०२५ शक्त्युत्सवपटलः

शक्त्युत्सवपटलप्रारम्भः
अथ वक्ष्ये विशेषेण शक्त्युत्सवमतः परम्
प्रासादगोपुरञ्चैव प्राकारव्यापिनी यदि ॥ १ ॥

प्रत्येकमालयञ्चैव प्रतिध्वजमिहोच्यते
कार्तिकेयः केशवश्च क्षेत्रपालश्च मातरः ॥ २ ॥

एतेषामुत्सवे चैव प्रथमावरणे त्यजेत्
द्वितीयावरणे चैव तृतीयावरणेऽपि वा ॥ ३ ॥

प्रत्येकमालयं प्रोक्तं शक्त्युत्सवमथाचरेत्
राजाभिषेकसमये दुर्भिक्षे तु महाभये ॥ ४ ॥

परचक्रभये चैव महामारीप्रवर्तके
भूकम्पपतने काले शक्त्युत्सवमथाचरेत् ॥ ५ ॥

नवाहं श्रियतं प्रोक्तं सप्ताहं राजसं भवेत्
पञ्चाहं सात्विकञ्चैव गौणञ्चैव त्रयाहकम् ॥ ६ ॥

एकाहं तामसं प्रोक्तम् एते पञ्चविधं भवेत्
चैत्रमासे तु चित्रर्क्षे द्वितीय्यायां चरेत्ततः ॥ ७ ॥

वैशाखे सितपक्षे तु विशाखे चोत्तरान्तके
ज्येष्ठे चैव प्रकर्तव्यम् आषाढे त्रयोदशी भवेत् ॥ ८ ॥

—- श्रावणे वापि द्वादशी च विशेषतः
भाद्रे तामसऋक्षं वा एकादशी समन्ततः ॥ ९ ॥

आश्वेत्वश्वी समायुक्तं कार्तिके कृत्तिके मतः
तिथि प्रधानकश्चैव सिते वा सितपक्षयोः ॥ १० ॥

सामुदायिकऋक्षं वा उत्सवेशदिनन्तु वा
यजमानवशात्तत्र त्रिदिने तीर्त्थमाचरेत् ॥ ११ ॥

निश्चित्य दिवसात्पूर्वरात्रौ वास्तुप्रपूजयेत्
मण्डूकन्देवतानाञ्च देवीनां परमशायिका ॥ १२ ॥

रज्वष्टकसमोपेतं वास्तुनाधं प्रपूजयेत्
पूर्वरात्रौ समारभ्य वपनन्तु परे हनि ॥ १३ ॥

मृतदीक्षान्तरे चैव गर्भदीक्षान्तरे तथा
विवाहदीक्षा मद्ध्ये च षडध्व शोधनेऽपि वा ॥ १४ ॥

अन्ते त्रिपक्षमद्ध्ये च प्रसवान्ते त्रिपक्षकम्
महोत्सवं प्रतिष्ठाञ्च एतन्मद्ध्ये विवर्जयेत् ॥ १५ ॥

मोहेन कारयित्वा तु ब्रह्महत्या समं भवेत्
पूर्ववद्यागशालाञ्च पश्चिमद्वारमेव वा ॥ १६ ॥

पूर्वद्वारं प्रकल्प्याथ सर्वेषां पूर्ववच्चरेत्
सितसूक्ष्ममथो श्लक्ष्णं दण्डमानमथापि वा ॥ १७ ॥

पटमद्ध्ये लिखेच्चैव केसरीवृषभन्तु वा
पूर्ववद्घटमालिख्य प्रतिष्ठामुक्तवत्पुरा ॥ १८ ॥

भेरी ताडनमेवोक्तम् अस्त्रदेवान्प्रपूजयेत्
अङ्कुरं पूर्ववत्कृत्वा दण्डपूजाञ्च कारयेत् ॥ १९ ॥

गौरी गायत्रिमन्त्रेण पताकारोहणञ्चरेत्
यात्रास्नपनमेवोक्तम् उत्सवे शीमलङ्कृताम् ॥ २० ॥

