०२६ प्रदोषपूजाविधिपटलः

प्रदोषपूजाविधिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि प्रदोषयजनं श्रुणु
क्षीराब्धिमथने पूर्वं सुराश्चैवासुरास्तथा ॥ १ ॥

स्थाणुञ्च मन्थराख्यन्तत् अहिपाशन्तु मद्ध्यमे
अनेकवृक्षसम्भूतं स्त्रीरत्नं पुष्परत्नकैः ॥ २ ॥

मृगरत्नैर्वस्त्ररत्नैर्भूषणैर्विविधानि च

एते जातं पुरा कृत्वा त्रयोदशदिने तथा ॥ ३ ॥

अत्युपद्रवदोषैश्च अहिकालञ्च चिद्दिवि
महाविषसमुत्भूतं सर्वसंहारकारणम् ॥ ४ ॥

आशीविषमहावेगैरसुरान्देवतागणान्
प्रार्त्थयेत्परमेशानं वृषमारुह्य तच्छिवम् ॥ ५ ॥

पपौ देवभयं हित्वा सर्वोपद्रवनाशनम्
तस्मिन्काले मयापीतं तद्विषं लोकरक्षितम् ॥ ६ ॥

प्रदोषसमयात्पूर्वं कालं हित्वा विशेषतः
प्रदोषसमये पूजाम् उत्तमं पूजनं श्रुणु ॥ ७ ॥

दिवसस्याष्टमे भागे पूजाङ्कृत्वा षडानन
गव्यैः पञ्चामृतफलैः दधिक्षीरसुगन्धकैः ॥ ८ ॥

स्नपनान्तं यजेत्तत्र शुद्धवस्त्रैरलङ्कृतम्
अष्टपुष्पं समभ्यर्च्य नैवेद्यं क्रमशस्ततः ॥ ९ ॥

धूपदीपं त्वथारात्र्या कुम्भमारात्रिकन्तथा
भस्मदर्पणचक्रञ्च व्यजनन्तालवृन्दकम् ॥ १० ॥

गेयनृत्तान्तमभ्यर्च्य गौरीपूजां समारभेत्
नित्योत्सवन्ततः पश्चात् वृषभारूढमर्चयेत् ॥ ११ ॥

प्रादक्षिण्यक्रमेणैव मण्टपे वेशयेत्ततः
नित्यपूजां प्रकुर्वीत पूर्ववत्कल्पयेत्ततः ॥ १२ ॥

एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ॥ १३ ॥

इति प्रदोषपूजाविधिपटलष्षड्विंशतितमः