०२७ कृत्तिकामासपूजापटलः

कृत्तिकामासपूजापटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि कृत्तिकामासपूजनम्
कृत्तिकापर्वसंयुक्तं —— विशेषतः ॥ १ ॥

पूर्व ऋक्षं दिवारे च तदृक्षे पूजयेच्छिवम्
द्विवारे खण्डिते ऋक्षे यद्दिने निशि संयुतम् ॥ २ ॥

दिवाकाले परेऽह्निस्स्यात्पूजयेत्तु परे हनि
उदयाद्यस्तमानान्तं तद्दिने पूजयेच्छिवम् ॥ ३ ॥

यद्दृक्षमस्तमनात्पूर्वं दशनाडियुतन्तु वा
परे विंशतिनाडी स्यात्पूर्वे चैव समाचरेत् ॥ ४ ॥

यद्दिने स्तमनात्पूर्वं त्रिमुहूर्तन्तु कृत्तिका
तत्काले मासपूजाञ्च उत्तमं श्रुणु षण्मुख ॥ ५ ॥

रविरस्तमनात्पूर्वं त्रिमुहूर्तं विशेषतः
घटिका च चतुर्विंशत्युपरि त्रिमुहूर्तके ॥ ६ ॥

आदौ मद्ध्ये तदन्ते च उत्तमामद्ध्यमाधमा
पूर्वयुक्तं विशेषेण उत्तमं परिकीर्तितम् ॥ ७ ॥

पूर्वयुक्तं विहीने तु ऋक्षप्राधान्यमेव वा
पर्वन्तु रोहिणी युक्तं भरणी सहितन्तु वा ॥ ८ ॥

तद्दिने मासपूजाञ्च प्राणहीनशरीरवत्
कार्तिक्यां पर्वसंयुक्तम् उत्तमं परिकीर्तितम् ॥ ९ ॥

एकमासे द्विनक्षत्रे द्विऋक्षे पूजयेत्ततः
मासपूजां प्रवक्ष्यामि सायाह्ने पूजनं शुभम् ॥ १० ॥

शिवाग्रे यागशालाञ्च महास्नपनमण्टपे
वेदिका मद्ध्यमे चैव सर्वतो भद्रमण्टपम् ॥ ११ ॥

तत्पूर्वे कुण्डमेवन्तु चतुरश्रं प्रकल्पयेत्
ऐशान्ये वेदिकां कृत्वा स्नपनार्त्थं घटं दश ॥ १२ ॥

पूर्ववच्छिवमभ्यर्च्य मण्डलेश्वरमर्चयेत्
पूर्वोक्तविधिनाहुत्वा औदुम्बरसमिद्धुनेत् ॥ १३ ॥

मुद्गं हुत्वा विशेषेण ऋतञ्चैव समिद्धुनेत्
अन्यत् द्रव्याणि सर्वाणि पूर्ववत्परिकल्पयेत् ॥ १४ ॥

सितशाली हेमशाली महाशाली सुशालिनी
पृथुकं पूर्ववत्कल्प्य पाचयेल्लाजमुत्तमम् ॥ १५ ॥

चतुरश्रं शङ्कराय भूतांशं नालिकेरकम्
शिवस्य कुडुपार्द्धञ्च मरीचिकृसरन्तथा ॥ १६ ॥

तत्समम् एलकञ्चैव जीरकन्तु तदेव वा
सम्मिश्र्यस्वर्णपात्रे च राजतं ताम्रपात्रके ॥ १७ ॥

सहस्रप्रस्थसंयुक्तं पञ्चाशतन्तु मद्ध्यमम्

तस्यार्द्धं शतसङ्ख्या च अधिवासनपूर्वकम् ॥ १८ ॥

पञ्चाशतन्तु मूलेन होमयेत्तु ततः परम्
अधिवासनकर्मापि कारयेत्साधकोत्तमः ॥ १९ ॥

वृषपृष्ठे च वीराग्रे गोपुराग्रे तथैव च
वास्तु मद्ध्येन्द्रसन्धौ च पञ्चशालाग्रमद्ध्यमे ॥ २० ॥

शिवाग्रे स्थापयेद्दण्डं खादिरं चम्पकन्तथा
नालिकेरञ्च बिल्वञ्च वेणुं वा यज्ञवृक्षकम् ॥ २१ ॥

अर्जुनं शिंशुपञ्चैव मधूकं वकुलन्तथा
तालन्तमालहिन्तालं करञ्जं देवदारुकम् ॥ २२ ॥

सत्वरं छिद्रपुष्पञ्च दीपदण्डतरुन्तथा
अवक्रं निर्व्रणं स्निग्धम् ऋजुं वा दण्डमाहरेत् ॥ २३ ॥