कथं शम्भो विशेषेण शक्तिभेदैरनेकशः
मूलबेरस्य चायामं कर्णान्तं गलमेव वा ॥ २१ ॥

स्कन्धान्तञ्च स्तनान्तं वा नाभ्यन्तं कटिमेव वा
आयव्ययञ्च ऋक्षञ्च वारमंशञ्च वर्णकम् ॥ २२ ॥

श्रीतिथिर्दिनगणञ्चैव माहेन्द्रं राशिराशिपम्
वश्य ऋक्षञ्च रज्जुञ्च ऋक्षादिगण्यते ध्रुवम् ॥ २३ ॥

एवं वै मूलशक्त्याश्च समतां परिकीर्तिताः
द्विभुजा च द्विनेत्रा च किरीटमकुटोज्वला ॥ २४ ॥

लम्बकर्णौ च सुश्लक्ष्णौ त्रिभागेन च संयुतौ
दक्षिणेऽपि विहस्तं स्यात् वामे लम्बकरन्तथा ॥ २५ ॥

समपादस्थितञ्चैव किञ्चित्कुञ्चितसव्यके
पद्मपीठोपरिस्थाञ्च सर्वाभरणभूषिताम् ॥ २६ ॥

कर्णात्पलं शिरश्छत्रं प्रभामद्ध्यस्थितं भजे
एवं रूपं प्रकल्प्याथ उत्सवेशीं प्रशस्यते ॥ २७ ॥

यात्राहोमं प्रकुर्वीत उत्सवेशीमलङ्कृताम्
शिबिकादौ समारोप्य तूर्यवाद्यसमन्वितम् ॥ २८ ॥

छत्रचामरपिञ्छैश्च शिवभक्तैस्समावृतम्

——————————– ॥ २९ ॥

शङ्खघोषसमायुक्तं ध्वजदण्डस्य सन्निधौ
गौरीगायत्रिमन्त्रेण ध्वजारोहणमारभेत् ॥ ३० ॥

बलिबेरं समादाय अस्त्रमूर्तिसमन्वितम्
बलिस्सन्ध्यां यजेद्देवमास्थानमण्टपे न्यसेत् ॥ ३१ ॥

नीराजनन्ततः कृत्वा पाद्यमाचमनार्घ्यकम्
गण्डूषोदकपानीय्यं व्यजनं दर्पणं न्यसेत् ॥ ३२ ॥

धूपदीपादिकन्दत्वा रक्षाबन्धनमाचरेत्
वागीश्वरीं समावाह्य गन्धपुष्पैरलङ्कृताम् ॥ ३३ ॥

वामाद्यष्टघटे पूज्य पूर्ववत्परिकल्पयेत्
ब्रह्मादीन्लोकपालादीन् पूर्वाद्यस्त्रन्तु मङ्गलान् ॥ ३४ ॥

पूर्वोक्तविधिना पूज्य वह्निकर्मसमाचरेत्
इन्द्र ईशानयोर्मद्ध्ये वृत्तकुण्डं प्रधानकम् ॥ ३५ ॥

पूर्वाद्यष्टदिशि चैव योनिकुण्डं प्रकल्पयेत्
नवाग्निञ्चैव पञ्चाग्निम् एकाग्निं वा प्रकल्पयेत् ॥ ३६ ॥

गणेशं कार्तिकेयञ्च यमनीं वृषभन्तथा
केसरीं विधिना चैव तत्तन्मन्त्रेण होमयेत् ॥ ३७ ॥

समिदाज्य चरूं लाजं निष्पावं माषमुद्गकम्
शिम्बं वेणुञ्च गोधूमं दधिक्षीरगुलन्तथा ॥ ३८ ॥

उक्षुखण्डं स्वादुकन्दं नीवारं यवमात्रकम्
कदलीमातुलङ्गञ्च पनसं नागमञ्जरी ॥ ३९ ॥

कुलाम्रञ्च विभीची च अपूपं पायसान्वितम्
सुगन्धानि च पुष्पाणि अष्टगन्धेन होमयेत् ॥ ४० ॥

ह्रीबेरादान्तगन्धञ्च उक्तद्रव्याणि होमयेत्
प्रथमे भूतनाधं स्यात् द्वितीये हंसमुच्यते ॥ ४१ ॥

