०२४ महोत्सवपटलः

महोत्सवपटलप्रारम्भः
अथ वक्ष्ये विशेषेण सर्वमङ्गलकारणम्
उत्सवं श्रोतुमिच्छामि वदमे कालदाहक ॥ १ ॥

ईश्वर उवाच
साधुसाधु महासेन वक्ष्येऽहं श्रुणु षण्मुख
परं शापादिदीक्षाख्यम् उत्सवं पापनाशनम् ॥ २ ॥

सर्वकल्याणमित्युक्तम् उत्सवं ज्ञानसम्भवम्
तस्मादुत्सवमाख्यातं वत्सरं प्रतिवत्सरम् ॥ ३ ॥

युद्धारम्भे महोत्पाते महाक्षोभञ्च विड्वरे
भूतपैशाच दाहे च महामारिप्रवर्तके ॥ ४ ॥

पुत्रार्थी लभते काले प्रतिसूर्यप्रदर्शके
रजनीन्द्रधनुर्दृ◌ा रात्र्युपग्रहदर्शने ॥ ५ ॥

अवर्षेत्यतिवर्षे च राज्ञां दुस्वप्नदर्शने
पैशाच विड्वरे चैव भ्रान्तिदर्शनसम्भवे ॥ ६ ॥

एवं काले महायागं सद्यश्शान्तिकरं वरम्
शम्बरासुरनाशार्त्थं शिवयागं वरं पुरा ॥ ७ ॥

उत्सवं शाम्भवं प्रोक्तं गौणवं वै द्वितीयकम्
कथं शम्भो महासेन चातुर्वर्णात्मना महत् ॥ ८ ॥

आचार्याय प्रणीपत्य दीक्षामिच्छामि ते प्रभो
लब्ध्वानुज्ञां च गुरुणा विप्राणामेकवत्सरम् ॥ ९ ॥

राज्ञां वैश्यत्रिवर्षाणि शूद्राणामष्टवत्सरम्
शोधनं गुणचर्याय कुलभाक् त्वञ्च समयक् ॥ १० ॥

भूत्वा सत्यमसत्यं वा हौत्र्याश्च परमन्धनम्
पूर्वोक्तयागं सङ्कल्प्य मद्ध्ये वेदीं प्रकल्प्य च ॥ ११ ॥

विप्राणां श्रीविलासञ्च भूभुजां पुरमण्डलम्

वैश्यनान्तुलतालम्बं पादजानान्तु स्वस्तिकम् ॥ १२ ॥

तत्पूर्वे कुण्डमालिख्य चतुरश्रं प्रकीर्तितम्
सप्तविंशत्घटानस्य पूर्वादीशान्तमर्चयेत् ॥ १३ ॥

कुण्डस्यैशान्यदिक्भागे न्यसेदस्त्रघटौ तथा
मण्डलन्तु समभ्यर्च्य पूर्वोक्तविधिना हुनेत् ॥ १४ ॥

युक्तं समयदीक्षा चेत् शिष्यं स्वात्मसमीपके
नेत्रे पटं समाच्छाद्य मण्डले त्वर्त्थभाषितम् ॥ १५ ॥

अनिर्वर्त्य क्रमं मन्त्रं नरस्य केसरं वरम्
काठिन्यभाषमात्रेण गोत्रनाममुखास्तथा ॥ १६ ॥

करालवदनान्येता आत्मानं गर्ह्यबुद्धिमान्
पाशच्छेदं प्रकुर्वीत व्याघ्रक्षीरग्रहादिव ॥ १७ ॥

सम्पाताहुतिकं कृत्वा स्रुवेणाज्यं समुद्धरेत्
एकयागौः ततश्शिष्य मस्तके होमयेत्पुनः ॥ १८ ॥

अग्निं हुत्वा विशेषेण संहितामन्त्रमाचरेत्
इडापिङ्गलसौषुम्ना गान्धारी जिह्विकास्तनी ॥ १९ ॥

अलम्बुशाम्बिनी गुह्या पुन्नामादशनाडिका
द्विसहस्रोत्तरश्चैव सप्ततीनाडिसङ्ख्यया ॥ २० ॥

अश्वत्थजीर्णपर्णे वा ऊर्णातन्तु निभन्तनुम्
ज्वालाकारं मेदिनी च आपग्रन्थिश्च वह्निना ॥ २१ ॥

किङ्किणी पायुपाशश्च खेतटाकजलाशयम्
आत्मानं मस्यवत् ग्राह्य नाडी चालनमुत्तमम् ॥ २२ ॥

घटवन्ती शमात्मानं शिष्यसन्तानमाचरेत्
समरम्भोगभोगार्त्थं सव्यकर्णे पती द्वयेत् ॥ २३ ॥

विप्रक्षत्रियभेदौ द्वौ विनाबीजं समुच्चरन्
शिवाय नम इत्याह विशेष दीक्षाकाले तु वक्ष्येऽहं श्रुणु षण्मुख ॥ २४ ॥

आदौ प्रणवमुच्चार्य ततः पञ्चाक्षरं चरेत्
निर्वाणदीक्षाकाले तु आदौ प्रणवमुच्चरन् ॥ २५ ॥

हकारन्तु ततः पश्चात्तान्त्रिकप्रणवं पुनः
द्वादशान्तं समुच्चार्य अन्ते पञ्चाक्षरां पठन् ॥ २६ ॥

वैश्यशूद्रस्तु स्त्रीभेदास्समयन्तु विशेषतम्
निर्वाणदीक्षाकाले तु तारबीजाक्षरं विना ॥ २७ ॥

पञ्चाक्षरं चरेद्विद्वान् युक्त्यारत्नं प्रकीर्तितम्
कथं शम्भो त्वयायुक्तं यन्मन्त्रं प्रणवैर्युतम् ॥ २८ ॥

तारहीनश्च यन्मन्त्रं प्राणहीनशरीरवत्
साधुसाधुमहासेन मन्त्रभेदन्तथा श्रुणु ॥ २९ ॥

तान्त्रिकापेततान्त्रीकं शुद्धतान्त्रिकमेव च
आद्यर्णवं हि सहितम् अङ्कारम् उन्मनान्तकम् ॥ ३० ॥

तारकं हंसबीजेन तान्त्रिकप्रणवेन च
शेषं च पूर्ववत्कुर्यात् शक्तितन्त्रञ्च कीर्तितम् ॥ ३१ ॥

तारं बीजं विनाशुद्धं पञ्चाक्षरक्रमन्तथा
शिवाय नम इत्येते वैश्यशूद्रं विशां पते ॥ ३२ ॥

मोहेन सापरिचितश्चेत् अचिराच्च कुलक्षयम्
उपदिश्य सदाचार्यो रौरवं नरकं व्रजेत् ॥ ३३ ॥

जपं मोहेन कुर्वाणो रौरवं नरकं व्रजेत्
एककालं द्विकालं वा त्रिकालं वार्द्धयामके ॥ ३४ ॥

ब्राह्मी वैष्णविमाहेशी तुर्यां द्ध्यायेत्ततः परम्
मार्जनात् घमर्षश्च मन्त्रतर्पणमाचरेत् ॥ ३५ ॥

गणानामम्बिकादीनां देवर्षिपितृतर्पणम्
समयाचारवैकल्यात् पिशाचत्वं व्रजेन्नरः ॥ ३६ ॥

चरेदसत्यनिर्वाणां वक्ष्ये सत्यं षडानन
वत्सरं शोषितस्यापि वाचाहूयमिवाचके ॥ ३७ ॥

तन्मस्तके स्वहस्तेन निवेश्यज्ञानचक्षुषा
निवृत्यादिकलालीनं समरसीकरणं कुरु ॥ ३८ ॥

संहारमुद्रयाकृष्य शिवतत्वे नियोजयेत्
अदीक्षितानामन्येषां युक्तं शाम्भवदीक्षया ॥ ३९ ॥

पश्यस्तुम्बमिति ख्यातं पशुघट्टमिति स्मृतम्
रज्जुपाशमिति प्रोक्तं नराणां पाशसंहृतिः ॥ ४० ॥

उत्शब्दः ज्ञानमित्युक्तं सर्वकल्याणकारणम्

भोगमोक्षमिति ज्ञेयं चतुर्विधमितिस्तथा ॥ ४१ ॥

साकल्यं पावनं शान्तं मङ्गल्यञ्च चतुर्विधम्
ध्वजारोहादितीर्त्थान्तं साकल्यञ्चेति कीर्तितम् ॥ ४२ ॥

शेषञ्च पूर्ववत्कृत्वा पताकारोहणं विना
पावनञ्चेति विख्यातं शान्तिञ्चैव ततश्शृणु ॥ ४३ ॥

हुत्वा होमं बलिञ्चैव पूर्वयामे द्वियामके
सायाह्ने चोत्सवं कुर्यात् शान्तिकं परिकीर्तितम् ॥ ४४ ॥

यजमानेच्छया कुर्यात् प्रातः काले शिवोत्सवम्
माङ्गल्यमिति विख्यातं साकल्यं नवभेदकम् ॥ ४५ ॥

सौरोत्सवन्तु प्रथमं चान्द्रोत्सवं द्वितीयकम्
सावित्रञ्चैव कौमारं देविकं भौवनं स्मृतम् ॥ ४६ ॥

भौतिकं गौणमित्युक्तं शैवं नवविधं भवेत्
सप्तविंशदिनं सौरं चान्द्रं सप्तदशाहकम् ॥ ४७ ॥

पक्षं सावित्रमित्युक्तं कौमारन्तु त्रयोदशम्
नवाहन्देविकं प्रोक्तं सप्ताहं भौवनं स्मृतम् ॥ ४८ ॥

पञ्चाहं भौतिकं प्रोक्तं त्रयाहं गौणमुच्यते
एकाहञ्चैवमित्युक्तम् इत्तमादिक्रमान्तिकम् ॥ ४९ ॥

सौरञ्चान्द्रन्तसावित्रम् उत्तमं परिकीर्तितम्
कौमारं दैविकञ्चैव भौवनं मद्ध्यभौतिकम् ॥ ५० ॥

गौणशैवाश्च — कान्सर्वसमुच्यते
उत्तमं सौख्यमित्युक्तं विजयं मद्ध्यमत्रयम् ॥ ५१ ॥

ऋद्धिदं कन्यसत्रयम् उत्सवं त्रिविधं तथा
साप्तञ्च चान्द्रनक्षत्रं सौरञ्चैव चतुर्विधम् ॥ ५२ ॥

साकल्यं पवनं द्वौ च सौरमासे प्रशस्यते
सावनञ्चान्द्रनक्षत्रं मासेषु शान्तिमङ्गलम् ॥ ५३ ॥

उत्सवं कुरुते पश्चात् सौरे सर्वोत्सवं कुरु
चैत्रवैशाखजेष्ठेषु आषाढे श्रावणे तथा ॥ ५४ ॥

भाद्रेश्वयुजिकार्तिक्ये मार्गशीर्षे च पुष्यके
माघे च फाल्गुने चैव चैत्रान्तं मेषसञ्ज्ञिके ॥ ५५ ॥

विशाखान्तञ्च मूलान्तम् उत्तराषाढमृक्षके
श्रविष्ठोत्तरप्रोष्ठपदम् अश्विनीकृत्तिकान्तकम् ॥ ५६ ॥

आर्द्रान्तञ्चैव पुष्यान्तं माखान्तं चोत्तरन्तथा
पूर्वयुक्तमयुक्तं वा मासऋक्षं प्रधानकम् ॥ ५७ ॥

ध्वजारोहादितीर्त्थान्तम् एकमासे प्रशस्यते
द्विमासे चोत्सवं कुर्यात् मद्ध्यमं परिकीर्तितम् ॥ ५८ ॥

पर्वं प्रधानं सामुद्रे अन्ये ऋक्षप्रधानकम्
प्रतिष्ठालिङ्गमुद्दिश्य वदऋक्षं कथं प्रभो ॥ ५९ ॥

राजाभिषेकयद्दृक्षं भूभुजामृक्षमेव च
स्वामिनक्षत्रमाचार्यः ग्रामनक्षत्रमेव वा ॥ ६० ॥

गुरुऋक्षमिति ज्ञेयं तीर्त्थऋक्षं भवेद्यदि
सौरोत्सवं प्रवक्ष्यामि श्रुणु शरवणोद्भव ॥ ६१ ॥

प्रथमावरणञ्चैव गर्भगेहार्द्धमण्टपम्
महामण्टपमेवोक्तम् अग्रे स्नपनमण्टपम् ॥ ६२ ॥

नृत्ताख्यमण्टपं पश्चात् आग्नेय्यां पचनालयः
तदुत्तरे तु मार्ताण्डं सव्ये चैव ततः श्रुणु ॥ ६३ ॥

ज्येष्ठां वा मार्गनन्दादीन् नैर्ऋते तु गणेश्वरम्
सोमास्कन्दञ्च भवनं ततः कल्याणनायकम् ॥ ६४ ॥

तदुत्तरे गुहस्थानं क्षीराब्धितनयालयम्
वाश्विनीमन्दिरं वायौ सोमे महिषमर्दनी ॥ ६५ ॥

पैशाचपदमादौ च गिरिजालयमुत्तमम्
महामण्टपसौम्यादौ चण्डनाधस्य मन्दिरम् ॥ ६६ ॥

उत्तरे वेदिका पार्श्वे सोमधारी च स्थापकम्
ततो मत्स्यपदे स्थाने नटेशालयमुत्तमम् ॥ ६७ ॥

ऐशान्ये यागशालाञ्च तत्सव्ये भोगमन्दिरम्
क्षेत्रपालस्य भवनं तत्सव्ये मातृकालयम् ॥ ६८ ॥

उत्तरे मानुषस्थाने कूपस्थानं प्रकीर्तितम्
मण्टपे सैन्द्रदिक्स्थाने वृषन्देवपदे चरेत् ॥ ६९ ॥

तत्पूर्वे च महापीठं तयोर्मद्ध्ये विराजितम्

तत्पूर्वे वा प्रकल्प्याथ पताकपीठिकाञ्चरेत् ॥ ७० ॥

देवस्य सन्निधौ पूर्वे किञ्चित् बैन्दवमानके
द्वितलं त्रितलं वापि पूर्ववत् गोपुरन्तथा ॥ ७१ ॥

गोपुरद्वारबाह्ये तु मण्टपन्देवसन्निधौ
अष्टोत्तरशतं वापि तस्यार्द्धञ्च तदर्द्धकम् ॥ ७२ ॥

सव्योत्तरे महाभीतिः द्विपार्श्वे परिकल्पयेत्
पूर्वादिपश्चिमान्तं वा निवासद्वारमुत्तमम् ॥ ७३ ॥

प्रतिपत् मण्टपं सर्वे पञ्चवर्णैरलङ्कृतम्
त्रयोदशाङ्गुलं विद्यात् रथयानं प्रकल्पयेत् ॥ ७४ ॥

शैवं गौणं भौतिकं वा भौवनं देविकन्तथा
कौमारञ्चैव सावित्रम् उत्सवं कारयेत् गुरुः ॥ ७५ ॥

चान्द्रं सौरं विनाशेषान् उत्सवान्पूर्ववच्चरेत्
चन्द्रेशात्सम्प्रवक्ष्यामि सर्वानुग्रहकारणम् ॥ ७६ ॥

पूर्वोक्तवत् यथावेश्म प्रथमावरणन्तथा
द्वितीयावरणे चैव आग्नेय्यां पचनालयम् ॥ ७७ ॥

देवस्य पूर्वदिक् भागे दिव्य हर्म्यमहत्तटम्
उत्सङ्ख्या देवतास्थानं मण्डपं सर्वानुग्रहम् ॥ ७८ ॥

—— लं विद्यात् मकुटान्तं विधीय्यते
शतस्तम्भं चतुः पश्चात् पञ्चविंशति सङ्ख्यया ॥ ७९ ॥

स्तम्भान् चित्रे विलिख्याथ देवतास्थानमण्टपम्
सर्वानुग्रहशालाञ्च तत्सर्वं डोलमन्दिरम् ॥ ८० ॥

ऐशान्ये यागशालाञ्च पूर्ववत्परिकल्पयेत्
अजस्थाने प्रकल्प्याथ यागमण्टपकुण्डितम् ॥ ८१ ॥

चतुर्दिक् भित्तिपार्श्वे तु लतामण्टपमुच्यते
प्रष्ठवी — तयोर्मद्ध्ये पताकापीठमुत्तमम् ॥ ८२ ॥

प्रथमावरणस्तभं त्रिगुणी कृतमुत्तमम्
एकांशं वर्जयित्वा तु द्विमानं दण्डमुच्यते ॥ ८३ ॥

सर्वस्मिन्मद्ध्यमे स्थाने पताकापीठमुच्यते
पाशी सन्धौ महापीठं पुष्पकेशदिशिद्ध्वजम् ॥ ८४ ॥

चतुर्ध्वजं प्रकल्प्याथ धानमष्टादशक्रमम्
एकोनपीठमानञ्च अष्टादशाङ्गुलन्तु वा ॥ ८५ ॥

रथायानं चरेद्विद्वान्यन्त्रमष्टादशं महत्
महेशस्याङ्गुलं वीक्ष्य नक्षत्रमनुगण्यते ॥ ८६ ॥

मानहीने महाव्याधि अधिके ग्रामनाशनम्
यथोक्तं मानमात्रञ्च देहं लब्ध्वाङ्गुलैश्चरेत् ॥ ८७ ॥

सौरोत्सवक्रमं वक्ष्ये राजराष्ट्राभिवृद्धिदम्
तृतीयावरणं प्रोक्तं पूर्वादौ च चतुर्दिशि ॥ ८८ ॥

चतुर्द्वारं विशेषेण युगगोपुरमण्डितम्
मुनिसङ्ख्या तलञ्चैव मकुटान्तविराजितम् ॥ ८९ ॥

सहस्रत्रयसंयुक्तं मण्टपं स्तम्भसङ्ख्यया
द्विसहस्रं सहस्रं वा स्तम्भमास्थानमण्टपम् ॥ ९० ॥

सहस्रार्द्धं पश्चिमे च शतसङ्ख्या च दक्षिणे
कलासङ्ख्या महाधूपं मण्टपं परिकीर्तितम् ॥ ९१ ॥

मत्स्यलीला तटाकाख्यं तत्पार्श्वे डोलमण्टपान्
—- ग्रहाख्यञ्च द्वितीयावरणं श्रुणु ॥ ९२ ॥

आग्नेये नैर्ऋते वायौ ऐशान्ये च चतुर्दिशि
ध्वजपीठं प्रकल्प्याथ पूर्ववद्ध्वजनिर्मितम् ॥ ९३ ॥

यन्त्रभेदन्तु विधिवत् महेशम् ऋक्षगण्यते
यन्मानं विधिवत्कृत्वा सप्तविंशति सङ्ख्यया ॥ ९४ ॥

अदीक्षितानां धूर्तानां पक्षिणां मृगदारुकम्
भक्तानां दीक्षितानाञ्च सर्वेषां संहृतिप्रदम् ॥ ९५ ॥

परमार्त्थं लभेच्चैव युक्तां शास्त्रोक्तदक्षया
कर्षणादिप्रतिष्ठान्तं स्वार्जितेन धनेन च ॥ ९६ ॥

कायक्लेशे न वा कुर्यात्समयापरिकीर्तितम्
दीक्षाफलं लभेन्मर्त्यो विशेषं वक्ष्यतेऽधुना ॥ ९७ ॥

नित्यं काम्यार्चनं विद्यात् विशेषं परिकीर्तितम्
उत्सवम्मद्ध्यशुद्धिस्स्यात्तीर्त्थकर्म्माभिषेचनम् ॥ ९८ ॥