अतिदीर्घं नातिह्रस्वं न भिन्नं परिकीर्तितम्
अतिबालमतिवृद्धं तरुं बहुबलिन्त्यजेत् ॥ २४ ॥

बालवृद्धं कथं शम्भो वक्ष्ये श्रुणु षडानन
पञ्चाशत् शतवर्षञ्च पादमायुष्यमीरितम् ॥ २५ ॥

बाला च ग्रामनाशञ्च वृद्धायुर्निधनं भवेत्
यौवनं श्रेष्ठमित्युक्तं प्रासादाग्रसमन्तु वा ॥ २६ ॥

गोपुरान्तं वृषस्यान्तं नाडिकान्तमथापि वा
गलपद्मदलान्तं वा अतिह्रस्वञ्च मन्दिरम् ॥ २७ ॥

दार्वष्टसप्तहस्तैर्वा दीपदण्डप्रमाणतः
पञ्चविंशति हस्तान्तम् उत्तमं परिकीर्तितम् ॥ २८ ॥

त्रिंशदङ्गुलनाहञ्च उत्तमं परिकीर्तितम्
दण्डन्तु हस्तभागञ्च एकांशं भूमिवेशनम् ॥ २९ ॥

षट्त्रिंशत्सुषिरं मद्ध्ये चतुर्विंशति षोडश
छिन्नभिन्नन्तु सुषिरं तन्मद्ध्ये किलजायते ॥ ३० ॥

आमूलाग्रं किलालिख्य चक्राकारन्तु बन्धयेत्
चक्राकारञ्च यष्टिञ्च यष्टिं कीलञ्च बध्नियात् ॥ ३१ ॥

दण्डस्य च चतुर्दिक्षु दृढयष्टिं सुयोजयेत्
तेष्वग्रे बन्धयेच्छाखां दण्डाग्रे मद्ध्यमे तथा ॥ ३२ ॥

दीपाधारञ्च निम्नं स्यात् निचुलाकृतिमुत्तमम्
नालिकेरसुवर्णञ्च खर्जूरी तालपत्रकम् ॥ ३३ ॥

क्रमुकं कदलीपर्णं केतकीपर्णमेव वा
यष्ट्यग्रे बन्धयेच्छुष्कं धौतवस्त्रेण वेष्टयेत् ॥ ३४ ॥

चित्रवस्त्रैरलङ्कृत्य स्थूललिङ्गाकृतिर्भवेत्
यष्टिहीने महाव्याधिः पत्रहीने धनक्षयम् ॥ ३५ ॥

चित्रहीने दरिद्रं स्यात् तन्मूले वेदिकां कुरु
पर्णोपरिवेष्टितं वस्त्रं सर्वकामफलप्रदम् ॥ ३६ ॥

पूर्वे वा दक्षिणे वापि द्वारं कल्प्य विशेषतः
त्रिर्द्वारेकन्तुविस्तारं द्विगुणायाममुच्यते ॥ ३७ ॥

दण्डमूले चित्रदीपं सहस्रञ्च तदर्द्धकम्
तदर्द्धं शतदीपञ्च दण्डमूलावलङ्कृतम् ॥ ३८ ॥

स्तम्भस्य च चतुर्दिक्षु शरावं विन्यसेत्ततः
द्रोणं द्रोणार्द्धकं वापि तस्यार्द्धं वाज्यपूरितम् ॥ ३९ ॥

महादीपं प्रकुर्वीत गोपुरे च ततश्शृणु
प्रासादमण्टपे चैव बहुदीपैरलङ्कृतम् ॥ ४० ॥

परिवारालये ग्रे च प्रत्येकं दीपमण्टपम्
नवहस्तं षट्करं स्यात्त्रिहस्तं पूगवृक्षकैः ॥ ४१ ॥

तस्याग्रे दीपमारोप्य श्रुणुष्व गोपुराद्बहिः
द्विपार्श्वे गोपुरे दण्डान् त्रिकरञ्च चतुःकरम् ॥ ४२ ॥

द्विकरायाममेवोक्तं चतुरङ्गुलनाहकम्
अग्रे कांस्ये नवा कल्प्य अयसानिर्मितन्तथा ॥ ४३ ॥

त्रियङ्गुलन्तु विस्तारं घातं तद्विगुणं भवेत्
तन्मद्ध्ये वस्त्रमावेष्ट्य एकं वा द्विशिखाकृतिम् ॥ ४४ ॥