तृतीये केसरी चैव गजयानं चतुर्त्थके
पञ्चमे वृषयन्त्रञ्च सप्तमे रथयानकम् ॥ ४२ ॥

अष्टमे तुरगञ्चैव रन्ध्रे समरभूपकम्
दद्ध्यन्नं वा गुलान्नं वा लोकपालबलिन्ददेत् ॥ ४३ ॥

दिनदेवबलिं वर्ज्येत् परिवारबलिं विना
वीधी शोधनमेवोक्तं सायम्प्रातः प्रदक्षिणम् ॥ ४४ ॥

सायम्प्रातर्यजेत् यन्त्रान् सर्ववाद्यैस्समन्वितम्
गोपुरद्वारदेशे तु घोषयेत् शङ्खमेव वा ॥ ४५ ॥

शेषान् हित्वा च तत् बाह्ये सर्ववाद्यैस्समावृतम्
गजोष्ट्रतुरग्रे उक्षे पटहं घोषयेत्ततः ॥ ४६ ॥

अन्यान्राक्षसवाद्यांश्च घोषयित्वा विशेषतः
नवसन्धिबलिन्दद्यात् तालं शङ्खञ्च काहलम् ॥ ४७ ॥

मद्दलं घोषयेच्चैव कुम्भवाद्यञ्च घोषयेत्
पश्चात्तु पारशैवेन सर्वतालेन ताडयेत् ॥ ४८ ॥

प्रथमं पुष्पधामं स्यात् द्वितीय्यं शफरन्तथा
तृतीयं चित्रधामञ्च चतुर्त्थं चक्रपातिकम् ॥ ४९ ॥

पञ्चमे मधुधामं स्यात् षष्ठे तु सूत्रधामकम्
सप्तमे विक्रमं धामम् अष्टमं मौक्तिकञ्चरेत् ॥ ५० ॥

नवमे मरथधामं स्यात् दशमे कुञ्ज्यधामकम्
देव्यादि च यमत्यन्तं धामं यन्त्रं द्विकालयोः ॥ ५१ ॥

ब्राह्मीमाहेश्वरी चैव कौमारी वैष्णवी तथा
वाराही चैव माहेन्द्री चामुण्डासप्तमातरः ॥ ५२ ॥

यागद्वारे समभ्यर्च्य प्रत्येकं बलिमाचरेत्
कालीञ्चैव करालीञ्च विकरालीं सुमालिनीम् ॥ ५३ ॥

ब्रह्मस्थाने च सम्पूज्य गुलान्नञ्च बलिन्ददेत्
इन्द्रस्थाने शङ्खनिधिं वामे पद्मनिधिन्तथा ॥ ५४ ॥

बलिन्दद्याद्विशेषेण धूपदीपादिकं भवेत्
ध्वजादिबलिपीठानां यथोक्तबलिमाचरेत् ॥ ५५ ॥

आकाशमातरं पूर्वे दक्षिणे भूतमातरम्
लोकमातरं पाश्चिम्ये सौम्ये तु देवमातरम् ॥ ५६ ॥

अनुक्तमातरं चोर्ध्वे अग्रपीठे बलिन्ददेत्
जम्भिनी स्तम्भिनी चैव मोहिनी भेदिनी तथा ॥ ५७ ॥

रमणी भद्रकाली च दुर्गा चण्डेश्वरी तथा

तासान्नित्यबलिन्दत्वा पश्चात्कृत्वा महाबलिम् ॥ ५८ ॥

पूर्वं ध्वजबलिञ्चैव पश्चात्सन्धिबलिञ्चरेत्
जम्भिन्यादिबलिञ्चैव महापीठे बलिन्ददेत् ॥ ५९ ॥

सकलं निष्कलं शून्यं कलाढ्यं खमलङ्कृतम्
क्षपणं क्षमयञ्चैव कर्णोष्यं वसुसङ्ख्यया ॥ ६० ॥

ध्वजपीठे विशेषेण पूर्वाशादिबलिञ्चरेत्
सप्तमे दिवसे चैव रथमारोपयेत्ततः ॥ ६१ ॥

सुमुहूर्ते सुलग्ने च समादाय महेश्वरीम्
रथमारोपयेत्तत्र न्यसेत्सिह्मासनोपरि ॥ ६२ ॥