चक्षुस्सञ्ज्ञानदीक्षा च फलं लेभे प्रसादतः

अङ्कुरं वास्तुयजनं कल्याणं लक्षयागकम् ॥ ९९ ॥

भेरीताडनमेवोक्तं सृष्टिकर्ममुदाहृतम्
देवतावाहनञ्चैव यात्रास्नपनमेव च १००
ध्वजारोहणमेवोक्तं वाहनोत्सवमेव च
सन्ध्यावाहनमेवोक्तं स्थितिकर्मतथैव च १०१
बलितीर्त्थाङ्कुरञ्चैव रक्षाबन्धनमेव च
गणयागास्त्रयागञ्च संहारं परिकीर्तितम् १०२
ध्वजमारोपयेत्पश्चात् मृगयात्रां प्रकल्पयेत्
कालकञ्च ततश्चैवं निरोभावन्तथैव च १०३
शक्तियात्रामत्स्यलीला चण्डेशगुरुपूजनम्
अनुग्रहमिति प्रोक्तं श्रुणु शरवणोद्भव १०४
द्वितीयावरणञ्चैवं तृतीयावरणेऽपि वा
पूर्वपश्चिमसव्ये च उत्तरे च प्रशस्यते १०५
पालिकाघटिका चैव शरावं त्रिविधं स्मृतम्
अष्टादशाङ्गुलोत्सेधं तदर्द्धं विस्तरं भवेत् १०६
नाहं पञ्चाङ्गुलं मद्ध्ये दीपदण्डवदाचरेत्
चतुरश्रं मुखे चैव तदेवपाददेशके १०७
स्थलिकाकृतिमेवोक्तं मद्ध्ये तु सुषिरं भवेत्
पञ्चवक्त्राकृतिं पश्चात्कलशा कृतिमुत्तमम् १०८
पूर्ववत्परिकल्प्याथ वृत्तं वा परिकल्पयेत्
वक्तुश्चत्वारि सङ्ख्या च त्रिविधं परिकीर्तितम् १०९
घटिका च शरावञ्च प्रत्येकन्तु चतुर्दशी
पालिका षोडशञ्चैव पूर्ववन्मण्डलं लिखेत् ११०
अष्टदिक्षु न्यसेन्मद्ध्ये सोदकुम्भं न्यसेत्ततः
कृत्तिकां रोहिणीञ्चैव यजेतां गुरुपूर्वकम् १११
तिलसर्षपमुद्गञ्च माषशिम्बं यवस्तथा
निष्पावं लम्बगोधूमं क्षीरेण सहितन्तथा ११२
पालिकामद्ध्यमे चैव पालाशाश्वत्थपत्रकैः
आबद्ध्यसुषिरं बध्वा सिकतेन परिप्लुतम् ११३

बीजां निवापयेत्पश्चात् ऊर्ध्वे मृत्सपरिप्लुतम्
जलं प्रतिदिनं क्षिप्य नैवेद्यं धूपदीपकम् ११४
सूत्रं त्रयोदशं लिख्य प्रागग्रं परिकल्पयेत्
उदक्सूत्रं तदेवोक्तं मद्ध्ये पद्मं चतुष्पदम् ११५
वीधिमेकपदं बाह्ये तद्बाह्ये श्रुणु षण्मुख
आग्नेय्यादि चतुर्दिक्षु वायव्यादि चतुर्न्यसेत् ११६
तृतीयावरणे चैव आग्नेयादि चतुर्दिशम्
घटिका च शरावादीन् त्रित्रिमालान्न्यसेत्ततः ११७
तद्बहिर्वीधिरेकं स्यात् चतुर्त्थावरणं श्रुणु
आग्नेयादि चतुर्दिक्षु भूतसाङ्ख्यन्न्यसेत्ततः ११८
पूर्वादिषु चतुर्दिक्षु चतुर्द्वारं पदद्वयम्
द्वारस्य दक्षिणे वामे एकमेकन्न्यसेत्ततः ११९
चतुश्चत्वारि सङ्ख्या च पालिकाघटिका तथा
शरावांश्च क्रमान्न्यस्य नक्षत्रे शन्तु मद्ध्यमे १२०
पूर्ववत्संयमेद्विद्वान् पञ्चमावरणं श्रुणु
सुराद्ध्यक्षात्मभूश्चैव परमेष्ठी स्वयम्भुवः १२१
विरिञ्चिश्चैव लोकेशः पितामह अजस्तथा
धाता चतुर्मुखश्चैव पद्माक्षः पद्मयोनयः १२२
त्रिमूर्तित्रयी मयी विद्यात्केशवादीन्ततश्शृणु
दामोदरः पद्मनाभः हृषीकेशस्तु श्रीधरः १२३
मधुसूदनवामश्च विष्णुञ्चैव त्रिविक्रमः
गोविन्दो माधवश्चैव नारायणसुकेशवः १२४
शार्ङ्गी चक्री च त्रिप्रोक्तं रुद्रभेदान्ततश्शृणु
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः १२५
भवश्शर्वस्त्रिलोकेशः श्रीकण्ठश्च शिवाप्रियः
भीमः परशुपाणिश्च मृगपाणिर्जटाधरः १२६
वृषाङ्को वृषभारूढः भस्मोद्धूलनविग्रहः
सम्पूज्य विधिवच्चैव पायसादीन्यसेत्ततः १२७
ताम्बूलं दापयेत्पश्चात् ब्राह्मणान्भोजयेत्ततः

दक्षिणान्दापयेत्पश्चात् आदौ वै वाह्यमाचरेत् १२८
स्वगृह्योक्तविधानेन अग्निकार्यं समाचरेत्
वेदिकान्तु पुराकृत्वा पश्चात् चैवं समाचरेत् १२९
कुण्डसंस्कारपूर्वं यः अग्निसंस्कारमुच्यते
आज्यसंस्कारतः पश्चात् स्रुक्स्रुवौ संस्कृतिं परम् १३०
पृथगष्टादश सङ्ख्या परिधींश्च परिस्तरान्
विष्टरं पूर्ववत् न्यस्य आचार्यः साधकैस्सह १३१
स्नानवेदीं प्रकल्प्याथ षडुत्थासनमर्चयेत्
सोमास्कन्देषु संस्थाप्य पृथक्वेदीन्तदुत्तरे १३२
वीरशक्तिं समुत्थाप्य वेदिकामद्ध्यमेऽर्चयेत्
संस्थाप्य विधिवत्पूर्वम् अभिषेकं प्रकल्पयेत् १३३
कथं शम्भो महेशान वदमे सृष्टिकर्मणि
पञ्चविंशति भेदेन इतरं वा प्रकल्पयेत् १३४
शाम्भवाख्यां महादीक्षां मण्डलं घटवह्नि च
आचार्यशिष्यसञ्ज्ञेयः एतत्पञ्चविधन्तथा १३५
एवं मण्डलबेरञ्च अस्त्रमूर्तिघटाक्षिती
सोमास्कन्देश्वरो वह्निः आचार्यो व्रतधारिणः १३६
अदीक्षितानां भक्तानां दीक्षितानां विरागिणाम्
समयाचारलोपानाम् एते शिष्यास्त्वनेकशः १३७
वागीश्वराकृतिश्शम्भोः वागीशी भोगशक्तिकाम्
शिवाग्निस्कन्द इत्युक्तं तस्मात्ज्ञानाग्निरुच्यते १३८
वीक्ष्यते सर्वलोकानां सोमास्कन्देश्वरं विदुः
अन्येषामपि देवानां देवन्देवी द्वयन्तथा १३९
शिवाग्निभावनानोचेत् अन्याश्च शिवभेदकान्
वर्जयेन्मुख्यं वक्ष्यामि उत्सवेशं प्रकीर्तितम् १४०
सोमास्कन्देश्वराभावे नटेशं शशिशेखरम्
वैवाह्यं स्यादुमेशञ्च मद्ध्यमं परिकीर्तितम् १४१
एकाहे च त्रयाहे च पञ्चाहे च तथैव च
सप्ताहान्तं चरेद्विद्वान् देविकञ्चान्द्रसौरके १४२

वर्जयेत् —— सर्वमङ्गलकारकम्
———————- करमेव वा १४३
ग्रामनाशं पुरा प्रोक्तं राजराष्ट्रं विनश्यति
तिन्त्रीणि इष्टिका चूर्णं पलाशभस्ममर्दितम् १४४
कदली लिकुचक्षौद्रं नालिकेराम्म्रपानसैः
दधिक्षीरञ्चन्दनाद्यैः कलशान्ताभिषेचयेत् १४५
धौतवस्त्रेण सम्मृज्य शुद्धवस्त्रेण वेष्टयेत्
सिंहासने समारोप्य उत्तराभिमुखस्थितः १४६
विरिञ्चिरूपमात्मानं भावयेत्साधकोत्तमः
देहशुद्धिं विशेषेण अन्तर्यागं समाचरेत् १४७
गणेशस्याभिषिच्याथ गन्धपुष्पादिभूषणम्
मोदकान् लड्डुकान्लाजान्गुलखण्डेक्षुखण्डकान् १४८
नैवेद्यधूपदीपादि सम्प्रणम्य विनायकम्
मूलबेरे विशेषेण अभिषेकं समाचरेत् १४९
सहस्रकलशां वापि तस्यार्द्धं वा तदर्द्धकम्
अष्टोत्तरशतं वापि पूर्ववत् विधिनाचरेत् १५०
नैवेद्यधूपदीपान्तम् उत्सवं कुरुते मया
सम्पूर्णमशनं लब्ध्वा अनुज्ञाञ्च समाचरेत् १५१
सिंह्मासने समारोप्य सोमास्कन्देशसन्निधौ
तदुत्तरे महापीठे पराशक्तिन्तु स्थापयेत् १५२
आचार्यः प्राङ्मुखो भूत्वा कुण्डं पूर्ववदाचरेत्
कल्पयेद्भोगशक्त्याश्च जातकर्मसमाचरेत् १५३
एवङ्गुणेति सङ्कल्प्य प्राणानायम्य पूर्ववत्
स्वगृह्योक्तविधानेन पुरा वैदिककर्मणि १५४
पश्चाच्चैव समासाद्य वह्निकार्योक्तमार्गतः
पञ्चब्रह्मषडङ्गेन सप्ताहुतिं पृथक्पृथक् १५५
हस्तेन ग्राहयेद्भाव्य स्कन्दमन्त्रैः त्रयाहुतिः
वटुकं क्षेत्रपालञ्च दुर्गामन्त्रैस्त्रयाहुतिः १५६
प्रासादेनैव मन्त्रेण शतं पूर्णाहुतिं हुनेत्

मनोन्मनीत्यभिध्याय्य अर्घ्यपाद्यादिकन्ददेत् १५७
अघोरास्त्रैस्समन्त्रेण द्विशतं होमयेत्ततः
उपनिष्क्रामणञ्चैव अन्नप्राशनमीरितम् १५८
सितशाली हेमशाली वराहशालिकान्तथा
मथित्वा तण्डुलं ग्राह्य अस्त्रेण क्षालयेत्ततः १५९
त्रिपाद्युपरिविन्न्यस्य मन्त्रहीनं प्रकल्पयेत्
क्षीरं सिता विनिक्षिप्य वाचयेत्तु समाचरेत् १६०
अर्घ्येण प्रोक्षयेत्तत्र शिवास्त्रेणैव होमयेत्
कौबेरी च फलाकारं सौवर्णैस्सप्तसङ्ख्यया १६१
पञ्चवारं हुनेच्चैव ततस्संहितयाहुनेत्
सप्ताहुतिं ततः कृत्वा मद्ध्ये देव्यै च दीप्तयेत् १६२
पश्चान्नेत्राञ्जनं पात्रं चूर्णां नारङ्गपत्रिणि
मसृणीं परिकल्प्याथ केशशोधनमाचरेत् १६३
भिन्नशोधः प्रकल्प्याथ नववस्त्रं विधाय च
—— नियया गन्धं पुष्पञ्च कबरीस्तबकम् १६४
—– मद्ध्यमे क्षिप्य तत्पार्श्वे च निक्षिपेत्
निम्बं कार्पासबीजञ्च —- मरिचन्तथा १६५
लवणं मुद्गबीजञ्च धान्यं भस्मसमाहरेत्
मकुटे मूर्ध्निवक्त्रे च कण्ठं हृत् गुह्यपादयोः १६६
अभ्यङ्गं दापयेत्पश्चात्प्रदक्षिणत्रयन्तथा
पश्चादग्नौ क्षिपेच्चैव पूरकर्म्मसमाचरेत् १६७
— पाशवान्तां वीरशक्तिं ततो यजेत्
जातकर्म्म च नामाख्यं निष्क्रापणमतः परम् १६८
अन्नप्राशनपर्यन्तं वीरशक्तिं स्वतन्त्रकाम्
पूर्ववत्क्रममेवोक्तं पूरकर्म्मसमाचरेत् १६९
महेशं बालरूपञ्च षोडशाब्दिकयौवनम्
द्वात्रिंशल्लक्षणोपेतं ब्रह्मचर्यं विभावयेत् १७०
सव्यं यज्ञोपवीतञ्च एकन्धारयते शिवः
प्रातकर्म्महुनेच्चैव चरुप्राशनमीरितम् १७१

घोरं पाशुपतेनैव अघोरास्त्रं शिवार्चकम्
क्षुरिकं व्योमहस्त्रञ्च प्रत्यङ्गिरशतं पृथक् १७२
मृत्युञ्जयेनैव शतं प्रासादेन सहस्रकम्
छत्रं दण्डं पार्श्वयोश्च पादुकापुरतः क्रमात् १७३
पुस्तकं वामभागे च यात्रार्त्थं परिगम्म्यताम्
पूर्णान्तं होमयेत्पश्चात्कल्याणविधिमुत्तमम् १७४
स्वर्णं ताम्बूलसहितं विष्णुहस्तात्समुद्धरेत्
गौरीकराम्भोजयुग्मम् अम्बुधाराञ्च निक्षिपेत् १७५
शिवाय प्रददेद्धस्तं भावयेत्साधकोत्तमः
मद्ध्ये फलकाकारञ्च द्विपार्श्वे वृत्तमेव च १७६
द्विपार्श्वे मुकुलाकारं त्रिकराकृतिपश्चिमे
सुषिरं पार्श्वयोश्चैव मद्ध्ये बीजमुदाहृतम् १७७
सूत्रे निवेशयेच्चैव शिवहस्ते प्रदापयेत्
शिवहस्तं समुद्धृत्य गौरीकण्ठे च दापयेत् १७८
स्थालिके शूलपात्रे च कूर्च द्वयञ्च निक्षिपेत्
महेश्वरं भोगशक्तिं सम्पूज्य विधिवत्ततः १७९
कुण्डं संवृत्तयेद्भागे अश्मपीठं भवेद्यदि
प्रादक्षिण्य क्रमेणैव शक्तिमालिङ्गितं भवेत् १८०
गौरीपादं समुद्धृत्य शिवहस्तेन वेश्मनि
एवं त्रिवारं संवेश्य संहितालाजहोमकम् १८१
पश्चात् दर्पणमादाय मूललिङ्गसमीपके
—- शिवं पूज्य दर्पणे पूजयेच्छिवाम् १८२
भस्मकुम्भं समादाय पराशक्तिसमीपकम्
गत्वाग्निकार्यमार्गेण पूर्ववद्धोमयेत्ततः १८३
कुम्भे शिवं समभ्यर्च्य —- दर्पणे
पूजयेद्वीरशक्तिञ्च व्रतहोमं प्रकल्पयेत् १८४
शिवाय पूर्ववत्कृत्वा प्रददेत् विष्णु
माङ्गल्यं ग्राहयेच्चैव शिवभावनया गुरुः १८५
दर्पणे दापयेद्बुद्ध्या प्रादक्षिण्यञ्च पूर्ववत्

लाजहोमं प्रकुर्वीत उपस्थाप्य विशेषतः १८६
जयादिरभ्याधानञ्च राष्ट्रभृच्च हुनेत्ततः
आशिषं समुपास्यान्ते विमुखार्घ्यं समाचरेत् १८७
दर्पणान्मङ्गल्यमादाय वीरशक्त्यै प्रदापयेत्
कण्ठे बध्नीयसौ लग्ने ब्राह्मणान्भोजयेत्ततः १८८
पताकारोहणं पूर्वं दिने वास्तुं प्रपूजयेत्
पर्यग्निकरणं कृत्वा वृषयागं ततश्शृणु १८९
प्रथमावरणे चैव गोपुरस्समतोन्नतम्
चरेत्प्रासादमानं वा दीप्यहर्मसमन्तकम् १९०
वृषस्थलान्तं नास्यन्तं शालासाम्यं समुन्नतम्
उन्नतं दण्डमित्युक्तम् आपादतलमस्तकम् १९१
तत्तुल्यं पाददीर्घञ्च विस्तारञ्च ततश्शृणु
तालञ्च दशविस्तारम् अष्टतालन्तु मद्ध्यमम् १९२
नववस्त्रं ग्रहेच्चैव पञ्चवर्णैरलङ्कृतम्
पटस्य मद्ध्यमे भागे वृषभं लिख्यते यथा १९३
शङ्खप्रभसमानाङ्गं शृङ्गं रक्तप्रभं तथा
नेत्रं कृष्णप्रभं विद्यात् जिह्वा नीलनिभन्तथा १९४
खुरं रक्तप्रभं विद्यात्पुश्छाग्रं कृष्णवर्णकम्
कण्ठं वलयमेवोक्तं बीजं रक्तनिभं तथा १९५
कुण्डीजघनयोर्मद्ध्ये पद्मपीठाकृतिन्तथा
त्रिशूलं कल्पयेत्पश्चात् रक्तं चैव च पत्रकम् १९६
पार्श्वौ शुक्लनिभं विद्यात् ऊर्ध्वे चैव द्विपार्श्वयोः
चामरं शुक्लवर्णं स्यात् दण्डं पीतनिभन्तथा १९७
मद्ध्ये चित्रं प्रकल्प्याथ ऊर्ध्वे श्रीवत्समीरितम्
पश्चिमे स्वस्तिकं चैव चन्द्रसूर्यश्च पार्श्वके १९८
पादप्रदेशे संलिख्य पुष्पदीपाकृतिं चरेत्
ज्वलनं कुम्भदीपं च दर्पणं वामपार्श्वके १९९
शङ्खं त्रिपादकादूर्ध्वे अधोभागे च पालिकाम्
पीतेन वि— शेषान् पद्मदलाकृतिम् २००

