पञ्चनाडिका ॥ १५ ॥
मलमूत्रपुरीषादीन्कृत्वा शौचं यथोक्तवत्
दन्तशोधनकं कृत्वा भस्मस्नानं विधीयते ॥ १६ ॥
मानसं मन्त्रमुच्चार्य मन्त्रानुष्ठानकं विना
दशवारं जपेच्चैव पञ्चाक्षरमिहोच्यते ॥ १७ ॥
धौतवस्त्रोत्तरीय्यश्च आचम्यविधिना बुधः
आत्मशुद्धिं विना चैव हित्वा च मन्त्रशुद्धिदम् ॥ १८ ॥
अन्तर्यागं विना चैव द्वारपूजान्न कारयेत्
हित्वानुज्ञाञ्च गुरुणा स्थिरासनं न कारयेत् ॥ १९ ॥
हित्वा भोगाङ्गयजनं चण्डेशयजनं विना
बलिं विना कृत्शानोश्च हित्वा शेषं समाचरेत् ॥ २० ॥
स्नपनं कारयेत्तत्र अर्चयित्वा विशेषतः
पञ्चामृतैः पञ्चगव्यैः पूर्वोक्तविधिनाचरेत् ॥ २१ ॥
शनैर्गत्वा गर्भगेहं निर्माल्यञ्च विसर्जनम्
लिङ्गशुद्धिं ततः कृत्वा आसनं मूर्तिमूलकम् ॥ २२ ॥
अष्टपुष्पं समभ्यर्च्य अभिषेकं समाचरेत्
धौतवस्त्रेण संवेष्ट्य गन्धपुष्पैरलङ्कृतम् ॥ २३ ॥
दद्ध्योदनं सिन्धुयुक्तं सम्मिश्रं नागरेण च
आज्यमेलकसंयुक्तं जम्बीरफलसारकम् ॥ २४ ॥
एतान्याश्रित्य विधिना मन्दोष्णं परिपूरितम्
पूर्वोक्तविधिवच्छाखां रसवर्गफलादिकम् ॥ २५ ॥
शृङ्गिबेरं विशेषेण लताकन्दम्पचेदथ
क्षीरं दधिघृतञ्चैव गुलखण्डेन्दुखण्डकान् ॥ २६ ॥
नैवेद्यन्तु पुराकृत्वा निर्माल्यपरिशोधनम्
धूपञ्च दीपमेवोक्तं कर्पूरारात्रिकञ्चरेत् ॥ २७ ॥
भस्मदर्पणछत्रञ्च व्यजनं तालवृन्तकम्
पाद्यमाचमनार्घ्यञ्च दापयेत्तच्छिवाय च ॥ २८ ॥
देव्यालयं ततो गत्वा पूजाकर्मसमाचरेत्
महेश्वरादिबेराणां परिवारार्चनं विना ॥ २९ ॥
गजाननवृषस्कन्ददक्षिणाकमलारविः
वटुकोमातरश्चण्डस्तेवर्ज्यास्स्युर्गुहोषसि ॥ ३० ॥
यजनं परिवाराणां कथं शम्भो दिने तथा
प्रातःकाले च मद्ध्याह्ने सायाह्ने पूजनं शुभम् ॥ ३१ ॥
प्रातः काले यजेत्सूर्यं गणेशं पूजयेत्ततः
महेश्वरादिबेराणां पूजनीयं यथा भवेत् ॥ ३२ ॥
परिवाराश्च देवानाम् अभिषिच्याप्यलङ्कृतम्
मूललिङ्गे विशेषेण पूजाकर्मसमाचरेत् ॥ ३३ ॥
पूर्वं गणेशनैवेद्यं मूलबेरस्य तत्परम्
महेशानन्निवेद्याथ अन्येषाञ्च निवेदयेत् ॥ ३४ ॥
पश्चान्निवेद्यगौर्याश्च उपचारान्यथोक्तवत्
धूपदीपादिकन्दत्वा बलिङ्कृत्वा ततः परम् ॥ ३५ ॥
हुताशनं समभ्यर्च्य नित्योत्सवमतः परम्
चण्डेशयजनं पश्चात्प्रातःकाले विधीयते ॥ ३६ ॥
मद्ध्याह्नसमये प्राप्ते स्नपनं पञ्चगव्यकम्
द्वारपूजां प्रकल्प्याथ वास्तुनाधं समर्चयेत् ॥ ३७ ॥
लिङ्गशुद्धिं ततः कृत्वा स्थिरासनं प्रपूजयेत्
अभिषेकन्ततः कृत्वा गन्धपुष्पैरलङ्कृतम् ॥ ३८ ॥
भोगाङ्गं पूजयेत्पश्चात् नैवेद्याद्युपचारकम्
गौरी पूजां ततः कृत्वा चण्डान्तं पूजयेत्ततः ॥ ३९ ॥
नटेशं पूजयेत्पूर्वं नैवेद्यं धूपदीपकम्
मूलबेरस्य नैवेद्यं धूपदीपादिकञ्चरेत् ॥ ४० ॥
महेश्वरादिबेराणां गौर्याश्चैव निवेदनम्
उपचारान्समभ्यर्च्य देहशुद्धिं समाचरेत् ॥ ४१ ॥
स्नपनं कारयेत्पश्चात् द्वारपूजां विधीयते
मूलबेरञ्च संस्नाप्य नैवेद्यञ्च ततः परम् ॥ ४२ ॥
राजोपचारमार्गेण पूजयित्वा यथाक्रमम्
मद्ध्ये सर्वत्र नैवेद्यं पार्वती चण्डभैरवम् ॥ ४३ ॥
नैवेद्यन्तु ततः पश्चात् उपचारान्तथैव च
हुताशनं समभ्यर्च्य नित्योत्सवमतः परम् ॥ ४४ ॥
अर्द्धयामं प्रकुर्वीत स्नपनं पञ्चगव्यकम्
पञ्चामृतं प्रकल्प्याथ द्वारपूजान्नकारयेत् ॥ ४५ ॥
चलासनं समभ्यर्च्य स्नाननैवेद्यकर्म च
धूपदीपादिकन्दत्वा गौरीञ्चैव निवेदयेत् ॥ ४६ ॥
पादुकाराधनं पश्चात् क्षेत्रपालं समर्चयेत्
षट्कालं पञ्चकालं वा युगकालं समर्चयेत् ॥ ४७ ॥
त्रिकालमेककालं वा पूजयेत्तु विशेषतः
त्रिकालं होमयेच्चैव त्रिकालं बलिमाचरेत् ॥ ४८ ॥
कालत्रयोत्सवञ्चैव अन्यकालेषु वर्जयेत्
एवं कृत्वा विशेषेण सपुण्यां गतिमाप्नुयात् ॥ ४९ ॥
इति धनुर्मास उषःकालपूजापटल अष्टाविंशतिः