जीर्णोद्धारणपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणु शरवणोद्भव
अष्टबन्धनहीने च परचक्रभयं भवेत् ॥ १ ॥
प्रोद्घाटं मत्तकरिणां भ्रान्तैर्वाचोरसंहृतिः
इत्यादिपीडिते काले अशनी हतपातिते ॥ २ ॥
पूर्वमिन्दिरसङ्कल्प्य लिङ्गादिस्थापनं परम्
पूर्वोक्तयागशालाञ्च नवहस्तमुनिस्तथा ॥ ३ ॥
अथवा पञ्चहस्तैर्वा कारयेच्छिवमण्टपम्
नवोनवपदं भज्य मद्ध्ये वेदिं प्रकल्पयेत् ॥ ४ ॥
नवसङ्ख्या पञ्चसङ्ख्या कुण्डं कल्प्य विशेषतः
गणेशादि महेशान्तम् एकं वा द्रव्यहीनके ॥ ५ ॥
वेदिके मद्ध्यमे चैव धान्यपुञ्जैरलङ्कृतम्
उत्तमं षोडशं भारं द्वादश मद्ध्यमं भवेत् ॥ ६ ॥
अधमम् अष्टभारं वै धान्यपुञ्जैर्विशेषतः
सितशाली हेमशाली रत्नशाली विशेषतः ॥ ७ ॥
भारस्य शिवसङ्ख्या च तिलं वै परिकीर्तितम्
माषमुद्गं नवप्रस्थं वेणुशिम्बामथाढकम् ॥ ८ ॥
प्रत्येकमाढकन्दत्वा ———-
गोधूमञ्चैव षट्प्रस्थं त्रिद्रोणं तण्डुलं भवेत् ॥ ९ ॥
एतत् धान्यं समादाय विभक्तं श्रुणु षण्मुख
अष्टद्रोणैश्शालिभिश्च वेदिका मद्ध्यमे क्षिपेत् ॥ १० ॥
परिवारश्च कुम्भानां सप्तविंशति सङ्ख्यया
पृथक्पृथक् शिवन्धान्यं सप्तधान्यं यथाक्रमम् ॥ ११ ॥
त्रिसरन्तन्तुना वेष्ट्य कूर्चमद्ध्ये विनिक्षिपेत्
नवरत्नं पञ्चरत्नम् एकरत्नमथापि वा ॥ १२ ॥
कुम्भमद्ध्ये विनिक्षिप्य विन्यसेत्स्वर्णपङ्कजम्
दशनिष्कप्रमाणन्तु तस्यार्द्धं वा तदर्द्धकम् ॥ १३ ॥
तदर्द्धं वा विशेषेण उत्तमामद्ध्यमाधमा
पङ्कजन्तु विनिक्षिप्य महानीलोत्पलं श्रुणु ॥ १४ ॥
पञ्चनिष्कप्रमाणन्तु तस्यार्द्धं वा तदर्द्धकम्
अष्टविद्येशकुम्भेषु निष्कं निष्कं पृथक्पृथक् ॥ १५ ॥
परिवारश्च देवानां निष्कार्द्धञ्च पृथक्पृथक्
वस्त्रद्वयं प्रधाने च तदेव शक्तिकुम्भके ॥ १६ ॥
अन्येषां द्विकरं प्रोक्तं द्विकरञ्च पृथक्पृथक्
परिवारघटानाञ्च प्रत्येकं करमेव वा ॥ १७ ॥
स्रुक्स्रुवं मङ्गलञ्चैव तोरणान्पूर्वमर्चयेत्
कुण्डं यथोक्तवत्कल्प्य प्रथमे अङ्कुरार्पणम् ॥ १८ ॥
द्वितीयं वास्तुपूजाञ्च घटपूजां तृतीयकम्
सायं प्रातर्हुनेच्चैव उक्तमन्त्रेण होमयेत् ॥ १९ ॥
त्रिसहस्रं द्विसहस्रं वा सहस्रं वापि सङ्ख्यया
प्रधाने होमयेत्पश्चात्तस्यार्द्धं परिवारके ॥ २० ॥
कुण्डे तु होमयेत्पश्चात् पञ्चास्त्रं जप्यते नरः
चतुर्द्वारे चतुर्वेदघोषजप्ये विश्रोत्रियाः ॥ २१ ॥
गीतनृत्ते च विविधे शिल्पिभिर्मन्त्रिभिस्सह
नवसङ्ख्या समिद्भिश्च नवसङ्ख्यानिहोमयेत् ॥ २२ ॥
क्षीरन्दधिमधूकन्दम् अपूपान्पायसानपि
सायं प्रातर्हुनेच्चैव बिम्बशुद्धिं ततः परम् ॥ २३ ॥
अष्टबन्धनमेवोक्तं कलशस्थानमाचरेत्
ब्राह्मणान्भोजयेत्तत्र दक्षिणाञ्च प्रदापयेत् ॥ २४ ॥
आचार्यदक्षिणाञ्चैव वस्त्रहेमाङ्गुलीयकैः
कर्णमात्रं मेखला च दक्षिणान्दापयेत्ततः ॥ २५ ॥
पूर्वोक्तविधिना चैव बिम्बं स्थाप्य विशेषतः
राजराष्ट्राभिवृद्ध्यर्त्थम् इष्टकाम्यार्त्थसिद्धिदम् ॥ २६ ॥
एवं यः कुरुते मर्त्यस्सपुण्यफलमाप्नुयात् ॥ २७ ॥
इति जीर्णोद्धारणपटलः द्वाविंशतितमः