पटस्य द्विगुणं रज्जुं पटमद्ध्ये द्विपार्श्वयोः
दण्डेन —- वस्त्रेण वर्त्तुलाकृतिम् २०१
रज्जुनाबन्धयेत्तत्र घण्टात्रयमुदाहृतम्
पञ्चवक्त्रं प्रकल्प्याथ गन्धपुष्पैरलङ्कृतम् २०२
पूर्ववत् यागशालाञ्च मद्ध्ये वेदीं प्रकल्पयेत्
तत्पूर्वे कुण्डमालिख्य सप्तविंशत् घटान्न्यसेत् २०३
नवकुम्भं न्यसेन्मद्ध्ये पूर्वमावाहयेत्ततः
अञ्जनं वामपार्श्वे च परितोष्टघटं शृणु २०४
वृक्षश्च गोपतिश्चैव वृषभश्शङ्खकर्णकः
तीक्ष्णशृङ्गो महाकायो एकपादो वृषस्तथा २०५
अष्टविद्येश्वरान्पूज्य पूर्वोक्तविधिना हुनेत्
जलाधिवासने चैव रत्नन्यासं विना तथा २०६
शेषांश्च पूर्ववत्कृत्वा पूर्वं नयनमोक्षणम्
तत्पूर्वमङ्कुरं प्रोक्तं वास्तुपूजां विना यथा २०७
पादादूर्वन्तमेवोक्तम् ऊरोः कण्ठान्तमुच्यते
कण्ठादिमकुटान्तञ्च ब्रह्मभागमधो तथा २०८
मद्ध्यमे विष्णुभागञ्च रुद्रभागन्तु तत्र वै
तत्वतत्वेश्वरान्न्यस्य मूर्तिमूर्तीश्वरान्हुनेत् २०९
मूर्तिमावाहयेत्पश्चात्प्रादक्षिण्य क्रमेण च
पताकां रोपयेत्पूर्वं पश्चात् भेरीन्तु ताडनम् २१०
अङ्कुराण्यर्पयेत्पश्चात् ध्वजारोहणपूर्वकम्
भेरीमादौ तु सङ्घोष्य अङ्कुरं कारयेत्ततः २११
पश्चाद्ध्वजं समारोप्य भेरी छोषणपूर्वकम्
अङ्कुरं कारयेत्पूर्वं भेरीघोषमतः परम् २१२
पताकारोहणं पश्चात् अङ्कुरार्पणपूर्वकम्
महेशसन्निधौ वापि मूलबेरस्य सन्निधौ २१३
ध्वजखीटाग्रके वापि भेरी ताडनमुत्तमम्
धान्यराशीन्प्रकल्प्याथ पद्ममष्टदलं लिखेत् २१४
भेरीन्तु मद्ध्यमे स्थाप्य अर्घ्यञ्च प्रोक्षयेत्ततः

करशुद्धिन्ततः कृत्वा अङ्गन्यासमतः परम् २१५
भेरीमद्ध्ये च सर्वेभ्य रुद्रं वै मद्ध्यमे न्यसेत्
सव्ये ब्रह्माणमभ्यर्च्य वामे विष्णुं समर्चयेत् २१६
कीलसूत्रे देवतांश्च चर्मेषु सप्तमातरः
दिक् तेजाश्च —- वृत्तौ च शशिभास्करौ २१७
पूजयेत्तत्र नैवेद्यं धूपदीपं समाचरेत्
एकविंशतिदर्भांश्च विष्टरं परिकीर्तितम् २१८
भूम्यन्तरिक्षस्वर्गेषु हितं पातालवासिनाम्
देवानां शत्रुनार्त्थं भेरीं सन्ताडयाम्यहम् २१९
ब्रह्माविष्णुश्च रुद्रश्च इन्द्राद्यादेवतर्षयः
मृगपक्षिनराणाञ्च हितं सन्ताडयाम्यहम् २२०
सर्वलोकहितार्त्थाय सर्वप्राणिसुखावहम्
भेरीं सन्ताडयामीति एकद्वित्रि च ताडयेत् २२१
मन्त्रानुद्वासयेत्पश्चात् भेरीं सङ्घोषयेत्ततः
तत्पश्चिमे देवताग्रे धान्यपुञ्जैरलङ्कृतम् २२२
त्रिपाद्युपरिविन्यस्य अस्त्रमूर्तिन्न्यसेत्तथा
पूर्वाभिमुखमेवोक्तं मद्ध्यसव्योत्तरच्छदे २२३
ब्रह्माविष्णुश्च रुद्रश्च पूजयेत् गन्धपुष्पकैः
पालिकामद्ध्यमे सव्ये उत्तरे गौरिवाहिनीम् २२४
लक्ष्मीमभ्यर्चयेच्चैव कुम्भवक्त्रे द्विपार्श्वके
गणेशं कार्तिकेयञ्च दण्डाग्रे मृदसम्भवम् २२५
दण्डमद्ध्ये द्विपार्श्वे च भानुसोमौ प्रपूजयेत्
दण्डमूले क्षेत्रपालं पूर्वाद्यष्टदलेषु च २२६
दुर्गां ब्रह्मषडङ्गञ्च उत्तमन्त्रेण पूजयेत्
अनन्तेशस्तथा सूक्ष्मः शिवोत्तमश्चैकनेत्रकः २२७
एकरुद्रः त्रिमूत्रिश्च श्रीकण्ठश्च शिखण्डिनः
ध्यात्वा सम्पूजयेत्पश्चात् नन्दिकालौ च भृङ्गिणम् २२८
विनायकं वृषं स्कन्दं देवीञ्चण्डं प्रपूजयेत्
इन्द्राग्नियमनैर्ऋत्यान् वरुणं वायुमेव च २२९

सोमेशानं यजेच्चैव वज्रञ्च शक्तिदण्डकौ
खड्गं पाशं ध्वजञ्चैव गदांशूलं रथाङ्गकम् २३०
पद्मं द्ध्यात्वा विशेषेण दर्पणं पूर्णकुम्भकम्
वृषभं चामरयुगं श्रीवत्सं स्वस्तिकन्तथा २३१
शङ्खदीपमिति ज्ञेयः पूजयेत्तु विशेषतः
धरो ध्रुवश्च सोमश्च क्षिपश्चापो निलस्तथा २३२
प्रत्युषश्च प्रभावश्च वसवैतान्प्रपूजयेत्
महादेवश्शिवो रुद्रश्शङ्करो नीललोहितः २३३
ईशानो विजयो भीमो देवदेवो महाध्वजः
कपाल इति विज्ञेयः पूजयेद्दलध्यमे २३४
ऐरावतः पुण्डरीको वामनः कुमुदोञ्जनः
पुष्पदन्तस्सार्वभौमस्सुप्रतीक इति स्तथा २३५
पूजयेदष्टनागांश्च हिमवां निषधस्तथा
विन्ध्यमाल्य इति ज्ञेयः पारियात्र इतिस्तथा २३६
गन्धाख्य हेमकूटश्च दलान्तरं यजेत्ततः
वामाज्येष्ठा च रौद्रा च कालीकलविकारिणी २३७
बलविकरणी बलप्रमथीनि सर्वभूतदमनी तथा
मनोन्मनीति विज्ञेयः ब्राह्मी माहेश्वरी तथा २३८
कौमारी वैष्णवी चैव वराही च महेन्द्रिका
चामुण्डीति च विख्याता वीरभद्रगणेश्वरौ २३९
अर्चयेद्विधिना चैव चण्डनाधं यजेत्ततः
नैवेद्यधूपदीपान्तं पूजयेत्तु पृथक्पृथक् २४०
मधूकशाकबिल्वञ्च वकुलन्तालमेव च
हिन्तालं नालिकेरञ्च चन्दनं देवदारुकम् २४१
वंशमर्जुनमश्वत्थं वटं शम्याकबालकम्
पूगच्छदं पाटलीञ्च नीलीञ्च पनसन्तथा २४२
सप्तच्छदं विरालञ्च विमलं वृक्षिसत्वरम्
ग्राहयेत् वक्रिणीन्त्यज्य अपर्वं नत्वचन्तथा २४३
ब्रह्मभागञ्चतुर्मानं विष्णुभागाष्टमानकम्

रुद्रभागं वर्तुलञ्च सप्ताष्टकनवांशकम् २४४
प्रतिष्ठाङ्कारयेच्चैव प्रथमे वत्सरे विना
प्रतिवर्षं विना चैव प्रतिष्ठाक्रममुत्तमम् २४५
पूर्वोक्तयागं सङ्कल्प्य मद्ध्यवेदीं प्रकल्पयेत्
तत्पूर्वे कुण्डमाकल्प्य सप्तविंशद्घटान्न्यसेत् २४६
विद्येश्वरघटाष्टौ च शिवकुम्भञ्च मद्ध्यमे
पूर्वोक्तविधिनाहुत्वा उक्तकर्मसमाचरेत् २४७
दण्डाग्रं मकुटं प्रोक्तं यष्टिकावक्त्रमीरितम्
रज्जूकरसमायुक्तं विष्टरन्तु जटासितम् २४८
पटञ्च त्वक्समायुक्तं पीठं वापि तथाननम्
एवं ज्ञात्वा विशेषेण पूर्ववत्परिकल्पयेत् २४९
स्वर्णेन रजतेनैव वस्त्रेणैव विभूषितम्
——– कान्तं वा भूषितं परिकल्पयेत् २५०
प्रतिष्ठाङ्कुरमेवोक्तं यात्रास्नपनमाचरेत्
चण्डनाधमलङ्कृत्य ग्रामशोधनमाचरेत् २५१
चन्द्रचूडं विशेषेण स्नानवेद्योपरिन्यसेत्
यात्रास्नपनमेवं यः दशकुम्भं प्रकीर्तितम् २५२
यात्राहोमन्ततः कृत्वा अभिषिच्य विशेषतः
गन्धपुष्पैरलङ्कृत्य गणेशं स्कन्दमेव च २५३
चण्डनाधमलङ्कृत्य समादाय महेश्वरम्
पञ्चविंशति भेदेषु एकमेकं दिनं प्रति २५४
सौरोत्सवे प्रकर्तव्यं द्ध्वजारोहणपूर्वकम्
चन्द्रोत्सवे दैविके च अङ्कुरार्पणपूर्वकम् २५५
भेरीताडनपूर्वञ्च उत्सवे च प्रशस्यते
सौरोत्सवे विशेषेण द्रव्यलोपे च सङ्कटे २५६
चान्द्रं वा देविकं वापि कारयेत्साधकोत्तमः २५७
चन्द्रात्सवे देविके च द्ध्वजारोहणपूर्वकम्
मोहेन कारयित्वा तु कुलक्षयमवाप्नुयात् २५८
विपरीतक्रियां कुर्यात् क्षयरोगं भवेत् गुरुः

सा — त्तराग्रं स्तम्भान् पूर्वादिपश्चिमाग्रकम् २५९
पीतस्तम्भैरलङ्कृत्य छन्नोदुम्बरसंयुतम्
ऊर्ध्वे तु छदकैर्युक्तम् अलङ्कृत्य विशेषतः २६०
ऊर्ध्वछादनमेवोक्तं चित्रवस्त्रैरलङ्कृतम्
कदलीस्तम्भकोपेतं पूगस्तम्भकमुच्यते २६१
नालिकेरप्रसूनञ्च स्तम्भकैर्न्नालिकेरकम्
इक्षुदण्डञ्च पनसं विचित्रालङ्कृतन्तथा २६२
मण्टपात् बाह्युदेशे तु द्ध्वजपीठस्य दक्षिणे
उत्तराभिमुखं स्थाप्य शशिशेखरनायकम् २६३
अस्त्रमूर्तिं समभ्यर्च्य पुण्याहं वाचयेत्ततः
देहशुद्धिन्ततः कृत्वा अन्तर्यजनमारभेत् २६४
अभिषेकं पुराकृत्वा गन्धपुष्पैरलङ्कृतम्
तत्वत्रयं समभ्यर्च्य न्यासकर्म समाचरेत् २६५
रज्जुना पटमाबद्ध्य सुमुहूर्ते सुलग्नके
अघोरास्त्रं समभ्यर्च्य द्ध्वजारोहणमाचरेत् २६६
वृषं शम्भुन्दण्डमूले —— चरेत्
परितोष्टघटान्ग्राह्य पूर्वद्यष्टदले यजेत् २६७
पश्चात् —– धूपदीपं समाचरेत्
प्रार्त्थयेत्परमेशानं राजराष्ट्राभिवृद्धिदम् २६८
द्ध्वजदण्डस्य पूर्वे तु सम्पूज्य विघ्ननायकम्
—- नन्तु निवेद्याथ —- वं समर्चयेत् २६९
नित्योत्सवेशं सम्पूज्य वीधिं गत्वा समाचरेत्
रात्रौ बलिं प्रकुर्वीत ब्रह्मेन्द्राग्नियमांस्तथा २७०
निर्ऋतिं पश्चिमे वायौ सोमे शान्तं बलिन्ददेत्
सप्तविंशद्दिनान्तं वा इहभोसन्निधीभव २७१
सप्तविंशतिपर्यन्तं प्रार्त्थयेत्साधकोत्तमः
ब्रह्मतालसमाख्यश्च मत्तावरणमेव च २७२
भृङ्गिणी मल्लतालश्च नवतालं बलिस्तथा
कोट्टरीयं ढक्करीश्च तालभेदं प्रकीर्तितम् २७३

चञ्चापुटी चाचपुटी चैव उट्घिद्टमट्टयम्
लम्बुकं सिह्मरन्ध्रञ्च जम्पटं पञ्चवाद्यकम् २७४
कुम्भवाद्यमिति प्रोक्तं मद्ध्ये कमलवनं तथा
भुजङ्गां चित्रस–साख्यं दण्डपालान् तथैव च २७५
भुजङ्गत्रास आज्याख्यं भुजङ्गललितन्तथा
सन्ध्यानृत्तं भ्रमरिकं नृत्तभेदाः प्रकीर्तिताः २७६
मद्ध्यमं वेलतत्वाख्यं वराटं कुञ्जरन्तथा
भैरवी देशिकश्चैव मकुटं मालवी तथा २७७
देशिकं रागभेदानि मेघरागन्तथैव च
गान्तारं कोल्लसं विद्यात्कौशिकं नट्टरावकम् २७८
श्रीकामरञ्चतक्केशितर्क्काख्यं तालपाणिना
इन्द्रादिलोकपालांश्च पद्मपीठे समर्चयेत् २७९
अस्त्रमूर्त्यासहोपेतं बलिनायकमेव च
नित्यपूजावसाने तु प्रादक्षिण्यं महेश्वरम् २८०
प्रभाते पुष्पलिङ्गन्तु मद्ध्याह्ने अन्नलिङ्गकम्
सायाह्ने अक्षतं लिङ्गं तथा नित्योत्सवं भवेत् २८१
द्ध्वजं नैवेदयेत्पूर्वं पश्चात्सन्धिं समाचरेत्
प्रथमावरणेनैव नित्याष्टबलिमुच्यते २८२
महाबलिन्ततः पश्चात् बलिक्रममिहोच्यते
यागद्वारे विशेषेण महाविष्णुबलिञ्चरेत् २८३
द्ध्वजपूजा ततः पश्चात् दिनदेवान्बलीन् चरेत्
पश्चात्सिद्धिं समाराद्ध्य पूजाक्रममिहोच्यते २८४
पूर्वं द्ध्वजाङ्कुरं विद्यात् तीर्त्थाङ्कुरमतः परम्
उत्सवे मद्ध्यमे चैव दशसङ्ख्यान्घटान्न्यसेत् २८५
सप्तविंशत् घटं न्यस्य पूर्वोक्तविधिना चरेत्
मद्ध्ये गणेशं सम्पूज्य परितोष्टघटे तथा २८६
आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा
अविघ्नो विघ्नकर्तारो दक्षाशीपञ्चहस्तकः २८७
द्वितीयावरणं पूज्य तृतीयावरणं श्रुणु

विकटो भीमपूर्वश्च गजवक्त्रो महोदरः २८८
दक्षिणे पूजयेत्पश्चात् पश्चिमे च ततश्शृणु
एकदन्तो महाकायो विनायकगणाधिपः २८९
तृतीयावरणे पूज्य इन्द्रादि च चतुर्त्थकम्
वज्रादीन्पश्चिमेऽभ्यर्च्य शेषान्पूर्ववदाचरेत् २९०
यागारम्भस्य पूर्वे तु आचार्यः कौतुकं वहेत्
पश्चात् बद्ध्वागणेशाय रक्षाबन्धनमुत्तमम् २९१
द्ध्वजाङ्कुरं ततः पश्चात्तीर्त्थाङ्कुरमतः परम्
नवकुण्डं हुनेच्चैव अथवा पञ्चकुण्डकम् २९२
पूर्वोक्तविधिना हुत्वा यागान्ते प्रथमं बलिम्
विघ्नेशं बलिबेरञ्च कालदाहन्तथैव च २९३
चण्डनाध इति ज्ञेयः द्वितीये दिवसे चरेत्
तृतीये दिवसे चैव गणेशं बलिनायकम् २९४
अग्निञ्च चण्डनाधञ्च त्रिपुरारिं तृतीयके
तृतीये दिवसान्ते च कार्तिकेयं विशेषतः २९५
कौतुकं बन्धयेत्तत्र यात्रास्नपनमुच्यते
यात्राहोमं ततः कृत्वा स्नात्वा चैवं समाचरेत् २९६
मद्ध्ये वेदीं प्रकल्प्याथ तत्पूर्वे तु षडश्रकम्
कुण्डं प्रकल्पयेत्पश्चात् स्कन्दयागं समाचरेत् २९७
जलन्धरं समभ्यर्च्य हुत्वा चैवं समाचरेत्
सायम्प्रातस्समभ्यर्च्य पञ्चमे दिवसे श्रुणु २९८
गजारिमर्चयेच्चैव शेषं पूर्ववदाचरेत्
षष्ठमे दिवसे चैव वीरभद्रेश्वरं विदुः २९९
सप्तमे दिवसे चैव स्कन्दयागविसर्जनम्
स्कन्दस्य कलशं स्नाप्य भक्तयागं ततश्शृणु ३००
तद्दिनान्ते विशेषेण मद्ध्ये वेदीं प्रकल्पयेत्
तत्पूर्वे कुण्डमेवोक्तं दशकुम्भान्पृथक्पृथक् ३०१
नन्दिनञ्च महाकालं भृङ्गिणं वृषभेश्वरम्
दुर्गाञ्च ईशकौबेरं वायुं वारुणराक्षसम् ३०२

प्रेतेशमपिनाधं स्यात् —– स्थमेव च
अष्टमङ्गलमेवोक्तं वज्रादींश्च दशायुधान् ३०३
अन्यानमुकभक्तांश्च रक्षाबन्धनपूर्वकम्
वेदिका मद्ध्यमे चैव दशकुम्भं पृथक्पृथक् ३०४
तत्तन्मन्त्रैस्समावाह्य प्रथमावरणे यजेत्
हृदयादीन्समभ्यर्च्य द्वितीय्यावरणे तथा ३०५
इन्द्रादिलोकपालांश्च अर्चयेत्स्वस्वमन्त्रकैः
पूर्वोक्तविधिनाहुत्वा यात्राहोमन्तु पूर्वकम् ३०६
यात्रास्नपनमेवोक्तं प्रत्येकं स्नानमाचरेत्
गजाननं कार्तिकेयं बलिबेरास्त्रिमूर्तिकम् ३०७
चण्डं भक्तगणैर्युक्तं हरेरर्द्धैश्चिरं चरेत्
अष्टमे अर्द्धनारी च किरातं नवमे दिने ३०८
गजाननमहायागं विसर्जनमतः परम्
कुम्भान्समुद्धरेच्चैव गणेशस्याभिषेचनम् ३०९
दिनान्ते वास्तु यागः स्यात् वेदिका मद्ध्यमे श्रुणु
पूर्ववद्दशकुम्भांश्च शिवास्त्रेशन्तु मद्ध्यमे ३१०
प्रथमावरणं पूज्य द्वितीय्या वरणे तथा
वज्रादिदश अस्त्रांश्च पक्षसङ्ख्ये घटे यजेत् ३११
दशास्त्रानर्चयेद्विद्वान् पूर्वोक्तविधिना हुनेत्
परिवारघटान्स्थाप्य सप्तविंशति सङ्ख्यया ३१२
उक्तमन्त्रेण सम्पूज्य नवकुण्डान्प्रकल्पयेत्
अथवा पञ्चकुण्डं वा अभावे एकमेव वा ३१३
पूर्वोक्तविधिना हुत्वा कौतुकं बन्धयेत्ततः
यात्रास्नपनमेवोक्तं होमकर्मसमाचरेत् ३१४
उमामहेश्वरञ्चैव दशमे दिवसे चरेत्
एकादशे वृषारूढं वैवाह्यं द्वादशे तथा ३१५
त्रयोदशे क्षेत्रपालम् एकमेकं दिनं प्रति
कौतुकं बन्धयेच्चैव यात्रास्नपनमुच्यते ३१६
होमञ्च पूर्ववत्कृत्वा अलङ्कृत्य विशेषतः

