०२३ अष्टबन्धनपटलः

अष्टबन्धनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि अष्टबन्धनमुत्तमम्

भोगमोक्षार्त्थसिद्ध्यर्त्थम् आयुरारोग्यसिद्धिदम् ॥ १ ॥

अष्टबन्धनहीनश्चेत् श्रुणुष्वपार्वतीप्रिय
पूर्वदेशविहीने तु तत् ग्रामे व्याधिपीडितम् ॥ २ ॥

आग्नेय्यामपमृत्युञ्च दक्षिणे ज्ञाननाशनम्
राक्षसे तु प्रजानाशम् अनावृष्टिञ्च वारुणे ॥ ३ ॥

विप्राणां व्याधिपीडा च वायुदेशे विहीनके
उत्तरे च विहीने तु शूद्राणां पापसम्भवम् ॥ ४ ॥

क्रिमिपीडनमीशाने राजराष्ट्रविवर्द्धनम्
प्रातः काले च मद्ध्याह्ने सायाह्ने अर्द्धयामके ॥ ५ ॥

यद्देशहीनं तद्दृ◌ा सद्योप्यावाहयेद्घटे
नक्षत्रतिथिवारांश्च माससंवत्सरानपि ॥ ६ ॥

अनपेक्षं यजेत्तत्र पूर्वोक्ते यागमण्टपे
सद्योङ्कुरं ततः कृत्वा पश्चात्तु पालिकादिषु ॥ ७ ॥

वास्तुपूजां ततः कृत्वा घटे सम्पूजयेच्छिवम्
परितोष्टघटान्लिप्य पञ्चावरणमार्गतः ॥ ८ ॥

मण्डले पूजयेच्छम्भुं कर्मसाक्ष्यर्त्थमीरितम्
तोरणावरणान्पूज्य होमयेद्विधिमार्गतः ॥ ९ ॥

नवाहञ्चैव सप्ताहं पञ्चाहं वा त्रयाहकम्
सायं प्रतिहुनेच्चैव कन्दमूलफलादिना ॥ १० ॥

समिदाज्य चरून्क्षीरान् दधिमाषतिलांस्तथा
मुद्गगोधूममधुना विशेषैश्च निवेदयेत् ॥ ११ ॥

शोधनं क्षालनञ्चैव बिम्बशुद्धिमुदाहृतम्
मलिनी माधवी चैव वामिनी रमणी तथा ॥ १२ ॥

मूले तु अभिषेकञ्च उपचारान्घटे तथा
द्वारपूजां नयेच्चैव चण्डपूजाञ्च कारयेत् ॥ १३ ॥

नित्योत्सवं विना चैव नित्याग्निं वर्जयेत्ततः
यागशालां विशेषेण दर्पणे त्वभिषेचयेत् ॥ १४ ॥

उपचारान्घटे पूज्य प्रातस्सङ्ग्राहयेच्छिवम्
अघोरेणैवमापूर्य ताडयेद्बन्धनन्तथा ॥ १५ ॥

वृषभीवीरभद्री च करिणी इन्दुनी तथा
मलिनी माधवी चैव रमणी वामिनी तथा ॥ १६ ॥

न्यसेत्सम्पूजयेच्चैव अष्टबन्धनमुत्तमम्
बिम्बशुद्धिं ततः कृत्वा षड्वक्त्रेण समाचरेत् ॥ १७ ॥

तत्वेश्वरञ्च मूर्तीशान् अर्चयेद्विधिमानतः
षडध्वानां हुनेच्चैव तत्वेशानां हुनेत्ततः ॥ १८ ॥

मूर्तीशानां हुनेच्चैव अर्चयेद्विविधानि च
गलिते लिङ्गबेरे च शान्तिकुम्भेन प्राक्षयेत् ॥ १९ ॥

मूलमद्ध्याग्रदर्भैश्च न्यसेत् शुद्धिं विशेषतः
पूर्वे वा होमयेत्पश्चात्पीठशुद्ध्यर्त्थमीरितम् ॥ २० ॥

शान्तिकुम्भेन सम्प्रोक्ष्य दर्भमूलाग्रमद्ध्यगैः
ब्रह्मभागविशुद्ध्यर्त्थं त्रिवारं होमयेत्ततः ॥ २१ ॥

वृषभस्य हुनेत्पश्चात्प्रोक्षयेद्विन्यसेत्ततः
अग्निस्थन्तु घटे योज्य अर्चयेत्साधकोत्तमः ॥ २२ ॥

ब्राह्मणान्भोजयेत्पश्चात् सर्वेषां पूजयेत्ततः
नानाविधानि रत्नानि ब्राह्मणानां प्रदापयेत् ॥ २३ ॥

स्वर्णानि दापयेत्पश्चात्कपिलादीन्प्रदापयेत्
कन्निकान्दापयेत्पश्चात्क्षेत्रादीन्दापयेत्ततः ॥ २४ ॥

सुमुहूर्ते सुलग्ने च लिङ्गं संयोजयेत्घटे
सुप्रसन्नं महादेवम् अर्चयेत्साधकोत्तमः ॥ २५ ॥

देवं प्रार्त्थ्यविशेषेण प्रायश्चित्ता हुतिन्तथा
अस्त्रकूर्चं हुनेत्पश्चात् घोरे पाशुपते न च ॥ २६ ॥

अन्यैर्हुत्वा विसृज्याथ द्वारदेवान्समर्चयेत्
आचार्यं पूजयेत्पश्चात् गन्धपुष्पैरलङ्कृतम् ॥ २७ ॥

देहाकारन्तु क्रियया जीवाकारन्तु दक्षिणा
दक्षिणा हीनमित्युक्तं क्रियया निष्फलं भवेत् ॥ २८ ॥

दक्षिणा शापमित्युच्चैर्यागशालां प्रवेशयेत्
सप्तविंशत् घटान्पूज्य ग्राहयेत्सप्तविंशकान् ॥ २९ ॥

गर्भगेहे विशेषेण तत्तत्स्थानेषु योजयेत्

षण्मासं यो ददेद्देव कोटिजन्माघनाशनम् ॥ ३० ॥

शिवप्रतिष्ठामात्रेण शिवदीक्षाफलं भवेत्
एवं कृत्वा विशेषेण शिवदीक्षाफलं भवेत् ॥ ३१ ॥