त्रिशिखां वा पञ्चशिखां षट्शिखान्दीपमुच्यते
घृतन्निक्षिप्य ज्वलनं द्विपार्श्वे बह्वलङ्कृतम् ॥ ४५ ॥

नक्षत्रमालामार्गेण गर्भगेहे तु दापयेत्
दीपन्निश्चित्य दिवसा त्रिरात्रावङ्कुरार्पणम् ॥ ४६ ॥

मण्टपे वेदिका मद्ध्ये दश कुम्भं न्यसेत्ततः

शिवमावाह्य सम्पूज्य होमङ्कृत्वा विशेषतः ॥ ४७ ॥

पञ्चब्रह्मसुमन्त्रेण पञ्चपात्रेषु दीपकम्
गोघृतेनैव सम्पूज्य आज्यानां दीपमुत्तमम् ॥ ४८ ॥

दण्डमूले शुचिर्भूत्वा रक्षाबन्धनमुत्तमम्
अपरे चैव सायाह्ने उमास्कन्देश्वरं यजेत् ॥ ४९ ॥

रक्षाबन्धनमेवोक्तं पूर्वरात्रौ प्रकल्पयेत्
अपरे चैव सायाह्ने देवमादाय यन्त्रके ॥ ५० ॥

दण्डाग्रे स्थापयेद्देवं पुण्याहं वाचयेत्ततः
मूलबेरे विशेषेण लाजपूजां समाचरेत् ॥ ५१ ॥

पश्चाद्दीपं समादाय स्थापयेत् दण्डसन्निधौ
निराजनविधिं कृत्वा स्वस्तिसूक्तसमन्वितम् ॥ ५२ ॥

तूर्यवाद्यैश्च संयुक्तं दीपालङ्कृतमुत्तमम्
दण्डे रुद्रं समभ्यर्च्य गव्यपञ्चामृतैरपि ॥ ५३ ॥

गन्धाम्बुनाघटान्स्थाप्य पूजयेच्च सदाशिवम्
द्वात्रिंशत्प्रस्थमाज्यञ्च तस्यार्द्धञ्च तदर्द्धकम् ॥ ५४ ॥

तदर्द्धं वा क्षिपेत्पात्रे गोघृतेनैव पूरयेत्
पञ्चदीपं समादाय एकपात्रे च योजयेत् ॥ ५५ ॥

ग्रामप्रदक्षिणङ्कृत्वा सोमास्कन्देश्वरेण च
दीपमारोपयेद्दण्डे पात्रमग्रे च दापयेत् ॥ ५६ ॥

शिवाग्निनाचतुर्दिक्षु ज्वलनं दाहयेत्ततः
ज्वालां लिङ्गं विभाव्यञ्च अग्निशून्यं विचार्यताम् ॥ ५७ ॥

पञ्चभागं प्रकल्प्याथ त्रिभागम् ऊर्ध्वदेशके
द्विभागश्च तयोर्मद्ध्ये दण्डं छित्वा तु तत्क्षणे ॥ ५८ ॥

दण्डछेदयित्वानोचेत् राक्षसैश्च सुरैरपि
पूजयेत्तत्क्षणेनैव सर्वकर्म तु निष्फलम् ॥ ५९ ॥

तस्मात् छित्वा त्यजेद्दण्डं पपातपूर्वदेशके
राजराष्ट्राभिवृद्ध्यर्त्थम् आग्नेय्यां मरणं ध्रुवम् ॥ ६० ॥

याम्ये चोरभयन्दत्वा नैर्ऋते राजविड्वरम्
पश्चिमे मोक्षसिद्ध्यर्त्थं वायव्ये ज्ञाननाशनम् ॥ ६१ ॥

उत्तरे श्रीप्रदं विद्यात् ईशाने तु बलक्षयम्
पतने तु ततः पश्चात् तत् भस्मग्राहयेत्ततः ॥ ६२ ॥

देवस्य दापयेत्पश्चात् चण्डेशाय प्रदापयेत्
देशिकश्चैव भक्तानां दापयेत् भस्मधारणम् ॥ ६३ ॥

मूलबेरन्ततः पश्चात् अभिषेकं विशेषतः
नैवेद्यधूपदीपञ्च पूर्ववत्परिकल्पयेत् ॥ ६४ ॥

एवं यः कुरुते मर्त्यः प्रतिसंवत्सरं प्रति
राजराष्ट्राभिवृद्ध्यर्त्थं सर्वकामफलप्रदम् ॥ ६५ ॥

नित्यप्रायश्चित्तमेवोक्तं सायुज्यपदमाप्नुयात् ॥ ६६ ॥

इति कृत्तिकामासपूजापटलस्सप्तविंशतितमः