वेदिका मद्ध्यमे चैव दशकुम्भं पृथक्पृथक् ३१७
तत्पूर्वे स्नानवेदींश्च अभिषेकं विधीयते
दिनान्ते प्रतिदिनान्ते वा प्रत्येकं पूर्ववच्चरेत् ३१८
त्रयोदश दिनान्ते च चन्द्रशेखरमेव च
रक्षाबन्धनपूर्वं यः यात्रास्नपनमीरितम् ३१९
यात्राहोमन्तथा कृत्वा वेदिकाः पूर्ववच्चरेत्
दशकुम्भं न्यसेच्चैव तन्मद्ध्ये चन्द्रशेखरम् ३२०
पूजयेद्गन्धपुष्पाद्यैः प्रथमावरणे तथा ३२०-॥ २ ॥

हृदयादीन्समभ्यर्च्य द्वितीयावरणे तथा
शर्वादीन्पूजयेत्पश्चात्पूर्वोक्तविधिना हुनेत् ३२१
सायम्प्रातर्हुनेच्चैव अस्त्रेशं पूर्ववद्धुनेत्
समिदाज्य चरून्लाजान्माषशालियवान्तिलम् ३२२
सक्तुसर्षपमुद्गांश्च गोधूमं वैणवन्तथा
चणकं वीरशिम्बी च पृथुकं पिष्टमेव च ३२३
अपूपं लड्डुकं क्षीरं दधिचैवमधुस्तथा
पनसाम्रकदल्यश्च नालिकेरफलास्तथा ३२४
विरवां वेधच्छदनम् अशनी मृदुकन्दकम्
कपित्थमिक्षुखण्डञ्च गुलखण्डं प्रियङ्गुकम् ३२५
स्वादुकन्दञ्च नीवारं वल्लिकन्दन्तथैव च
अश्वत्थं वटवैणव्यम् औदुम्बरशमी तथा ३२६
खादिरञ्च अपामार्गं बिल्वं दूर्वापलाशकम्
सायम्प्रातर्हुनेच्चैव गणयागं ततश्शृणु ३२७
गणेशमूलमन्त्रेण वृत्तकुण्डे प्रधानके
पूर्वाद्यष्टसुकुण्डेषु उक्तमन्त्रेण होमयेत् ३२८
स्कन्दयागं विशेषेण एककुण्डं षडश्रकम्
स्कन्दमन्त्रेण जुहुयात्स्थण्डिलेवहुनेत्ततः ३२९
भक्तयागे महासेना पृथक्कुण्डं विना तथा
अस्त्रयागे तमेवोक्तं पृथुकुण्डं विना गुरुः ३३०
किरातञ्चैवकङ्कालं चण्डेशानुग्रहन्तथा

विषापहरणञ्चैव चक्रदानस्वरूपकम् ३३१
पञ्चवर्णसहोपेतम् एकमेकं दिनं प्रति
अस्त्रमूर्तिंश्रीबलिञ्च शशिशेखरमेव च ३३२
गणेशस्कन्दचण्डांश्च शिवभेदे सह क्रमात्
पञ्चवारन्तदेवोक्तम् अस्त्रयागं विसर्जनम् ३३३
अस्त्रकुम्भं समुद्धृत्य अस्त्रराजाभिषेचनम्
एकोनविंशद्दिवसे द्ध्वजाष्टकमुदाहृतम् ३३४
तद्रात्रौ कौतुकं बद्ध्वा उत्सवेशसमीपके
स्कन्दोपेतं द्वयं कृत्वा एकपात्रे निधाय च ३३५
सूत्रेनागान्समभ्यर्च्य भस्मे तुलकुलीश्वरम्
तण्डुलं नालिकेरञ्च्च हस्तेनोद्धृत्य भावयेत् ३३६
हेमसूत्रं समभ्यर्च्य सव्यहस्ते च दापयेत्
स्कन्दस्य सव्यहस्ते च शक्तेस्तु वामहस्तके ३३७
स्वतन्त्रशक्तिमभ्यर्च्य वामहस्ते च दापयेत्
महेशरूपभेदेषु चतुष्षष्टि च भेदकान् ३३८
सोमास्कन्देश्वरं प्रोक्तं कथं भूतं महेश्वरम्
अदीक्षितानां भक्तानां समयाचारलोपिनाम् ३३९
युक्तञ्च हौत्र्यदीक्षाञ्च ज्ञानदीक्षाख्यशाम्भवम्
साधारं हौत्र्यदीक्षाञ्च निराधाराख्यशाम्भवम् ३४०
घटमण्डलवह्निञ्च आचार्यश्च चतुर्विधम्
अस्त्रमूर्तिघटाख्यं स्यात् मण्डलं बलिनायकम् ३४१
महेश्वरं शिवाग्निं स्यात्कौतुकं भावयेत् गुरुः
वागीश्वराकृतिं देवं वागीशाभोगशक्तिकम् ३४२
नादं बिन्दुरिति ज्ञेयः शिवाग्निस्कन्दमुच्यते
तस्मादेव समाख्यातं सोमास्कन्देश्वरं विदुः ३४३
इतरेषाञ्च देवानां देवदेवि द्वयं भवेत्
तस्मात् हित्वा विशेषेण उत्सवेश्वरमारभेत् ३४४
सतुनानारूपेण कल्पते जगत् शक्तिमयं ज्ञेयं कर्तव्यश्शिव इतिस्तथा
३४४-॥ २ ॥

कुलालचक्रस्य मृत्तस्योपकरणं नोचेत्केवलं कर्त्राविना कर्तानोचेत्
प्रपञ्चेषुनो पादानेन कार्यकम्
कर्ताशक्तिद्वयेनैव पञ्चकृत्य क्रमं भवेत् ३४५
चक्रदण्डाम्भसाटङ्कं क्षुरिकापटमेव च
अलधीतैलमृदुना चक्रपीठमनेकशः ३४६
तथैव शक्तिभिः कार्यं शिवशक्तिद्वयं मतम्
तस्मात्सर्वप्रयत्नेन वीरशक्तिस्वतन्त्रिकाम् ३४७
पराशक्त्याख्यमेवोक्तम् उत्सवन्तु समाचरेत्
शिवस्योत्सवकालेषु शक्त्युत्सवं समाचरेत् ३४८
शक्त्युत्सवे विशेषेण शिवोत्सवन्तु कारयेत्
शिवोत्सवं विशेषोऽस्ति कथं शम्भो वद श्रुणु ३४९
यत्काले यद्दिने ऋक्षे उत्सवेषु प्रशस्यते
सोमास्कन्दोत्सवे काले वीरशक्तिं समाचरेत् ३५०
अन्यबेरैस्सहोपेतं वर्जयेत्साधकोत्तमः
मोहेन कारयित्वा तु कुलक्षयकरं भवेत् ३५१
एवं महोत्सवे काले यात्रास्नपनमुच्यते
यात्राहोमन्ततः कृत्वा दिक् ध्वजारोहणन्निशि ३५२
पूर्ववद्यागशालाञ्च अष्टवेदीं प्रकल्पयेत्
तत्पूर्वे चतुरश्रञ्च कुण्डं कृत्वा विशेषतः ३५३
वेदिका मद्ध्यमे स्थाप्य दशकुम्भान्पृथक्पृथक्
गजशुक्लनिभं विद्यात् मेषं वै रक्तवर्णकम् ३५४
कृष्णाभं माहिषञ्चैव प्रेतधूम्रनिभं तथा
मकरं हरितालं स्यात्कुरङ्गं पीतमुच्यते ३५५
कुरङ्गं श्वेतवर्णं स्यात् वृषभं पूर्ववच्चरेत्
प्रथमावरणेऽभ्यर्च्य द्वितीय्यावरणं श्रुणु ३५६
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः
पुष्पदन्तस्सार्वभौमस्सुप्रतीकश्च दिग्गजाः ३५७
मद्ध्ये तु गजराजस्स्यात्समभ्यर्च्य विशेषतः
गकारं पूर्वमुच्चार्य नाम्नास्वाहान्तमुच्यते ३५८

मद्ध्ये मेषं समभ्यर्च्य द्वितीय्यावरणो यजेत्
यत्रगोर्कमृषीञ्चैव वक्रशृङ्गीधनुर्मुखाः ३५९
रक्ताभोऽपि च रागाक्षः कुनखी मेषकाधिपः
अष्टकुम्भेषु सम्पूज्य पूर्वोक्तविधिना हुनेत् ३६०
माहिषं मद्ध्यमे पूज्य प्रथमावरणं यजेत्
नदी च शमनी चैव वीरघोषी च शृङ्गिणी ३६१
उद्धामभूमनिर्भूषो कर्णाक्षोवसुकुम्भके
सम्पूज्य विधिवद्धुत्वा प्रेतं मद्ध्यघटे यजेत् ३६२
उग्रदन्तो भीमसेनो अट्टहासो विरूपकः
भृकुटीमुखसन्तुष्टो खड्गयुग्दलनायकः ३६३
एतान्पूज्य यजेत्पश्चात्वारुणञ्च ततश्शृणु
मकारं मद्ध्यमे पूज्य —- कदन्नशोभिनः ३६४
विक्रमस्सम्भगो भग्नोऽधिकारो करुणोऽरुणः
एवं सम्पूज्य विधिवत् वायुञ्चैव ततः शृणु ३६५
हरिर्नीहाटकः शृङ्गी कुपुश्च वरदो नडः
शाल्मोदरः स्वादुवक्त्रो अष्टकुम्भेषु पूजयेत् ३६६
श्यामाङ्गः कठिनो वेग उन्मिषो निमिषो मृडः
धरो शील इति ज्ञेयः मद्ध्ये तुरगमुच्यते ३६७
उक्षश्च गोपतिश्चैव वृषभश्शङ्कुकर्णकः
तीक्ष्णशृङ्गोमहाकायो एकपादो वृषस्तथा ३६८
मद्ध्ये वृषं समभ्यर्च्य पूर्वोक्तव्धिना हुनेत्
नयनोन्मीलनं कृत्वा शेषं पूर्ववदाचरेत् ३६९
पताकारोहणं पश्चात् दण्डमूलेऽभिषेचयेत्
प्रथमं भूतरात्रं स्यात् द्वितीयं भूतेशरात्रिकम् ३७०
तृतीय्यमृषिरात्रं स्यात् चतुर्त्थं नररात्रकम्
गन्धर्वं पञ्चमे रात्रौ इन्द्ररात्रौ तु षष्ठमम् ३७१
सप्तमं गुहरात्रं स्यात् अष्टमं विष्णुरात्रकम्
नवमम् अग्निरात्रं स्यात् दशमं नागरात्रकम् ३७२
रौद्रमेकादशं रात्रं मातरं द्वादशं निशा

कूश्माण्डं त्रयोदशं रात्रं पितृरात्रं चतुर्दशम् ३७३
भानोः पञ्चदशं रात्रं षोडशं राक्षसाख्यकम्
शिवं सप्तदशं विद्यात् द्रुहिणोऽष्टादशे निशी ३७४
एकोनविंशत् मेषांशं विंशतिः प्रेतरात्रिकम्
एकविंशं निशि स्कन्दः द्वाविंशं निशि पौष्करी ३७५
त्रयोविंशं निशी चैव वृषरात्रं प्रकीर्तितम्
चतुर्विंशन्निशी ज्येष्ठां पञ्चविंशन्निशी तथा ३७६
किन्नरं रात्रिमेवोक्तं षड्विंशत् गरुडाख्यकम्
सप्तविंशन्निशी चैव देवरात्रिं प्रकीर्तितम् ३७७
निजदेवक्रमं प्रोक्तं तेषां श्रुणु बलीनि च
माषान्नञ्चैव मुद्गान्नं नीलान्नं सर्षपाशनम् ३७८
पायसान्नं गुलान्नञ्च दध्यन्नञ्च विशेषतः
शुद्धान्नञ्च मरीच्यन्नं हरिद्रान्नं तथैव च ३७९
लाजान्नं शर्करान्नञ्च कर्पूरान्नन्तथैव च
जीरकान्नमिति ज्ञेयः हरेणुकान्नमुच्यते ३८०
मध्वन्नञ्चैव तैलान्नम् आज्यान्नं विमलान्नकम्
कदलीफलमिश्रञ्च नालिकेरेण मिश्रकम् ३८१
आम्रसारेण मिश्रञ्च जम्बूफलसुमिश्रकम्
तिन्तिणीफलमिश्रञ्च कपित्थफलमिश्रकम् ३८२
इक्षुसारेण मिश्रञ्च दिनं प्रतिबलिञ्चरेत्
द्ध्वजपीठाग्रके चैव दिनदेवान्प्रपूजयेत् ३८३
बलिङ्कृत्वा विशेषेण अभिषेकक्रमं श्रुणु
दिनं प्रतिविशेषेण एकमेकं सुमिश्रकम् ३८४
वस्त्रपूतञ्च तोयञ्च पूरितं स्नानमाचरेत्
एलालवङ्गकर्पूर चन्दनागरुपर्णकैः ३८५
तक्कोलञ्चैव कच्चोलम् उशीरं चम्पकन्तथा
ह्रीबेरं दान्तमरुवं बीजं वल्कन्तथैव च ३८६
मत्कन्दं कन्दमद्ध्यञ्च परिवर्जनमारितम्
विरोदकं वा तु सञ्ज्ञेयः रक्तकाषायमेव वा ३८७

पुष्पोदकञ्च पत्राख्यं लोहोदकन्तथैव च
अस्त्रोदकञ्च बीजाख्यं रसोदकन्तथैव च ३८८
मूलोदकं यवाख्यञ्च स्नानद्रव्यमिहोच्यते
गणेशं स्कन्ददेव्यौ च सोमास्कन्देश्वरन्तथा ३८९
बलिबेरञ्चास्त्रमूर्तिं दिनबेरन्तथैव च
चण्डान्तमभिषिच्याथ यात्रास्नपनमेव वा ३९०
शूद्रादिस्पर्शशान्त्यर्त्थं स्नपनं कारयेत्ततः
तस्मात्स्नानं प्रकुर्वीत अन्यकालेषु वर्जयेत् ३९१
सङ्गमे वार्द्धयामे च अन्यकालेषु वर्जयेत्
पूर्वकाले तु निर्माल्यं विसृज्यालङ्कृतं यथा ३९२
नैवेद्यधूपदीपान्तं गेयनृत्तसमायुतम्
शूद्रादिस्पर्शनं नोचेत् अभिषेकन्न कारयेत् ३९३
दर्पणे स्नानमाराद्ध्य महेशालङ्कृतं यथा
धौतवस्त्रन्तु प्रथमं द्वितीयं रक्तवस्त्रकम् ३९४
कृष्णं श्यामञ्च पीतञ्च नीलं चित्राम्बरन्तथा
कृष्णं श्वेतं श्वेतपीतं पीतरक्तं तटित्प्रभम् ३९५
पद्मकान्तञ्च सुश्लिष्टं स्फटिकाभन्तदुच्यते
अरुणाभन्तु ऋक्षाभं दाडिमी कुसुमाभकम् ३९६
अतिरक्तं महानीलं वज्राभं रक्तभा तथा
पञ्चरत्नप्रभाञ्चैव त्रीणिरत्नप्रभन्तथा ३९७
चतुरत्नप्रभाञ्चैव माणिक्यङ्कृष्णवर्णकम्
रत्नं वैडूर्यमिश्रञ्च स्फटिकं पीतमिश्रकम् ३९८
सप्तविंशद्दिने चैव गणेशं प्रतिदेवतान्
अलङ्कृत्य विशेषेण सर्ववस्त्रैरलङ्कृतम् ३९९
हित्वा च प्रतिमावस्त्रं शेषन्धारयते द्ध्रुवम्
बाह्ये विधिगतो देवो पूज्यान्न्याभरणानि च ४००
कार्पासश्रौत्रचित्राख्य वस्त्रदिव्यपटानि च
देवाय प्रददेद्राज्ञा शिवभक्तजनेऽपि वा ४०१
अर्घ्याम्भसा च सम्प्रोक्ष्य युक्तन्देवस्य दापयेत्

यन्त्रं वा प्रददेत्काले देवमारोपयेत्ततः ४०२
अर्घ्येण प्रोक्षयेद्विद्वान् गन्धभेदान्ततश्शृणु
कपिलं ब्रह्मगन्धञ्च श्रीगन्धं विमलन्तथा ४०३
शिवप्रायाख्यगन्धं वा रजो गन्धाङ्गरागकम्
श्रिया मोदञ्च गीर्वाणं निर्यासं भद्रमेव वा ४०४
श्रीगन्धञ्च लवङ्गञ्च गरुडामोदमेव च
गन्धञ्च कृष्णगन्धञ्च श्रीगन्धं पद्मगन्धकम् ४०५
कर्पूरं यक्षकस्तूरी हिमाम्बुनाभितैलकम्
कुङ्कुमं रोचनादारु गन्धभेदाः प्रकीर्तिताः ४०६
नन्द्या वर्तञ्च पुन्नागं श्रियावर्तन्तथैव च
मल्लिका चैव मन्दारं —– मालतीन्तथा ४०७
बृहती वकुलं पद्मं जातिञ्च करवीरकम्
श्वेतार्कपाटली द्रोणं चाम्पेयोत्पलमेव च ४०८
प्रियानन्दाप्रियामोदा कुरवं सहभद्रिका
कल्हारं दान्तमरुवं श्रीबेरञ्चबकन्तथा ४०९
प्रवालमल्लिकाञ्चैव सप्तविंशदिनेऽपि वा
पुष्यरागेन्द्रनीलञ्च माणिक्याभरणन्तथा ४१०
रुद्राक्षं मौक्तिकञ्चैव वैडूर्यञ्च प्रवालकम्
सौवर्णमिन्द्रनीलञ्च पद्मबीजन्तथैव च ४११
गोमेधं रजतं शङ्खं स्फटिकं चन्द्रकान्तकम्
नीलं मरकतं रत्नं पुत्रदीपफलन्तथा ४१२
कल्हारकान्तं श्रीकान्तं मणिमालान्तथैव च
घण्टामालाविभूष्यञ्च शिरोमालाञ्च दापयेत् ४१३
वृश्चिकाभरणञ्चैव नागाभरणमेव च
बिल्वपत्राकृतिञ्चैव विघ्नेशादिशि वान्तकम् ४१४
घृतान्नञ्चैव दध्यन्नं क्षीरान्नञ्च तथैव च
मद्ध्वन्नञ्चैव मुद्गान्नं माषान्नञ्च तथैव च ४१५
तिन्त्रीणी च गुलान्नञ्च शर्करान्नन्तथैव च
मरीच्यन्नञ्च कृसरं हरिद्रान्नन्तथैव च ४१६