पश्चिमे तु गणेशञ्च कार्तिकेयञ्च पूर्वके
यमनीमुत्तरे चैव प्रादक्षिण्यक्रमेण वा ॥ ६३ ॥

चक्रभिन्नं प्रमादाच्च कुपुरं छेदयेत्ततः
रज्जुभिन्नमथावापि अतिवृष्टिर्भवेत्ततः ॥ ६४ ॥

अन्तरे समसन्धानम् एककालं द्विकालकम्
त्रिकालं वा प्रदानेन मूलबेरे विशेषतः ॥ ६५ ॥

रहस्यं वाभिषिच्याथ अमन्त्रं पूजयेत्ततः
तूष्णीकन्तु निवेद्याथ घण्टारवविवर्जितम् ॥ ६६ ॥

धूपदीपादिकं हित्वा पश्चात् गत्वा रथेश्वरीम्
निर्माल्यन्तु विसृज्याथ नवपुष्पैरलङ्कृताम् ॥ ६७ ॥

गन्धाद्यैरप्यलङ्कृत्य नैवेद्यं परिकल्पयेत्
याने विसृज्य निर्माल्यं तद्देवोऽपि पराङ्मुखम् ॥ ६८ ॥

तस्मात्सर्वप्रयत्नेन रथयाने विवर्जयेत्
अपूपं लड्डुकं लाजं चूलिकं रसपाकिनी ॥ ६९ ॥

मोदकं पायसं क्षीरं दधिमद्ध्वफलन्तिलम्
इक्षुखण्डं नालिकेरं पानीय्यं रसवर्गिणम् ॥ ७० ॥

प्रष्टमेतान्निवेद्याथ हित्वान्नं रथयानके
अन्ययानोपरिस्थेषु अन्नं वर्ज्येतरान्ददेत् ॥ ७१ ॥

बाह्ये वीधिगते चेत्तु रथयानस्थितेऽपि वा
वीद्ध्यन्ते मण्टपस्थाने मूलबेरन्न दर्शयेत् ॥ ७२ ॥

मोहेन दर्शयित्वा तु पूर्वपुण्यं विनश्यति
नित्यपूजावसाने तु उत्सवेशप्रदक्षिणम् ॥ ७३ ॥

पूजापूर्वं प्रकुर्वीत ब्रह्महत्यासमं भवेत्
मूललिङ्गस्य सम्पूज्य देव्यालयं प्रपूजयेत् ॥ ७४ ॥

पूजान्ते यानमारोप्य वीधीं गत्वा प्रदक्षिणम्
अष्टमे मृगयानञ्च पूर्ववत्परिकल्पयेत् ॥ ७५ ॥

नवमे दिवसे चैव अभ्यङ्गस्नानमाचरेत्
भक्तानान्दापयेत्तैलं देव्यैस्नानं समाचरेत् ॥ ७६ ॥

ब्राह्मणान्भोजयेत्तत्र प्रादक्षिण्य क्रमेण वा
दशमेऽह्नि प्रभाते च स्नात्वा देवीमलङ्कृताम् ॥ ७७ ॥

आरोप्य समरे याने पूरकर्मसमाचरेत्
चूर्णोत्सवन्ततः पश्चात् रजन्युत्सवमाचरेत् ॥ ७८ ॥

उत्तमन्तु नदी तीरे तटाके पुण्यतीर्त्थके
सिन्धुतीरे च सिन्धौ च मद्ध्याह्ने वा विशेषतः ॥ ७९ ॥

गङ्गादिसप्ततीर्त्थानि कलशे पूजयेत्ततः
अस्त्रेशं पूजयेत्तत्र तीर्त्थकर्मसमाचरेत् ॥ ८० ॥

यागो द्वासनमारभ्य मूलबेरेऽभिषेचनम्
तद्रात्रौ पूजयेत्पश्चात् अवरोहणमुत्तमम् ॥ ८१ ॥

निर्माल्यं धरणी यागं सम्पूज्य च परे हनि
आचार्यं पूजयेत्पश्चात् ब्राह्मणान् भोजयेत्ततः ॥ ८२ ॥

एवं यः कुरुते मर्त्यः सपुण्याङ्गतिमाप्नुयात् ॥ ८३ ॥

इति शक्त्युत्सवपटलः पञ्चविंशतितमः