शुद्धान्नञ्चैव पक्वान्नम् एलकान्नन्तथैव च
लाजं पृथुकपिष्टञ्च उपभेदानि कत्थ्यते ४१७
सप्तविंशद्दिने चैव गणेशाद्युपचारकम्
बृहती कदली चैव नारिकेलन्तथैव च ४१८
कारवल्ली बृहद्वल्ली कूश्माण्डं पनसन्तथा
उर्वारुकञ्च आलर्कं निष्पावं विटपन्तथा ४१९
नारङ्गद्वयमेवोक्तं लिकुचं लाजमाषकम्
उद्यानबृहती शोकम् अर्शोघ्नं वल्लरीवरिः ४२०
वल्लीविस्तरिकान्ता च शर्करी च पटोलिका
दण्डशाक इति ज्ञेयः सस्य भेदाः प्रकीर्तिताः ४२१
शीताम्बुगुलसारञ्च एलकारसमेव च
कर्पूररसमित्युक्तं सूपसारं तथैव च ४२२
मरीचिसारमित्युक्तं नागरं रसमेव च
इक्षुसारं पयस्तक्षदधिश्च नालिकेरकम् ४२३
आम्रसारञ्च जम्बू च श्रियामोदन्तथैव च
सन्धानं सुन्दरामोदं सन्तापन्नरमेव च ४२४
सौभद्राद्वित्तसन्तोषं शीतशेखरमेव च
वारुणं मार्दवञ्चैव मन्त्रसन्तानमेव च ४२५
चित्तानन्दकरं चित्तम् अम्बुशेखरमेव च
एतानि जलभेदानि सप्तविंशद्दिनेऽपि वा ४२६
अम्बुशान्तिञ्च सिद्धिञ्च मूलं पाचनमेव च
भृताख्य सौख्यश्रीपाद्यं शुद्धसौतञ्च गौरवम् ४२७
चन्द्रेशशिशिरब्रह्मं योगं वारुणमेव च
कुङ्कुमञ्चन्दनञ्चैव दूर्वासिद्धार्त्थकन्तथा ४२८
उशीरञ्चैव तक्कोलम् एलकामलकन्तथा
कटुरं मधुरं वापि पिप्पली चबकन्तथा ४२९
शङ्खनीच इति प्रोक्ताः पाद्यभेदं प्रकीर्तितम्
मानसं सौख्यमित्युक्तम् आत्मसन्दीपनन्तथा ४३०
सौम्यमानसगन्धञ्च आम्रपुष्यप्रियाकचा

षडङ्गं विश्वभुवनं शाश्वतं वीरमेव च ४३१
भोगशश्वत्रुटी चैव ताम्बूलं वैणवन्तथा
लवङ्गं रेणुकञ्चैव जातीकर्पूरकुङ्कुमम् ४३२
ऐन्दवं माक्षिकं पद्मम् एते आचम्यभेदकाः
आगतं मिलितं स्थाप्यं निरोधार्घ्यन्तथैव च ४३३
देवाश्च नलिनञ्चैव पाशमोचनमेव च
श्रियाशशीकेवलञ्च मन्त्रार्घ्यं श्रीप्रदं भवेत् ४३४
शिवार्घ्यं पापमोच्यार्घ्यं दुस्वप्नहरमेव च
विष्काषङ्गमनं धीतं सहितं पापनाशनम् ४३५
सुधासौम्यञ्च सगणान् हर्षणं पावनं तथा
निरोधार्घ्यमिति ज्ञेयः अर्घ्यभेदाः प्रकीर्तिताः ४३६
निर्यासं चन्दनञ्चैव कुन्दुरुष्कञ्च कुङ्कुमम्
कृष्णलोहञ्च मेकञ्च कर्पूरं गुग्गुलुं रसम् ४३७
चम्पकं देवदारुञ्च मागतम् अनलन्तथा
माध्वी पकरसङ्कृष्णम् अमरूं पाकशन्दिनीम् ४३८
आत्मदर्शज्वालदारुं मार्दवं फलिनी तथा
पङ्कजं वा यथाघोषं धूपभेदाः प्रकीर्तिताः ४३९
नागपुं वृक्षकेतुश्च व्याघ्रसिह्मगजस्तथा
ऋक्षं पुष्पाख्यपद्मञ्च भूमीशान्तं तथैव च ४४०
प्रियानन्दं प्रियामोदं विश्वप्रियमनोरमम्
भद्रदीपं शशीनन्दं दीपशेखरमेव च ४४१
रुद्रदीपं मन्त्रदीपं राजदीपन्तथैव च
ग्रहकर्पूरमित्युक्तं पञ्चदीपन्तथैव च ४४२
एकदीपं समारात्रं नीराञ्जनमितिस्तथा
दीपभेदमिति प्रोक्तं यानक्रममतश्शृणु ४४३
प्रथमं पुष्पधामस्स्यात् द्वितीय्यं शबरन्तथा
कपोतञ्च तृतीये च पिङ्गलञ्च चतुर्त्थके ४४४
सन्धानं पञ्चमे चैव विकषं षष्ठमे दिने
सप्तमे मधुयानं स्यात् लोहितामष्टमे दिने ४४५

नवमे अम्बुवर्णं स्यात् दशमे पुष्पमण्टपे
एकादश दिने चैव कल्पकाख्यतरुस्तथा ४४६
पद्मवैमानं द्वादश्यां पुष्पकाख्यं त्रयोदशे
चतुर्दशी हेमधामरजताख्यन्तु पक्षके ४४७
षोडशं मौक्तिकं धामपरे विद्रुमधामकम्
अष्टादश दिने चैव चित्रधामप्रकीर्तितम् ४४८
एकोनविंशद्दिवसे भूतयन्त्रं विधीयते
विंशदिन्द्रविमानं स्यात् एकविंशो गजस्तथा ४४९
द्वाविंशे वाजियन्त्रं स्यात् वृषभन्तु परे हनि
कैलासयन्त्रमेवोक्तं चतुर्विंशतिरेव च ४५०
पञ्चविंशद्दिने चैव रथायानं प्रकीर्तितम्
षड्विंशदिवसे चैव सह यन्त्रं प्रकीर्तितम् ४५१
सप्तविंशदिने चैव सह यन्त्रं प्रकीर्तितम्
गणेशादिशिवान्तञ्च यानक्रममिहोच्यते ४५२
माषमुद्गयवञ्चैव नीवारं वृषभं तथा
निष्पावं चणकं ग्रीवं गोधूमं वेणुबीजकम् ४५३
गुग्गुलुङ्कुङ्कुमञ्चैव कर्पूरं त्रुटिरेणुकम्
बैन्दवं कदली चैव पनसश्छदमेव च ४५४
स्वादुकन्दं वल्लिकन्दम् इक्षुश्यामं वनाम्रकम्
रोचनाक्षीरमेवोक्तं होमद्रव्याणिकीर्तितम् ४५५
अश्वत्थं पाटलञ्चैव प्लक्षोदुम्बरखादिरम्
शमीवटमपामार्गम् अर्कबिल्वञ्च चन्दनम् ४५६
देवदारुश्च विजयम् अगरुं वेणुमेव च
चूतङ्गलूचिदूर्वा च तुलसीराजचम्पकम् ४५७
वनजङ्कुहरं जाम्बू अगरुं दारुकान्तिकम्
बदरीपद्मपुष्पञ्च सप्तविंशति भेदकान् ४५८
प्रथमे चक्रवालञ्च द्वितीये ऐकपत्रिका
श्वेतछत्रं परे रक्तं कृष्णं पीतं हरिप्रभम् ४५९
पञ्चवर्णं चित्रकारं रुद्राक्षसहितन्तथा

आज्यं छत्रं मौक्तिकञ्च प्रवालं रजतं प्लुतम् ४६०
हेमाकारं सूक्तिकर्णं त्र्यक्षञ्च निचुलाकृतिम्
लताकारं दन्तपङ्क्तिं शलकं बिम्बभेदकम् ४६१
श्वेतकज्यं क्षौमभेदं राजकर्णन्तु मल्लिका
हेमवाम्बक इत्येते छत्रभेदाः प्रकीर्तिताः ४६२
कृष्णद्ध्वजञ्च कार्पासं रक्तं श्यामं हरिप्रभम्
शुक्लं पीतं मिश्रवर्णं चित्रध्वजमहोत्पलम् ४६३
लतांविलिख्ययालं च चित्रलेखन्तु पाटलम्
निचुलं मत्स्यभूताञ्च व्याघ्रसिह्मशशक्रिटी ४६४
वराही गोपती पद्मं फललद्ध्वजभेदकान्
तक्केशीनन्ध्यरागञ्च मेघरागञ्च कौशिकम् ४६५
ताण्डवं पञ्चमं चैव नड्वीभाषकरन्तथा
अन्तालिकामरञ्चैव गान्धारं पञ्चमन्तथा ४६६
तक्केशीव्यश्रणी चैव कोल्ली च मेघनादकम्
पूर्वपश्चिममेवोक्तं मल्लरीहेमसूचके ४६७
एतानि स्थलभेदानि सप्तविंशद्दिनेऽपि वा
जर्झरी सिंहलीलश्च कधञ्च मृगविक्रमः ४६८
रङ्गलीलश्च श्रीरङ्गरङ्गतालस्तथैव च
गजलीला च तोरङ्गं हंसनन्दप्रदीपिकः ४६९
मल्लिकासिह्मनादञ्च आमोदं शरभलीलकम्
रङ्गाभरणमेवञ्च सिह्मानन्दजयन्तथा ४७०
विजयाप्रतितालञ्च मकरन्दस्तथैव च
कीर्तितालं राजविद्या जयतालाख्यमट्टकः ४७१
ब्रह्मतालसमश्चैव मल्लतालञ्च ढक्करी
बलिकोट्टरनङ्गश्च सप्तविंशति भेदिकान् ४७२
कालभेदान्प्रकर्तव्यं नृत्तभेदन्ततश्शृणु
अर्द्धचन्द्रो ह्यरालश्च शिखराख्यश्च मुष्टिकः ४७३
शुच्यास्यः पद्मकोशश्च कपित्थं कटकामुखम्
कमलावर्तनञ्चैव पद्मगोसर्पकन्तथा ४७४

मृगशीर्षश्च लाङ्गूलः भुजङ्गाञ्चित एव च
स्वस्तिकं दण्डपादञ्च भूजङ्गत्रासमेव च ४७५
कुञ्चितं सन्ध्यकानृत्तं भौमनीकरिहस्तकः
लताख्यपक्षवञ्जीञ्च पक्षप्रत्यरमेव च ४७६
ऊर्ध्वमण्डितमित्युक्तम् उरोमण्डितमेव च
तलिनी च इति प्रोक्ता सप्तविंशदिनेऽपि वा ४७७
चच्चपुट्चारपुट् चैव उत्घट्टितमहोज्वलम्
सिह्मकर्णं लट्टयञ्च कण्ठीरवविलासिनी ४७८
लम्बुकं सिह्मनादञ्च जम्पूटं सिह्मवाद्यकम्
कुम्भञ्च कर्णवाद्यञ्च फलकामृदुभाषिणी ४७९
अनङ्गसङ्घनी वीरं पुष्पपट्टसमेव च
नादं हुङ्कारवल्ली च जामिनी मदनी तथा ४८०
सन्ध्याश्च सन्ध्यवारिण्यां वाञ्छीनीवासनाकृषम्
सप्तविंशद्दिने चैव वाद्यभेदाः प्रकीर्तिताः ४८१
देशिकं मालवञ्चैव मकुटं देशिकाक्षरी
हैरविक्कुञ्जरञ्चैव वाराटं पेलवल्लरी ४८२
मद्ध्यमञ्चैव काम्बोधी पञ्चमम् उषरागकम्
तर्कं कौशिकरागञ्च इन्दलं शङ्खरागकम् ४८३
प्रथमे शशिचूडं स्यात् द्वितीये कालदाहकम्
तृतीय्ये त्रिपुरारिस्स्यात् जडन्धरवता तथा ४८४
पञ्चमे तु गजारिस्स्यात् वीरभद्रे च षष्ठमम्
हरेरर्द्धन्तु नवमम् अर्द्धनारीचखन्तथा ४८५
एकादशं किरातं स्यात् उमेशं द्वादशे हनि
वृषारूढं त्रयोदश्यां वैवाह्यञ्च चतुर्दशम् ४८६
पञ्चदशं क्षेत्रपालं किरातं षोडशन्तथा
सप्तदशन्तु कङ्कालं चण्डेशानुग्रहं परम् ४८७
विषापहरणञ्चैव दिनमेकोनविंशतिः
चक्रादाने तु विंशत्यां विघ्नेशानुग्रहं परम् ४८८
एकपादन्तु द्वाविंशत्त्रयोविंशत्सुखासनम्

चतुर्विंशद्दिने चैव दक्षिणामूर्तिरूपकम् ४८९
पञ्चविंशद्दिने चैव एकमेकं दिनं प्रति
आचरेद्विधिना चैव रथयानन्ततश्शृणु ४९०
गणेशं कार्तिकेयञ्च पार्वतीञ्चण्डनायकम्
महेश्वरञ्च पञ्चैते रथयानं पृथक्पृथक् ४९१
अथवा एकयानं वा देवमारोपयेत्ततः
प्रत्येकं रथयानं स्यात् उत्तमं परिकीर्तितम् ४९२
अथवा एकयाने च देवसिह्मासनो भवेत्
रविञ्च वामभागे च द्वितीय्या वरणं श्रुणु ४९३
गणेशं कार्तिकेयञ्च द्विपार्श्वे परिकीर्तितम्
पश्चाद्देशे तु चण्डेशं प्रदक्षिणक्रमेण वा ४९४
यत्पूर्वं यत्स्थलं प्राप्य तत्स्थानेषु प्रदापयेत्
सायाह्ने तु समभ्यर्च्य देवमादाय बाह्यके ४९५
मञ्चे वा शिबिके वापि प्रस्थिता स्थानमण्टपे
देवमारोपयेत्तत्र प्रायश्चित्तं समाचरेत् ४९६
सहस्रं वातदर्द्धं वा तदर्द्धं वा शतन्तु वा
कलशस्नानपूजाञ्च महाहविर्निवेदयेत् ४९७
तत्क्षणे देवमादाय प्रदक्षिणक्रमेण वा
स्वगृहे वेशयेत्पश्चात् मूलबेरेऽभिषेचयेत् ४९८
नैवेद्य धूपदीपान्तं पश्चात्पूर्ववदुत्सवम्
कारयेन्नित्यहोमन्तु प्रदक्षिणक्रमेण तु ४९९
षड्विंशद्दिवसे चैव मद्ध्याह्ने वाभिषेचयेत्
अश्वारूढेस्वरं प्रोक्तम् अभावे तु महेश्वरम् ५००
वाजिमारोपयेत्तत्र खड्गखेटकधारिणम्
भिण्डिपालमलङ्कृत्य छत्रचामरपिञ्च्छकैः ५०१
दासीदासजनैराज्ञा शिवभक्तजनैस्सह
अश्वारूढान्सुवेषाढ्यान् मृगयात्रां प्रकल्पयेत् ५०२
पृष्टिश्शशक एना च व्याघ्रकुण्डरिसत्वकान्
छित्वा च वयसां हित्वा निलयं वेशयेत्ततः ५०३

पीठमुद्वासयेच्चैव स्नानकर्मपरे हनि
चन्दनालिप्तपुष्पैश्च दिव्यैराभरणैर्युतम् ५०४
नैवेद्यधूपदीपान्तं देवधामप्रदक्षिणम्
पिपीलिका दशात्पूर्वं देवमादाय मञ्चके ५०५
प्रस्थिताब्रह्मसन्ध्यन्तं पुनरास्थानमण्टपम्
प्रविशेत् होमकर्मञ्च अधिवासनकर्मणि ५०६
कृष्णगन्धं समादाय नटेशाय प्रदापयेत्
वीधी प्रदक्षिणं पश्चात् तीर्त्थकर्मसमाचरेत् ५०७
सह स्थाने प्रविश्याथ नित्योत्सवमतः परम्
मद्ध्याह्ने नित्यपूजान्ते तीर्त्थकर्म ततश्शृणु ५०८
मूलबेराग्रके चैव द्ध्वजाग्रे वा प्रकल्पयेत्
महेशसन्निधौ वापि भेरी ताडनमाचरेत् ५०९
देवता वाहनञ्चैव विसर्जनमतः परम्
तीर्त्थाङ्कुरं समादाय स्थापयेदेव सन्निधौ ५१०
धान्येन स्थण्डिलं कल्प्य पद्ममष्टदलं लिखेत्
उलूखलं प्रतिष्ठाप्य मुसलं स्थापयेत्ततः ५११
तैलं दूर्वाचरजनी कौपीनञ्च चतुर्दिशि
स्थाप्याभ्यर्चयेत्पश्चात् रजनीमद्ध्यमे क्षिपेत् ५१२
पृथ्वीमुलूखलं पूज्य मेरुं दण्डेषु पूजयेत्
संस्पृश्य पदमन्त्रेण जप्त्वा नियतमानसः ५१३
दासीजनोतं सम्मर्द्य चूर्णं पात्रे समाहरेत्
तैलं दूर्वा विनिक्षिप्य अङ्कुरान्विसृजेत्ततः ५१४
शिवभक्तजनान्सर्वान्दापयेत्स्नानकर्मणि
यन्मासे यदि नक्षत्रे तदृक्षे तीर्त्थमाचरेत् ५१५
मद्ध्याह्नव्यापिका ऋक्षे तीर्त्थमुत्तममुच्यते
नद्यादौ पूर्णतीर्त्थे वा शिवालयसमीपके ५१६
तटाके वा विशेषेण तदृक्षे तीर्त्थमाचरेत्
एकमासे द्विवारे च खण्डिते यदि ऋक्षके ५१७
नाडी दशविहीने तु पूर्वे तीर्त्थमनुष्ठितम्

द्विवारे पर्वनक्षत्रं नक्षत्रन्तु प्रशस्यते ५१८
समुद्रे पर्वणि श्रेष्ठम् अन्ये ऋक्षप्रधानकम्
एकमासे द्विनक्षत्रे अतिथिद्वय ऋक्षके ५१९
अन्त्यर्क्षे तीर्त्थमित्युक्तं विशेषं साधकोत्तमः
एकमासे द्विनक्षत्रे अन्त्यर्क्षे पर्वसंयुतम् ५२०
तिथिऋक्षसमायुक्तं श्रुणु दुर्लभमुच्यते
ध्वजारोहणतीर्त्थान्तम् एकमासे प्रशस्यते ५२१
तिथि द्वयन्तु सम्प्राप्ते अतिथिम् अन्यऋक्षके
पूर्वन्त्यक्त्वापरं ग्राह्यं तीर्त्थकर्मसमाचरेत् ५२२
अन्त्यर्क्षे तीर्त्थमित्युक्तम् उत्तमं श्रुणु षण्मुख
एवं महोत्सवे तीर्त्थं राजराष्ट्रविवर्द्धनम् ५२३
गत्वा नद्यादितीर्त्थेषु महेशस्य च सन्निधौ
रजनी वस्त्रमादाय महेशस्य प्रदापयेत् ५२४
धान्यपुञ्जैरलङ्कृत्य मुनिसङ्ख्याकथं न्यसेत्
गङ्गाञ्च यमुनाञ्चैव नर्मदाञ्च सरस्वतीम् ५२५
गोदावरीं गौतमीञ्च कावेरीं पूजयेत्ततः
त्रिशूलेन सहस्नानं तीर्त्थकर्मसमाचरेत् ५२६
यागकुम्भान्विसृज्याथ मूलबेरेऽभिषेचयेत्
तद्रात्रौ अवरोहं स्यात् लोकपालविसर्जनम् ५२७
प्रधानध्वजमेवोक्तं षट्त्रिंशद्दिवसान्तकम्
एकोनविंशद्दिवसे शिबिका यानमाचरेत् ५२८
भिक्षाटनोत्सवं कुर्यात्त्रिंशद्दिने ततश्शृणु
मत्स्य लीलां विधातव्यं चरेद्यानेकपोतके ५२९
एकत्रिंशद्दिने चैव शक्त्युत्सवमतः परम्
द्वात्रिंशद्दिवसे चैव त्रयस्त्रिंशद्दिने तथा ५३०
शक्त्युत्सवञ्च त्रिदिनं मृगेन्द्रं प्रथमे दिने
द्वितीयेहंसमेवोक्तं तृतीये स्मरयानके ५३१
यात्रास्नपनमेवोक्तं होमकर्मसमाचरेत्
पृथक्पृथक् दिने चैव चण्डयागन्ततश्शृणु ५३२

दशकुम्भान्न्यसेच्चैव चण्डनाधं प्रपूजयेत्
पूर्वाद्यष्टघटे चैव लोकपालान्प्रपूजयेत् ५३३
अर्द्धचन्द्राकृतिः कुण्डं पूर्ववत्परिकल्पयेत्
चतुस्त्रिंशद्दिने रात्रौ होमकर्मसमाचरेत् ५३४
पञ्चत्रिंशद्दिने चैव सायं प्रातर्हुनेत्ततः
चण्डोत्सवं प्रकल्प्याथ चण्डयागविसर्जनम् ५३५
मुलबेराभिषेकं स्यात् षट्त्रिंशद्दिवसे श्रुणु
वैवाह्येशमलङ्कृत्य चन्द्रशेखरमेव च ५३६
सोमास्कन्देश्वरं वापि यात्रास्नपनमुच्यते
वह्निकर्मसमाराद्ध्य स्नात्वालङ्कारमेव च ५३७
महेश्वरं समादाय ध्वजदण्डस्य सन्निधौ
दण्डमूलेऽभिषेकं स्यात् नैवेद्यं धूपदीपकम् ५३८
मन्त्रं पाशुपतेनैव उच्चरेदवरोहणम्
आचार्यस्योत्सवं पश्चात् दक्षिणान्दापयेत्ततः ५३९
अङ्कुराद्यवरोहान्तं ब्राह्मणान्भोजये ततः
उत्सवस्य क्रमं वक्ष्ये भेदानां रन्ध्रसङ्ख्यया ५४०
तत्पूर्वरात्रिसंयुक्ते सायङ्काले समारभेत्
प्रभाते तीर्त्थमित्युक्तम् एकाहे तु बलिद्वयम् ५४१
तद्दिनस्य तु रात्रौ तु उत्सवन्तु प्रकल्पयेत्
बलिमेकं प्रकुर्वीत अन्ये तीर्त्थमनुष्ठितम् ५४२
एकाहं वृद्धिकादिश्च त्रीण्यहं वक्ष्यतेधुना
निर्दिष्टदिवसात्पूर्वे सायङ्काले विशेषतः ५४३
यानमेकं प्रकल्प्याथ त्रिदिनोत्सवमारभेत्
बलिसङ्ख्या कौशिकञ्च चतुर्त्थे हनितश्श्रुणु ५४४
प्रभाते तीर्त्थकर्मञ्च कल्पयेत्साधकोत्तमः
तद्दिने चास्त्रयागञ्च सायाह्नसमये ततः ५४५
उत्सवं कल्पयेत्पश्चात् बलिञ्चैव चतुर्त्थकम्
तृतीये दिवसे तीर्त्थं नित्यपूजावसानके ५४६
त्र्यहेषु च तथा चान्ते जलक्रीडां समाचरेत्

÷

एवं त्र्यहमित्युक्तं पञ्चाहं श्रुणु षण्मुख ५४७
सायाह्ने तु समारभ्य तत्पूर्वदिवसे युतम्
यन्त्रङ्कुर्याद्विशेषेण दशमं बलिसङ्ख्यया ५४८
षष्ठे हनिप्रभाते च तीर्त्थं कुर्यात्तु देशिकः
निर्द्दिष्टदिवसे चैव सायं काले समारभेत् ५४९
वसुसङ्ख्या बलिन्दद्यात्पञ्चाहे तीर्त्थमाचरेत्
तद्दिनाद्दिवमारभ्य नित्यपूजावसानके ५५०
पञ्चाहे चोत्सवं कुर्यात्तदन्ते तीर्त्थमाचरेत्
कन्यसं त्वविख्यातं मद्ध्यमञ्च ततश्शृणु ५५१
निर्द्दिष्टदिवसात्पूर्वं रात्रौ चैव समारभेत्
वह्निकर्म च तद्रात्रौ बलिञ्चैव चतुर्दिशम् ५५२
चूर्णोत्सवं चाष्टमेऽह्नि तीर्त्थकर्मसमाचरेत्
रात्रौ निर्द्दिष्टदिवसे उत्सवन्तु समाचरेत् ५५३
पञ्चबलिञ्च यानञ्च तद्रात्रौ तु भवेत्तदा
भानुसङ्ख्या बलिन्दद्यात् सप्ताहे तीर्त्थमुच्यते ५५४
निर्द्दिष्टदिवसादौ स्यात्पूर्वाह्ने वापराह्नके
केवलं भ्रमणं कुर्यात् अन्त्ये तीर्त्थं समाचरेत् ५५५
भौवनमिति विख्यातं दैविकञ्च ततश्शृणु
निर्दिष्टदिवसात्पूर्वं सायं काले समाचरेत् ५५६
स्मृतिसङ्ख्या बलिन्दद्यात् दशमे तीर्त्थमाचरेत्
तीर्त्थपूजावसानान्ते यानमेकं समाचरेत् ५५७
तदन्ते कौतुकं तीर्त्थं ब्राह्मीकमिति कत्थ्यते
दैविकं त्विति विख्यातं कौमारञ्च ततश्शृणु ५५८
तत्पूर्वदिवसे चैव अस्त्रयागं समाचरेत्
चतुर्दशाहे तीर्त्थं स्यात् षड्विंशत् बलिमुच्यते ५५९
वृद्धितं त्विति विख्यातं विजयञ्च ततश्शृणु
तद्दिने चास्त्रयागञ्च चतुर्विंशत् बलिन्ददेत् ५६०
त्रयोदशाहे तीर्त्थं स्यात् विजयमिति कत्थ्यते
केवलं भ्रमणञ्चैव तदन्ते तीर्त्थमुत्तमम् ५६१

मद्ध्यमत्रितयं प्रोक्तम् उत्तमत्रितयं श्रुणु
तत्पूर्वरात्रिमारभ्य कृशं बलिमिहोच्यते ५६२
षोडशे दिवसे तीर्त्थं तद्दिने चास्त्रयागकम्
अष्टाविंशत् बलिन्दद्यात्पक्षान्ते तीर्त्थमुत्तमम् ५६३
नित्यपूजावसाने तु यानमेकं समाचरेत्
तीर्त्थञ्चैव विशेषेण चान्द्रञ्चैव ततश्शृणु ५६४
तत्पूर्वदिनमारभ्य अस्त्रयागं समाचरेत्
चतुर्विंशत् बलिन्दद्यात् तीर्त्थमष्टदशे हनि ५६५
वृद्धितं त्विति विख्यातं विजयञ्च ततश्शृणु
तद्दिनस्य तु सायाह्ने उत्सवं बलिदानकम् ५६६
द्वात्रिंशत्सङ्ख्यया चैव सप्ताहे तीर्त्थमाचरेत्
यानमेकं समापाद्य अन्ते तीर्त्थं समाचरेत् ५६७
चान्द्रञ्चैवेति विख्यातं सौरञ्चैव ततश्शृणु
तत्पूर्वदिनमारभ्य गणास्त्रं पूर्वमाचरेत् ५६८
चतुरुत्तरपञ्चाशत् बलिं कृत्वा यथा क्रमम्
अष्टाविंशद्दिने चैव तीर्त्थकर्मसमाचरेत् ५६९
तद्दिनस्य तु सायाह्ने उत्सवं बलिदानकम्
पञ्चाशत् बलिसङ्ख्या च षड्विंशद्दिवसे तथा ५७०
तीर्त्थकर्मसमारभ्य विजयं परिकीर्तितम्
यानमेकं समापाद्य अन्ते तीर्त्थं समाचरेत् ५७१
एकैकं त्रिविधं प्रोक्तमादिमद्ध्यावसानके
उत्सवे चैव कार्याणि पतिते तु दिनं प्रति ५७२
देवदेवाय विज्ञाप्य बलिदानं मया कृतम्
पूर्वाह्ने पुष्पलिङ्गन्तु मद्ध्याह्ने अन्नलिङ्गकम् ५७३
सायाह्ने अक्षतं लिङ्गं त्रिविधं परिकीर्तितम्
अस्त्रेशं पुष्पलिङ्गञ्च बलिबेरसमन्वितम् ५७४
छत्रचामरसंयुक्तं घण्टारवसमन्वितम्
सर्ववाद्य समायुक्तं दासीदासजनावृतम् ५७५
बलिदीपसमायुक्तं बलिपात्रसमन्वितम्

स्वस्तिसूक्तसमायुक्तं बलिन्दत्वा क्रमात्ततः ५७६
नन्दीकालौ वृषं पीठं भानुमुण्डी च मातरः
वीरभद्रं गणेशञ्च विघ्नेशञ्च हरिं गुहम् ५७७
दुर्गाञ्चण्डेश्वरञ्चैव द्वितीय्यावरणे श्रुणु
दण्डी भृङ्गी भैरवांश्च महापीठवृषध्वजौ ५७८
वृषं शूलन्तु ज्येष्ठां वा तत्र कृत्वा प्रदक्षिणम्
महापीठाग्रके देवराजस्ताम्बलिमीरितम् ५७९
वह्निवैवस्वतोमारो वरुणश्चैव मारुतः
यक्षेशं क्षेत्रपालञ्च ईशं विष्णुविरिञ्चकौ ५८०
द्वितीयावरणञ्चैव तृतीय्यावरणे श्रुणु
प्रासादनिर्गमद्वारदेशे द्वारबलिन्ददेत् ५८१
प्रवेशस्योत्तरे भागे कुम्भोदरबलिन्तथा
तस्य दक्षिणपार्श्वे तु महोदरबलिन्तथा ५८२
तयोर्मद्ध्ये महादेवी बलिन्दत्वा विचक्षणः
ब्रह्मस्थानादितो वापि इन्द्रस्थानादितोऽपि वा ५८३
इष्टिकां वा मृदा वापि कारयेत् बलिपीठकम्
गोमयालेपनं कृत्वा प्रोक्षयेत्पञ्चगव्यकम् ५८४
ज्वाला जिह्वा ज्वलत्केशा महाक्रोधो महाबलः
मर्त्याशनश्चण्डवेगो वास्तुपालोबलिप्रियः ५८५
महाभूतश्च विज्ञेयः ब्रह्मस्थानादितः क्रमात्
पूर्वं त्यक्त्वाथ देवाश्च इन्द्रस्थानादितो बलिम् ५८६
ग्रामशान्तिकरं प्रोक्तं पीठाग्रे गोपुराग्रके
ऐशान्ये पीठवामे च चरेद्दिनबलिं गुरुः ५८७
दिनं प्रतिविशेषेण सायं प्रातर्बलिद्वयम्
सर्वदेवस्य तृप्त्यर्त्थम् ईशास्त्रायबलिं क्षिपेत् ५८८
गान्धारस्वरसंयुक्तं पुष्पाञ्जलिस्तु जम्पटम्
वराटिस्त्विन्द्रदेशे तु देवता प्रियकारणम् ५८९
कोल्लिस्वरसमायुक्तं वृत्यालीढञ्च मट्टयम्
भूपालिगिरिरागञ्च अग्निदेशे प्रियार्त्थकम् ५९०

कौशिकं मङ्गलावर्तम् एकतालसमन्वितम्
गानं देशगिरायुक्तं नैर्ऋते तु विशेषतः ५९१
श्रीकामस्वरसंयुक्तं तालञ्चञ्चुपुटन्तथा
गानं सोमगिरीयुक्तं वारुण्यान्दिशिचाचरेत् ५९२
तक्केशी च भुजङ्गाली डम्बली तालसंयुतम्
गानं मालवसंयुक्तं वामदेशे प्रियार्त्थकम् ५९३
पञ्चमोद्घट्टितञ्चैव कुम्भतालसमन्वितम्
शुद्धगौडसमायुक्तं सौम्यदेशे प्रियार्त्थकम् ५९४
ऐशान्ये चैन्दलं प्रोक्तं कुञ्चितं वर्मतालकम्
छायागौडसमायुक्तम् ईशदेशे प्रियावहम् ५९५
एवं प्रदक्षिणं कृत्वा प्रविशेदालयं प्रति
पादप्रक्षालनं कृत्वा महापीठे बलिं क्षिपेत् ५९६
धामप्रदक्षिणवशात् प्रविशेद्देवमण्टपम्
नीराञ्जनं ततः कृत्वा बलिबेरस्य देशिकः ५९७
अन्नलिङ्गं जपेत्क्षिप्य अक्षतांश्च जले क्षिपेत्
पुष्पलिङ्गं जले क्षिप्य मूलबेरे च देशिकः ५९८
योजयेत्त्रीणिलिङ्गञ्च जले क्षिप्य ततः परम्
पुष्पाञ्जलित्रयं कृत्वा मूलबेरस्य सन्निधौ ५९९
ततस्सन्ध्यावसाने तु यात्रास्नपनमुत्तमम्
सकलेशमलङ्कृत्य रथे वा शिबिकेऽपि वा ६००
खेटमारोपयेत्तत्र वीधिसम्मार्जनं कुरु
सेचयेत्तु जलेनैव कदलीक्रमुकैः फलैः ६०१
पूर्णकुम्भे चित्रवस्त्रं गन्धञ्च कन्तुकन्तथा
हिमतोयन्दर्पणञ्च केशशोधनमेव च ६०२
अञ्जनं कृष्णगन्धञ्च ह्रीबेरम् उशिरन्तथा
कल्हारञ्जातिपुष्पञ्च चम्पकं नालिकेरकम् ६०३
ताम्बूलं क्रमुकञ्चैव शतपुष्पञ्च दीपकम्
पृथक्पृथक्गृहद्वारं नानादीपसमायुतम् ६०४
नानाभक्तजनैर्युक्तं नानाच्छत्रसमायुतम्

नानाद्ध्वजसमायुक्तं नानाविद्यासमन्वितम् ६०५
चामरन्तालवृन्दञ्च दाडिकैश्च प्रदापयेत्
महाशैवास्तदन्ते तु तदन्ते भूसुरास्तथा ६०६
तदन्ते रुद्रगणिका तदन्ते वाहनादि च
तदन्ते वाद्यघोषश्च तत् बाह्ये क्षत्रियादयः ६०७
ग्रामप्रदक्षिणं कृत्वा प्रविश्यस्नानमण्टपम्
सिह्मासने समारोप्य पाद्यमाचमनार्घ्यकम् ६०८
गण्डिकाक्षजलन्देवं करसम्पूर्णमानतः
एकत्रिपञ्चवारं वा विसृजेदस्त्रमन्त्रतः ६०९
भूमिं संशोधयेच्चैव नालिकेरफलादिकम्
नैवेदयेत्तु पानीय्यं ताम्बूलं दापयेत्ततः ६१०
कर्पूरकलशेनैव धूपदीपन्तथैव च
नीराञ्जनन्ततः कृत्वा शुद्धनृत्तं तथैव च ६११
नानादेशकथावाक्यैर्धर्मयुद्धादिभिर्दृशः
विनोदवाक्यैरन्यैश्च महाज्वालादिदर्शनम् ६१२
वीणावेणुमृदङ्गैश्च कन्यैश्चाप्युपशोभितः
आचार्यस्सव्यभागे तु वामभागे नृपस्तथा ६१३
तयोश्च पृष्ठदेशे तु शिष्यभृत्याश्च संस्थिताः
गायकोवंशकादिश्च सव्यभागे प्रकल्पयेत् ६१४
मर्दको नर्तकश्चैव वामभागे च संस्थितः
पार्श्वयोरुभयोश्चैव रुद्रस्य गणिकास्तथा ६१५
महेशाग्रे विशेषेण बहुरूपं समाचरेत्
धामाग्रे चोत्तरे वाथ दक्षिणे दापयेत्ततः ६१६
धूपाद्यारात्रिकादिश्य पश्चिमे विन्यसेच्च वा
गोमयालेपनं कृत्वा पुष्पचूर्णैर्विचित्रयेत् ६१७
पाद्य द्रव्यादिकान्सर्वान् अपरान्दिवसोचितान्
द्रव्याण्याहूयदेवाग्रे स्थापयेद्देशिकोत्तमः ६१८
पाद्यद्रव्यादिकांश्चैव स्नानार्त्थन्द्रव्यमैन्द्रके
वस्त्रभूषणगन्धञ्च दक्षिणे दापयेत्ततः ६१९

भूपाद्यारात्रिकान्दिश्य पश्चिमे विन्यसेत्ततः
सौम्ये तु मुखवासञ्च पानीय्यं द्रव्यसंयुतम् ६२०
पावके विन्यसेच्चैव नैवेद्यार्त्थञ्च तण्डुलम्
मरीची लवणं हिङ्गु जीरकं चोपदंशकः ६२१
विन्यसेन्नैर्ऋते चैव वायव्ये छत्रचामरम्
छन्नवस्त्रं सतैलञ्च दीपदण्डान्तदेशके ६२२
अन्यानि सर्वद्रव्याणि देवाग्रे विन्यसेत्ततः
द्रव्याधिवासनार्त्थञ्च पुण्याहं वाचयेत्ततः ६२३
इत्थं यागोपकरणं सर्वं धाम्ने प्रवेशयेत्
धामप्रवेशनस्यान्ते नानालङ्कृतसंस्कृतम् ६२४
उत्सवे शमलङ्कृत्य गन्धपुष्पैरलङ्कृतम्
शिबिकादौ समारोप्य भवान्यालयमाविशेत् ६२५
मञ्चे वा अथ पर्यङ्के मृदुपुष्पसमन्विते
तस्योर्ध्वे वस्त्रमास्तीर्य स्थापयेत्प्राङ्मुखं विभुम् ६२६
तस्य दक्षिणपार्श्वे तु भोगशक्तिन्तु स्थापयेत्
सप्तमातृगणं पूर्वे रोहिणी गणमुत्तरे ६२७
गुह्यमातृगणन्दक्षे पश्चिमे विष्णुमातरम्
ब्रह्ममातृगणाधीशे पावके – मदन — ६२८
वसन्तन्नैर्ऋतेऽभ्यर्च्य नक्षत्रेशञ्च वायवे
पादुकं राजचिह्नञ्च पूर्वादीनि प्रदक्षिणम् ६२९
नैवेद्यधूपदीपान्ते राजास्त्रं परितोऽर्चयेत्
वस्त्रेण सपिधानञ्च कुर्यात्कवाटबन्धनम् ६३०
रात्र्यन्ते तु गुरुस्नात्वा सन्ध्यावन्दनमाचरेत्
दशवारं सप्तवारं जप्त्वा च शिवमन्दिरम् ६३१
प्रविश्य विजयं कृत्वा शक्त्यालयं प्रवेशयेत्
कवाटोत्घाटनं तत्र अस्त्रमन्त्रं समुच्चरन् ६३२
प्रच्छन्नपटमावृत्य प्रणम्यसकलेबरम्
ओन्नमो देवदेवेश सर्वलोकैकनायक ६३३
उत्तिष्ठस्नानकर्मार्त्थं सर्वलोकाभिवृद्धये

इत्युक्त्वा देवमादाय शिबिकायां निवेशयेत् ६३४
आस्थानमण्टपं गत्वा न्यसेत्सिह्मासनोपरि
दर्पणं स्थापयेच्चैव उत्सवे शस्य सन्निधौ ६३५
गन्धतैलसुपिष्टाद्यैः पञ्चगव्यामृतैरसैः
नालिकेरञ्च गन्धञ्च स्नपनञ्चाभिषिच्य च ६३६
समावर्ज्य च वस्त्रेण कौपीन्यादीन्विसर्जयेत्
शुद्धवस्त्रेण संवेष्ट्य वेदिका मद्ध्यमे न्यसेत् ६३७
दर्पणं मूर्तिमादाय योजयेत्तु महेश्वरम्
गन्धपुष्पैरलङ्कृत्य हविर्निवेदयेत्ततः ६३८
मूलबेरे विशेषेण नित्यपूजां समाचरेत्
शिवाग्नौ यजनं कृत्वा दिनाधिपतिबीजकम् ६३९
पूर्वोक्तविधिनानेन यागे होमं समाचरेत्
ततोस्त्रराजमादाय बलिबेरसमन्वितम् ६४०
तत्तत्स्ननाममन्त्रेण धनदेवान्बलिञ्चरेत्
ग्रामप्रदक्षिणं कृत्वा शफरे शिबिकेऽपि वा ६४१
वाहने खेटके वापि अभावे खेटकेऽपि वा
प्रथमं भूमिरक्षार्त्थं द्वितीय्यम् अन्तरिक्षकम् ६४२
तृतीय्ये स्वर्गरक्षार्त्थं प्रदक्षिणत्रयन्तथा
धामप्रदक्षिणं पूर्वं द्वितीय्यावरणन्तथा ६४३
पश्चाद्वीधिं प्रदक्षिण्य सायं प्रातर्द्वये तथा
नानाद्ध्वजसमायुक्तं नानाछत्रविभूषितम् ६४४
आचार्यकरमानेन अष्टहस्तन्तु दीर्घकम्
अष्टाङ्गुलसमन्नाहम् अपर्वं सत्वरं शुचिम् ६४५
काम्यार्त्थमग्रके ह्येषा चतुरङ्गुलनाहकम्
आद्यग्रे सुषिरं द्वे च वेणुशाखां समाहरेत् ६४६
अष्टाशीति शलाकाञ्च वितस्तिं मद्ध्यदीर्घकम्
कार्पासरज्जुनावेष्ट्य अग्रे मद्ध्ये तदन्तरे ६४७
मूले तु वलयाकारं तदन्तं पूर्ववत् ग्रहेत्
चतुर्वितस्तिदीर्घञ्च षष्ट्युत्तरशतं भवेत् ६४८

बन्धयेन्मद्ध्यमे मद्ध्ये मद्ध्येपिचयुगाङ्गुलम्
वितस्तितालदीर्घञ्च ऊर्ध्वे तु चूडिबन्धनम् ६४९
अधोमुखाग्रभागाश्च तद्वत् मूलाग्रबन्धयेत्
पीतं शुक्लं तथारक्तं कृष्णश्यामविचित्रकम् ६५०
मनो शक्त्या प्रकल्प्याथ ऊर्ध्वाधश्च पटद्वयम्
ताले ताले क्रमात् बद्ध्य परिवेष्टाकृतिञ्चरेत् ६५१
स्वर्णे नरजते नैव कांस्य ताम्रञ्च लोहकम्
मकुटं पूर्ववत्कृत्वा पादुका छत्रमूलके ६५२
सौवर्णरजतेनैव लोहैर्वा पञ्चभेदकैः
दण्डालङ्कृतमेवोक्तं चित्रलक्षणमुच्यते ६५३
द्वादशं करदीपञ्च पूर्ववद्दण्डमुच्यते
द्विकरं विस्तरञ्चैव चतुर्हस्तन्तु दीर्घकम् ६५४
चतुरश्राकृतिञ्चैव नानावस्त्रेण वेष्टयेत्
अग्रे च मद्ध्यमे छित्वा त्रियश्राकृतिमारभेत् ६५५
ध्वजस्य लक्षणं प्रोक्तं तालञ्चैव ततश्शृणु
पूर्ववद्दण्डमानञ्च द्विकरं विस्तरन्तथा ६५६
वृत्तं वा कल्पयेत्पश्चात् शलाकां पूर्ववच्चरेत्
षोडशं द्वादशं वापि वृत्ताकारसमं भवेत् ६५७
विविधैश्चित्रवस्त्रैश्च द्विपार्श्वे बन्धयेत्ततः
मकुटं पादुका कृत्वा मत्स्यध्वजकिलध्वजान् ६५८
विलंष्कफलवच्चैव निचुलाकृतिमेव च
बर्हिपिञ्छं प्रकल्प्याथ नानावर्णैश्च शोभितम् ६५९
दारुजैर्वा विलालैर्वा मेषयुद्धा कृती चरेत्
सूकरत्रययुद्धं वा अजाशार्दूलयुद्धकम् ६६०
समकुक्कुटयुद्धं वा शुनिसूकरमेव च
श्वानेन शशयुद्धञ्च व्याघ्रेण श्वाकुलैरपि ६६१
गजशार्दूलमेवोक्तं तुरङ्गश्वानयुद्धकम्
पारावतांशुकं वापि श्येनविप्रवियुद्धकम् ६६२
अन्यान्लीला विनोदांश्च दीपभेदान्ततश्शृणु

गजदीपं सिह्मदीपं व्याघ्रदीपमनासकम् ६६३
शबरं दीपमेवोक्तं वृद्ध–त्रिदीपधारकम्
दशग्रीवं महादीपं पञ्चवक्त्राकृतन्तु वा ६६४
षड्वक्त्रं त्रयमेकं वा गडुकान्दीपभेदकान्
पञ्चभौतिकवाद्यञ्च दारुजं पृथिवी तथा ६६५
शङ्खमापमयं प्रोक्तम् आग्नेयं लोहजातिकम्
वंशादिकं वा तद्भेदं गगनं रागभेदकान् ६६६
मद्दलं सुखमेवोक्तं ताला वै क्लेशनाशनम्
भेरिं पुष्टिविवर्द्धञ्च पटहं पापनाशनम् ६६७
अभयं करतालञ्च वामहस्तं प्रियं भवेत्
मोक्षं वै कुम्भवाद्यञ्च इष्टकाम्यार्त्थझल्लरी ६६८
नाडीसन्धानवाद्यञ्च कोटियज्ञफलं भवेत्
वंशजं सुषिरं गानं पुत्रपौत्रविवर्द्धनम् ६६९
चारुचर्मं जयं प्रोक्तं डमुरुञ्च वशीकरम्
शङ्खद्ध्वनिं शत्रुनाशं नृत्तं वै व्याधिनाशनम् ६७०
गीतं पुष्टिविवर्द्धञ्च तालं त्रैलोक्यवश्यकम्
कीटकं क्रोधनाशञ्च कदूटीशोकनाशनम् ६७१
मुरवं मृत्युनाशञ्च सरमण्डलमोदकम्
वीणया च यशो वृद्धिः किन्नरं श्रीकरं भवेत् ६७२
तिमिली विजयञ्चैव वर्त्तुलं वित्तसम्भवम्
धारयासर्वसिद्धिः स्यात् चिह्नं राजवशीकरम् ६७३
त्रैष्यकं भोगमोक्षञ्च कर्तृकास्त्रीवशीकरम्
नाटकं धान्यवृद्धिं स्यात् शुद्धनृत्तं शुभं भवेत् ६७४
अङ्गमार्गञ्च कौण्डिन्यं राज्ञाञ्च विजयावहम्
काहलं धान्यवृद्धिं स्यात् छत्रमाज्ञाप्रपालनम् ६७५
द्ध्वजवेदी जयं प्रोक्तं शर्करा शत्रुनाशनम्
दीपभेदान्प्रकरणान् सर्वज्ञानप्रदायकम् ६७६
वाहनांश्च विमानादीन्भूपतित्वमवाप्नुयात्
उत्सवे चैव तत् ग्रामे मृते चैव नरे तथा ६७७

बाह्ये वीधिगतो देवो मद्ध्ये नरमृते सति
प्रादक्षिण्य क्रमेणैव प्रविशेदालयं यथा ६७८
शवालङ्करणं नो यत्तत्क्षणे युक्तदेशके
सृजेच्छान्तिं ततः पश्चात्पर्यग्निकरणङ्कुरु ६७९
बाह्ये द्वादश दण्डान्ते वीधिं यत्र प्रकल्प्यते
वीधिमद्ध्ये तु पर्यग्नि प्रादक्षिण्य क्रमेण वा ६८०
आशौचस्पृष्टितस्यान्तः तत् बाह्ये तु न कारयेत्
प्राकारस्य तु बाह्ये तु मूलाग्रञ्च चतुर्द्दिशि ६८१
नाराचमिति सञ्ज्ञेयः तत् बाह्ये वीधिमुच्यते
वीधीषु मृतमात्रेण नित्यपूजां प्रकल्पयेत् ६८२
पूजामद्ध्ये मृतं यत्र आशौचन्न समाचरेत्
पञ्च प्राकारमेवोक्तं कथमाशौचकं वद ६८३
चतुर्त्थावरणे चैव पञ्चमावरणेऽपि वा
मनुष्ये च मृते चैव आशौचन्न समाचरेत् ६८४
नित्यपूजाप्रकर्तव्या नैमित्तिकं विना यथा
प्राकारत्रितये चैव आशौचं कारयेत् बुधः ६८५
कुक्कुटं श्येनगृद्ध्रश्च गर्दभं महिषी तथा
सूकरंश्वानजम्बूको ऋतुस्त्रीचोरभ्रान्तकः ६८६
मलमूत्रमृतञ्चैव मन्दिरे रक्तदर्शनम्
उत्तमं मद्ध्यमं पूजाम् अधमं त्रिविधं भवेत् ६८७
उत्तमार्चनया चैव प्रथमा वरणे दृशेत्
शम्प्रोक्षणन्ततः कृत्वा द्वितीय्यावरणे श्रुणु ६८८
शान्तिहोमन्ततः कृत्वा मूर्तिहोमं समाचरेत्
तृतीयावरणे चैव पुण्याहं पञ्चगव्यकम् ६८९
एवमुत्तमपूजाञ्च मद्ध्यमे च ततश्शृणु
गर्भगेहं ततः प्राप्य सम्प्रोक्षणं समाचरेत् ६९०
प्रथमावरणञ्चैव शान्तिहोमं समाचरेत्
द्वितीयावरणे प्राप्य पञ्चगव्येन शोधनम् ६९१
तृतीयावरणञ्चैव पुण्याहं प्रोक्षणं कुरु

एवं वै मद्ध्यमे प्रोक्तमधमञ्च ततश्शृणु ६९२
अर्द्धमण्टपगेहे च शान्तिहोमं समाचरेत्
द्वितीय्यावरणे चैव पञ्चगव्येन शोधनम् ६९३
तृतीयावरणे चैव पुण्याहं प्रोक्षणं कुरु
स्पर्शनं मूलबेरस्य सहस्रकलशान् यजेत् ६९४
ब्रह्महत्ती सुरापायी चण्डालमतभेदकः
उपपातकिनश्चैव प्रमादाद्दर्शनं यदि ६९५
सहस्रस्नपनं वापि तस्यार्द्धं वा तदर्द्धकम्
अष्टोत्तरशतं वापि स्नपनं वा हि पूजनम् ६९६
स्नानद्रव्य विधानांश्च स्पृष्टं वा पतितेन वा
अभिषिच्य ततो ज्ञात्वा सम्प्रोक्षणमथाचरेत् ६९७
अन्नादिस्पर्शनं चैव श्वानमार्जारवायसाः
चोरैश्च स्पर्शनं कृत्वा त्यक्त्वा च शान्तिहोमकम् ६९८
नैवेद्यान्ते ततो ज्ञात्वा महास्नपनमुत्तमम्
जप्त्वा घोरञ्च नियुतं ततो म्लेच्छेन दर्शयेत् ६९९
पुण्याहं प्रोक्षणं चैव भाण्डन्त्यक्त्वा विशेषतः
स्नानार्त्थं जलमुद्धृत्य आगते पतिते स्पृशेत् ७००
त्यक्त्वा घोरसहस्रञ्च जप्त्वा च शान्तिहोमकम्
सकले शमलं कृत्य बाह्ये वीधिगते सति ७०१
शिबिकादीन्स्पृशेच्चैव प्रमादात्पतितेन वा
म्लेच्छादिनाप्रकर्तव्यं शान्तिहोमेन प्रोक्षयेत् ७०२
महेशस्पर्शनं कृत्वा सम्प्रोक्षणं समाचरेत्
बेरादिपतिते यानकाले संवत्सरोत्सवे ७०३
सम्प्रोक्षणन्ततः कृत्वा कुम्भान्पञ्चशतन्तु वा
तस्यार्द्धं वा शतं वापि हविर्न्निवेदयेत्ततः ७०४
पतने सकलेशो वाघोरास्त्रं क्षुरिकेन वा
प्रत्यङ्गिरं पाशुपत्यं मूलं लक्षं पृथक्पृथक् ७०५
पताकस्पर्शं म्लेच्छेन मृगपक्षिरजस्वला
सम्प्रोक्षणन्ततः कृत्वा मूले जप्त्वा युतद्वयम् ७०६

यागमन्तः प्रविश्याथ शूद्रादिपतितेऽपि वा
म्लेच्छैश्वानखरैश्चैव ग्रामसूकरकैस्तथा ७०७
चोरैश्च स्पर्शनं विद्यात्तत्क्षणे कलशान्त्यजेत्
परिवारघटान्त्यक्त्वा पुनश्च कलशान्यथा ७०८
ससूत्रं सापिधानञ्च नालिकेराद्यलङ्कृतम्
शिवमावाहयेच्चैव पूर्ववत्परिकल्पयेत् ७०९
पञ्चास्त्रैश्च जपेत् लक्षं प्रत्येकं लक्षसङ्ख्यया
मूलबेरं विशेषेण सम्प्रोक्षणं समाचरेत् ७१०
महेशस्य विशेषेण सम्प्रोक्षणं समाचरेत्
शान्तिहोमं पताकस्य होमं कृत्वा विशेषतः ७११
पञ्चास्त्रमर्चयेच्चैव सहस्रञ्च पृथक्पृथक्
होमयेत्पूर्ववच्चैव पताकस्पर्शने तथा ७१२
महोत्सवे विशेषेण पताकश्छेदनेऽपि वा
प्रमादाद्वायुनाभ्रान्ते गजोष्ट्रदुष्टसत्वकान् ७१३
एवमादिप्रमादेन दण्डोत् घाटनमेव च
दण्डप्रतिष्ठाङ्कृत्वा तु पूर्वोक्तविधिना चरेत् ७१४
पटछेदनकाले च स्नात्वानुष्ठानकर्मकम्
वृषमावाहयेत्कुम्भे पूर्वोक्तविधिनाचरेत् ७१५
तत् घटञ्च समादाय मिलित्वारज्जुना यथा
आबद्ध्यपूर्ववत्पूज्य पञ्चास्त्रेण पृथक्पृथक् ७१६
अशीति सङ्ख्यासाहस्रं जप्त्वा निवेदयेत्ततः
शान्तिहोमन्ततः कृत्वा पुनस्सन्धानमाचरेत् ७१७
उत्सवे चैव तत् ग्रामे वीधीनारा च सन्धिषु
मण्टपं परिकल्प्याथ पूर्वोक्तवदलङ्कृतम् ७१८
महेश्वरं समादाय शिबिका खेटकेऽपि वा
आरोप्य वीधिमार्गेण मण्टपे स्थापयेत्ततः ७१९
तद्वर्त्मनि मृते मर्त्या शीघ्रं त्यक्त्वा तु पूर्ववत्
प्रादक्षिण्य क्रमेणैव प्रविशेदालयं यथा ७२०
आमूलाग्रन्तु नाराचम् अपरे तु मृते सति

प्रादक्षिण्यक्रमेणैव पश्चात् शान्तिं समाचरेत् ७२१
एवं महोत्सवे काले वैपरीत्यप्रदक्षिणम्
विनाप्रादक्षिणेनैव क्रमेण च यथा भवेत् ७२२
मोहेन वै परीत्यञ्च यजमानो विनश्यति
प्रायश्चित्तं कथं शम्भो वक्ष्येऽहं श्रुणु षण्मुख ७२३
वृषयागविहीने तु वृषभाङ्कुरहीनके
वास्तुहोमविहीने तु ग्रामशान्तिविहीनके ७२४
भेरीताडनहीने तु देवतापूजहीनके
उत्सवाङ्कुरहीने तु तीर्त्थाङ्कुरविहीनके ७२५
ध्वजपीठविहीने तु ध्वजदण्डविहीनके
ध्वजरज्जुविहीने तु ध्वजदण्डविहीनके ७२६
ध्वजपुच्छविहीने तु दर्भमालाविहीनके
यात्राहोमविहीने तु यात्रास्नपनहीनके ७२७
रक्षाबन्धविहीने तु ध्वज ——–
——– पस्थितविहीने तु गणयागविहीनके ७२८
स्कन्दयागविहीने तु भक्तयागविहीनके
अस्त्रयागविहीने तु भक्तयागविहीनके ७२९
देवोपस्थितहीने तु बलिबेरविहीनके
दिग्देवताबलं हीने दीन ——– ७३०
— श्वरविहीने तु गन्धहीने तथैव च
पुष्पहीने वस्त्रहीने मुक्ताभरणहीनके ७३१
——- युक्तश्च सवने च विशेषतः
वाद्यघोषविहीने च छत्रहीने तथैव च ७३२
——- मेवोक्तं ध्वजहीने च पातने
दीपहीने च पतने वाहनक्रमहीनके ७३३
——–वावशफरादिविहीनके
पतने यागहीने च अग्निदग्धे तथैव च ७३४
———- अभिषेकविहीनके
सूत्रहीने वस्त्रहीने नालिकेरविहीनके ७३५

लम्बकूर्चविहीने तु —————
सप्तधान्यविहीने तु परितोघनहीनके ७३६
पञ्चाष्टमङ्गल ————- हीनके
दशायुधविहीने तु स्रुक्स्रुवे च विहीनके ७३७
होमपात्रविहीने तु —————
ज्ञानखड्गविहीने तु होमद्रव्यविहीनके ७३८
नैवेद्यबलिहीने तु दीपाराधनहीनके
छत्रहीने —- रथयाने विहीनके ७३९
मृगयात्राविहीने तु कालाकरविहीनके
———— भिक्षुकर्मविहीनके ७४०
चूर्णोत्सवविहीने तु रजन्योत्सवहीनके
मौनोत्सवविहीने तु शक्तियात्राविहीनके ७४१
चण्डयागविहीने तु आचार्योत्सवहीनके
—– विहीने तु शुद्धनृत्तविहीनके ७४२
शुद्धवाद्यविहीने तु रागभेदविहीनके
दीपहीने तु लिङ्गस्य त्रयादींश्च विहीनके ७४३
ध्वजोपरि च गृध्राले स्पृष्टिश्च सम्भवं ध्वजे
शिवाग्निस्पर्शनं विद्यात् रथोग्निभयमुच्यते ७४४
बेरे ग्निस्पर्शनं कृत्वा प्रच्छन्नपट्टबन्धके
वीधीशोधनहीने तु तोरणादिविहीनके ७४५
रथरज्जुविहीने तु रथचक्रविहीनके
रथकूर्परहीने तु मकुटारोपहीनके ७४६
मस्तके शृङ्गहीने तु परिचारकहीनके
आचार्येण च हीने तु ऋत्विक्कर्तारहीनके ७४७
जपकर्तारहीनश्चेत् यजमानश्च हीनके
एवमादिषु कालेषु प्रायश्चित्तं भवेद्ध्रुवम् ७४८
वृषयागविहीने तु गावो नश्यति राष्ट्रके
वृषभस्नपनं पश्चात् मुग्दान्नन्तु निवेदयेत् ७४९
शान्तिहोमं ततः कृत्वा वृषयागन्तु पूर्ववत्

वृषभाङ्कुरहीनश्चेत् स्थापनादिविनाशनम् ७५०
अङ्कुरं कारयेत्पश्चात् शान्तिहोमं समाचरेत्
वास्तुपूजा विहीने तु सर्वनिष्फलमेव वा ७५१
पूर्ववद्वास्तुमभ्यर्च्य संहिताहोममिष्यते
ग्रामशान्तिविहीनश्चेत् तत् ग्रामे व्याधिसम्भवः ७५२
ग्रामशान्तिं ततः कुर्यात्संहिताहोममिष्यते
शतं पाशुपतेनैव होमयेत्तु विशेषतः ७५३
भेरीताडनहीने तु बधिरत्वमवाप्नुयात्
स्नपनं कारयेच्छम्भोः पश्चात् भेरीन्तु ताडयेत् ७५४
सोक्षकाले तथा कोणे छिन्ने च पतनेऽपि वा
क्षमश्चेद्विशेषेण सस्यनाशं भवेत्ततः ७५५
नदीमन्त्रमनुस्मृत्य हित्वा जप्त्वा शतं ततः
देवता वाहने हीने तत् ग्रामं भयमाप्नुयात् ७५६
देवतान्पूजयेत्पश्चात् घोरेणैव शतं यजेत्
उत्सवाङ्कुरहीने तु तत् ग्रामे तु प्रजाक्षयम् ७५७
तीर्त्थाङ्कुरविहीने तु अपुत्रं भूपतेर्ध्रुवम्
तद्दोषशमनार्त्थाय अङ्कुरं पूर्ववच्चरेत् ७५८
शान्तिहोमं ततः कृत्वा शिवास्त्रेण शतं हुनेत्
ध्वजपीठविहीने तु भूभुजां पीठहीनकः ७५९
तद्दोषशमनार्त्थाय मूलैः पञ्चशतं हुनेत्
पुनः पुनः प्रकल्प्याथ पुनः स्नपनमुच्यते ७६०
ध्वजदण्डविहीने तु यजमानो विनश्यति
ध्वजप्रतिष्ठां कृत्वा तु पूर्वे मोक्षं प्रतिष्ठितम् ७६१
पुनस्सन्धानमारभ्य पञ्चास्त्रेण पृथक्पृथक्
सहस्रं वा हुनेच्चैव प्रत्येकं लक्षसङ्ख्यया ७६२
जपेच्छान्तिं हुनेच्चैव रज्जुहीने ततश्शृणु
रज्जुहीने विशेषेण मन्त्रीमरणमाप्नुयात् ७६३
तद्दोषशमनार्त्थाय दिशाहोमं समाचरेत्
जपेत्तु पञ्चसाहस्रं शिवास्त्रेण विशेषतः ७६४

सन्धिहीने महाव्याधिः पुनस्सन्धानमाचरेत्
तद्दोषशमनार्त्थाय घोरेणैव शतं हुनेत् ७६५
ध्वजपुच्छविहीने तु निर्धनन्तु भविष्यति
तद्दोषशमनार्त्थाय शतं पाशुपतैर्हुनेत् ७६६
दर्भमालाविहीने तु तत् ग्रामे तु प्रजाक्षयम्
शान्तिहोमन्ततः कृत्वा पताकपटहीनके ७६७
तद्वस्त्रं बन्धयेच्चैव प्रतिष्ठां पुनरेव च
मूर्तिहोमं ततः कृत्वा पञ्चास्त्रैश्च पृथक्पृथक् ७६८
सहस्रञ्च हुनेच्चैव तत्समं जपमेव च
पुनस्सन्धानमेवोक्तं शिवमन्त्रमनुस्मरन् ७६९
यात्राहोमविहीने तु अनावृष्टिर्भवेद्ध्रुवम्
तद्दोषशमनार्त्थाय शान्तिहोमं समाचरेत् ७७०
यात्रास्नपनहीने तु पुनस्नपनमाचरेत्
तद्दोषशमनार्त्थाय मूलेनैव शतं जपेत् ७७१
रक्षाबन्धनहीने तु तत्कर्मनिष्फलं भवेत्
तद्दोषशमनार्त्थाय शान्तिहोमं समाचरेत् ७७२
ध्वजारोहणहीने तु अपमृत्युर्भविष्यति
तद्दोषशमनार्त्थाय कालारीशायुतं जपेत् ७७३
देवोपस्थितहीने तु शिवमन्त्रं शतं जपेत्
गणयागविहीने तु राजाविजयमाप्नुयात् ७७४
गणयागं प्रकुर्वीत घोरं लक्षद्वयं जपेत्
स्कन्दयागविहीने तु राष्ट्रे दुर्मरणं भवेत् ७७५
स्कन्दयागं प्रकुर्वीतलक्षार्द्धं स्कन्दमन्त्रकैः
जपं कृत्वा विशेषेण मूर्तिहोमं समाचरेत् ७७६
भक्तयागविहीने तु म्लेच्छाक्रान्तो भवेद्भुवि
शान्तिहोमन्ततः कृत्वा सपुनर्यागमाचरेत् ७७७
अस्त्रयागविहीने तु परचक्रभयं भवेत्
यत्रयागम्प्रकुर्वीत घोरे लक्षं जपेत्ततः ७७८
तदर्द्धं होमयेत्पश्चात् तस्यार्द्धं वा तदर्द्धकम्

महायागविहीने तु महामारी प्रवर्तते ७७९
तद्दोषशमनार्त्थाय पुनरुत्सवमाचरेत्
लक्षद्वयं जपेत् घोरं दशसाहस्रं होमयेत् ७८०
मूर्तिहोमन्ततः कृत्वा तद्दोषशमनाय च
बलिबेरविहीने तु ग्रामं शून्यत्वमाप्नुयात् ७८१
अस्त्रमन्त्रशतं जप्त्वा शान्तिहोमं समाचरेत्
लोकपालविहीने तु शिवास्त्रेण शतं जपेत् ७८२
दिग्देवबलिहीने तु दुर्भिक्षकरमुच्यते
घोरेणैव शतं हुत्वा शतं जप्त्वा विशेषतः ७८३
दिनेश्वरविहीने तु शान्तिहोमं समाचरेत्
गन्धहीने भयं विद्यात् शान्तिहोमं समाचरेत् ७८४
सङ्कटे पुष्पहीणे तु अस्त्रेणैव शतं हुनेत्
वस्त्रहीने दरिद्रं स्यात् मूर्तिहोमं समाचरेत् ७८५
मुक्ताभरणहीने तु काञ्चनं नाशयेत्ततः
शिवमन्त्रशतं जप्त्वा तद्दोषशमनाय च ७८६
नैवेद्यहीने दुर्भिक्षं शान्तिहोमं समाचरेत्
सस्यहीने रसं नाशं प्रत्यङ्गिरशतं जपेत् ७८७
तेनैव होमयेच्चैव पाद्यादिहीनकर्मणि
अनाचारं भवेद्यस्तु सद्योजातैश्शतं जपेत् ७८८
छत्रहीने तु तद्राष्ट्रे अराजकमनाज्ञया
तद्दोषशमनार्त्थाय घोरास्त्रेण शतं हुनेत् ७८९
ध्वजहीने विजयं स्यात् शान्तिहोमं समाचरेत्
ध्वजस्य पतने वापि कवचेन शताहुतिम् ७९०
दीपहीने विशेषेण यजमानो विनश्यति
तद्दोषशमनञ्चैव शान्तिहोमं समाचरेत् ७९१
तद्दीपपतने चैव अग्निमन्त्रैश्शतं हुनेत्
यन्त्रक्रमविहीने तु गजाश्वादिविनाशनम् ७९२
तद्दोषशमनार्त्थाय संहिता होममिष्यते
यन्त्राणां पतने चैव शान्तिहोमं समाचरेत् ७९३

शफरापुष्पधामादि राष्ट्रे विह्निभयं भवेत्
तद्दोषशमनञ्चैव घोरमन्त्रैश्शतं हुनेत् ७९४
पतनेऽपि विशेषेण द्विशतं जापयेत्ततः
यागहीने विशेषेण राजाराष्ट्रं विनश्यति ७९५
पुनर्यागं समारभ्य घोरे लक्षं जपेत्ततः
संहिता होममिष्याथ यागशालान्तु दारुजम् ७९६
अग्निदण्डविहीनश्चेत् पुनरुत्सवमाचरेत्
पञ्चास्त्रेणैव मन्त्रेण लक्षं लक्षं पृथक्पृथक् ७९७
जप्त्वा हीने तु तन्मन्त्रैः सहस्रं वा पृथक्पृथक्
लक्षस्य शतसङ्ख्या च ब्राह्मणान्भोजयेत्ततः ७९८
प्रमादाच्च घटं भित्वा सद्यैरावाहयेत् घटे
अघोरेण जपं लक्षं सहस्रं होमयेत्ततः ७९९
शान्तिहोमन्ततः कृत्वा विद्येशानां घटेऽपि वा
तदर्द्धञ्च जपेत् घोरं तदर्द्धं होमयेत्ततः ८००
छेदयेदस्त्रकुम्भं वा पञ्चाशच्च सहस्रकम्
घोरञ्जप्त्वा हुनेद्वह्नौ पञ्चाशतमिहोच्यते ८०१
परिवारघटे हीने तत्तन्मन्त्रैस्सहस्रकम्
जप्त्वा च विधिवच्चैव हुत्वा चैव दशाहुतिम् ८०२
दशायुधहतो वापि तत्तन्मन्त्रैश्शतं जपेत्
अष्टमङ्कलशं छित्वा अस्त्रेणैव शतं जपेत् ८०३
दशाहुतिं हुनेच्चैव पूर्ववत्परिकल्पयेत्
तोरणान् छेदयेच्चैव प्रमादात्पूर्वद्वारके ८०४
दक्षिणे पश्चिमे वापि उत्तरे च चदुर्दिशि
नन्दिभृङ्गिवृषश्चैव देवितत्तत्स्वमन्त्रकैः ८०५
शतं शतं जपेत्पश्चात्पुर्ववत्परिकल्पयेत्
वह्निविच्छिन्नमद्ध्ये च पुनरग्निसमुद्भवम् ८०६
पञ्चास्त्रेण हुनेच्चैव सहस्रञ्च पृथक्पृथक्
लक्षमेकं जपेच्चैव शान्तिहोमं तथाचरेत् ८०७
पूर्वाद्यष्टसुकुण्डेषु अग्निविच्छिन्नमेव वा

तत्तन्मन्त्रैश्शतं हुत्वा सहस्रं प्रजपेत्ततः ८०८
अभिषेकविहीने तु दारिद्र्यं समवाप्नुयात्
मिलित्वापूर्ववत्स्नात्वा शान्तिहोमं समाचरेत् ८०९
सूत्रहीने क्षयव्याधिश्शान्तिहोमं समाचरेत्
वस्त्रहीने दरिद्रं स्यात् घोरेणैव शतं हुनेत् ८१०
नालिकेरं विभिन्नञ्चेत् सराजाब् हयमाप्नुयात्
तद्दोषशमनञ्चैव संहिता होममेव च ८११
कूर्चहीने कुष्ठरोगं मूलेनैव शतं हुनेत्
रत्नहीने गुल्मरोगं सहस्रं होमयेत्ततः ८१२
लम्बकूर्चविहीने तु शिवमन्त्रं शतं जपेत्
अस्त्रयागविहीने तु चिरान्मृत्युमवाप्नुयात् ८१३
तद्दोषशमनार्त्थाय शान्तिहोमं तथाचरेत्
परिवारघटे हीने परराजभयं भवेत् ८१४
पूर्ववत्कल्पयेच्चैव शान्तिहोमन्तथाचरेत्
विद्येशादिघटे हीने आर्याश्चैव विनाशनम् ८१५
सहस्रं होमयेत् घोरमष्टमङ्गलहीनके
घोरेणैव शतं जप्त्वा दशायुधविहीनके ८१६
तत्तन्मन्त्रैश्शतं जप्त्वा स्रुक्स्रुवे च विहीनके
गौरी गायत्रिमन्त्रेण सहस्रं प्रजपेत्ततः ८१७
होमपात्रविहीने तु वह्निमन्त्रशतं जपेत्
कूर्मासनविहीने तु अलक्ष्मीकमवाप्नुयात् ८१८
तद्दोषशमनार्त्थाय प्रणवेन शतं हुनेत्
ज्ञानखट्गविहीने तु भूपतेश्शौर्यनाशनम् ८१९
अस्त्रमन्त्रेण साहस्रं जप्त्वा हुत्वा तथैव च
समिदाज्य चरूञ्चैव होमद्रव्यविहीनके ८२०
प्रजाक्षयमवाप्नोति शान्तिहोमन्तथाचरेत्
नैवेद्य हीने दुर्भिक्षं मूर्तिहोमं समाचरेत् ८२१
बलिहीने ग्रामनाशं हृदयेन शतं जपेत्
दीपाराधनहीने तु दुर्भिक्षं ग्रामनाशनम् ८२२

तद्दोषशमनार्त्थाय शान्तिहोमं समाचरेत्
अग्निपात्रविहीने तु मृत्युञ्जयशतं जपेत् ८२३
अस्त्रहीने तु मरणं घोरास्त्रेण शतं जपेत्
रथयानविहीने च ग्रामनाशकरं भवेत् ८२४
तद्दोषशमनार्थाय लक्षं घोरञ्जपेन्नरः
ईतिबाधाचराष्ट्रे च मूर्तिहोमं समाचरेत् ८२५
कालहारिविहीने तु महामारीप्रवर्तते
तद्दोषशमनार्त्थाय मूलं लक्षं जपेत्ततः ८२६
भिक्षाटनविहीने तु दुर्भिक्षं राष्ट्रसङ्कुलम्
तद्दोषशमनार्त्थाय शान्तिहोमं समाचरेत् ८२७
तीर्त्थकर्मविहीने तु राजाराष्ट्रं विनश्यति
तद्दोषशमनार्थाय घोरलक्षं जपेत् हुनेत् ८२८
सहस्रं परिकल्प्याथ ————-
चूर्णोत्सवविहीने तु शान्तिहोमं समाचरेत् ८२९
रजोत्सवविहीने तु मूलेनैव शतं जपेत्
मौनोत्सवविहीने तु सर्वन्निष्फलमेव वा ८३०
शान्तिहोमन्ततः कुर्यात् शक्तियात्राविहीनके
मूकत्वमिति विज्ञेयं हुनेत्पाशुपतास्त्रकैः ८३१
सहस्रं होमयेच्चैव सहस्रं प्रजपेत्ततः
चण्डयागविहीने तु सर्वन्निष्फलमेव वा ८३२
तद्दोषशमनार्त्थाय दशसाहस्रं होमयेत्
आचार्योत्सवहीने तु तत् ग्रामे मरणं द्ध्रुवम् ८३३
तद्दोषशमनार्त्थाय प्रासादेन सहस्रकम्
जप्त्वा हुत्वा तु विधिना मत्स्यलीलाविहीनके ८३४
शान्तिहोमन्ततः कृत्वा शुद्धनृत्तविहीनके
मूलेनैव शतं जप्त्वा शुद्धवाद्य विहीनके ८३५
शान्तिहोमन्ततः कुर्यात् रागभेदविहीनके
शम्बरैश्च वश——————— ८३६
नित्यपूजां प्रकर्तव्या न कर्तव्यं महोत्सवम्

अपत्नीको विशेषेण विना नैमित्तिकन्तथा ८३७
पुत्रवान्वेदविद्विद्वान् आचार्यात्मज एव वा
नित्यपूजां प्रकर्तव्यं पत्नी हीने न दोषभाक् ८३८
पूर्वाद्यष्टदिशि स्थाने ऋत्विजापीड्यतेऽपि वा
तद्दोषशमनार्त्थाय सहस्रं होमयेत्ततः ८३९
यागमद्ध्ये विशेषेण परिचारपितॄमृते
सुव्रतेनाशौचदोषः यागमद्ध्ये षडानन ८४०
परिचारकविप्राणां कथमाशौचमिष्यते
मातापित्रोश्च विषये आशौचं सम्भवेद्यदि ८४१
अघोरेण शतं हुत्वा शुद्धो भवति कर्मसु
अन्येषां ज्ञातिविषये आशौचं न समाचरेत् ८४२
यागान्ते पूर्ववच्चैव आशौचन्तु समाचरेत्
तच्च ऋत्विगनुष्ठानं यागान्ते सूतकी भवेत् ८४३
जपकर्त्रा विहीनश्चेत् द्विशतं होमयेत्ततः
यजमानमृते चैव सहस्रं होमयेत्ततः ८४४
शान्तिहोमं ततः कृत्वा कारयेद्देशिकोत्तमः
एवं वै उत्तमं प्रोक्तं मद्ध्यमञ्च ततश्शृणु ८४५
त्रिदिनं गणयागञ्च स्कन्दभक्तदिनत्रयम्
शिवास्त्रयागं त्रिदिनं नवाहमिति कत्थ्यते ८४६
—– नवाहं स्यात् अष्टादशदिनं भवेत्
निर्दिष्टदिवसात्पूर्वं रात्रौ वास्तुम्प्रपूजयेत् ८४७
वृषयागं समारभ्य भेरी सङ्घोषणं महत्
देवता वाहनञ्चैव दत्वा वाङ्कुरमुत्तमम् ८४८
यात्राहोमं प्रकुर्वीत चन्द्रचूडमलङ्कृतम्
चन्द्रशेखरमादाय ध्वजदण्डस्य सन्निधौ ८४९
ध्वजारोहनमारोप्य सन्धिदेवान्प्रपूजयेत्
तीर्त्थाङ्कुरं ततः पश्चात् रक्षासूत्रं तथैव च ८५०
गणयागं समभ्यर्च्य यागान्ते बलिमुच्यते
चतुर्त्थे हनिसं प्राप्ते स्कन्दयागं समाचरेत् ८५१

पञ्चमे दिवसे रात्रौ भक्तयागं समारभेत्
गणयागं विसृज्याथ अस्त्रयागं समाचरेत् ८५२
पूर्वोक्तविधिना चैव भयजनं चन्द्रशेखरम्
अस्त्रयागं विसृज्याथ दिक्ध्वजान्परिकल्पयेत् ८५३
महायागं समाराध्य अष्टादशदिने तथा
अवरोहणमेवञ्च शेषं पूर्ववदाचरेत् ८५४
एवं वै मद्ध्यमं प्रोक्तम् अधमञ्च ततश्शृणु
निर्दिष्टदिवसात्पूर्वं रात्रिवास्तुं प्रपूजयेत् ८५५
अङ्कुरं वृषयागञ्च भेरीं सम्पूजयेत्ततः
देवतावाहनञ्चैव उत्सवाङ्कुरमुत्तमम् ८५६
पताकारोहणञ्चैव लोकपालान्प्रपूजयेत्
तीर्त्थाङ्कुरं ससूत्रञ्च महायागं प्रकल्पयेत् ८५७
तदन्ते बलिमाराद्ध्य प्रथमे दिवसे चरेत्
सप्तमे रथयन्त्रञ्च मृगयात्रां परे हनि ८५८
नवमे दिवसे चैव दिनान्ते चाभिषेचनम्
कलाकरोत्सवञ्चैव भेरीञ्चैव शिवास्त्रकम् ८५९
चूर्णोत्सवं तीर्त्थकर्ममहायागविसर्जनम्
अवरोहणमित्युक्तं पञ्चयानं समाचरेत् ८६०
शक्तियात्रां विशेषेण मत्स्यलीलां परे हनि
चण्डयागं परे चैव साधकोत्सवमेव च ८६१
नवाहमिति सञ्ज्ञेयः शेषं पूर्ववदाचरेत्
एवं वै उत्सवं प्रोक्तं सर्वकालफलप्रदम् ८६२
महापातकनाशञ्च उपपातकनाशनम्
ब्रह्महत्यासुरापानं श्वपाकीपलवित्रयः ८६३
शिवलिङ्गचले वापि विप्रोद्घाटन एव च
गुरुनिन्दकसञ्ज्ञेयः मातृगामी तथैव च ८६४
पितृघातकगोहत्या बालघ्नो गर्भघातकः
महोत्सवन्तु कुर्याच्चेत् शिवसायुज्यमाप्नुयात् ८६५
इति महोत्सवविधिपटलश्चतुर्विंशतिः