०२१ शिवलिङ्गस्थापनपटलः

शिवलिङ्गस्थापनपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि सर्वलोकहिताय च
राजराष्ट्राभिवृद्ध्यर्त्थं शिवस्थापनमुत्तमम् ॥ १ ॥

शुक्लवर्षं विरोधीञ्च मन्मधं कीलकन्तथा

विषुञ्च दुर्मुखीञ्चैव वत्सरांश्च विवर्जयेत् ॥ २ ॥

आषाढमार्गशीर्षञ्च माखं भाद्रपदन्तथा
आषाढे धान्यनाशः स्यात् मार्गशीर्षे तु रोगिणम् ॥ ३ ॥

माघे तु पुत्रहीनः स्यात् भाद्रे चैव कुलक्षयम्
चैत्रे सम्पत्करं विद्धि वैशाखे व्याधिनाशनम् ॥ ४ ॥

ज्येष्ठे च सर्वसिद्धिः स्यात् श्रावणे मोक्षदं भवेत्
आश्वीजे कर्महाफल्यं कार्तिके ग्रामवर्द्धतम् ॥ ५ ॥

पौष्ये च दीर्घमायुष्यं फाल्गुने शत्रुनाशनम्
एतत् मासफलञ्चोक्तं तिथीनाञ्च ततश्शृणु ॥ ६ ॥

शुक्लपक्षं विशेषञ्च मद्ध्यमं कृष्णपक्षकम्
प्रथमाञ्च चतुर्थीञ्च षष्ठ्यष्टमि नवम्यके ॥ ७ ॥

अमाञ्चतुर्दशीञ्चैव वर्जयेत्तु विशेषतः
कारयेत्साधकश्चैव द्वितीये सर्वसम्पदम् ॥ ८ ॥

तृतीये लोकवश्यञ्च पञ्चम्यां रोगनाशनम्
सप्तम्यां ग्रामवृद्धिः स्यात् दशम्यामायुवर्द्धनम् ॥ ९ ॥

एकादश्यामष्टभाग्यं द्वादश्यां शत्रुनाशनम्
त्रयोदश्यां कर्मवृद्धिः पौर्णिमायां चिरं भवेत् ॥ १० ॥

एते तिथिफलं प्रोक्तं वाराणां फलमुत्तमम्
भौमार्कि वारे नाशं स्यात् रविवारे सुखप्रदम् ॥ ११ ॥

इन्दुवारे च सौभाग्यं बुधवारे सुखप्रदम्
गुरुवारे प्रजावृद्धिं भ्रगुवारे चिरायुषम् ॥ १२ ॥

सप्तवारफलं प्रोक्तम् अश्विन्यादिफलान्श्रुणु
ग्रामाभिवृद्धिमश्विन्यां भरणीमृत्युशीघ्रदम् ॥ १३ ॥

कृत्तिकाप्यर्त्थनाशं स्यात् रोहिणी च सुखप्रदा
मृगशीर्षं प्रजावृद्धिरार्द्रायां सर्वनाशनम् ॥ १४ ॥

पुनर्वसू पापनाशं पुष्यं वै शान्तिकं भवेत्
आश्लेषं सर्वनाशं स्यात् माखं वै तु प्रजाक्षयम् ॥ १५ ॥

पूरञ्च मानहानिस्स्यात् उत्तरञ्च सुखप्रदम्
आयुर्वर्द्धनं हस्तञ्च चैत्रं वै शत्रुनाशनम् ॥ १६ ॥

स्वाती च राजसं मानं विशाखं कर्म सत्पलम्
अनुषं बिम्बवृद्धिस्स्यात् ज्येष्ठा वै ज्येष्ठनाशनम् ॥ १७ ॥

मूलं वै बिम्बनाशं स्यात् पूर्वाषाढं रिपुक्षयम्
उत्तराषाढं वृद्धिस्स्यात् श्रवणं मोक्षसम्पदम् ॥ १८ ॥

श्रविष्ठादारनाशं स्यात् शतभिषक् मृत्युनाशनम्
पूर्वप्रोष्ठपदा चैव प्रजानाशयुता तथा ॥ १९ ॥

उत्तराभाद्रा च सम्पत्तिं रेवती वाक्प्रदं भवेत्
नक्षत्राणां फलं प्रोक्तं राशीनाञ्च फलं श्रुणु ॥ २० ॥

मेषे तु कार्यवृद्धिस्स्यात् सौभाग्यं वृषभे तथा
मिथुने कार्यनाशस्स्यात्कर्कटे राष्ट्रशोभितम् ॥ २१ ॥

सिह्मे तु कर्मसाफल्यं कन्यायां कुलवर्द्धनम्
तुलायामतुलं प्रोक्तं वृश्चिके वित्तनाशनम् ॥ २२ ॥

चापेज्ञानप्रदं विद्यात् मकरे मानहानिकृत्
कुम्भे तु शत्रुनाशस्स्यात् मीने सर्वसुखप्रदम् ॥ २३ ॥

देवतानां हितार्त्थाय दिवा चेत्सुमुहूर्तके
निशा चैव यथा कुर्यात् असुराणां जयप्रदम् ॥ २४ ॥

पूर्वयामे कार्यसिद्धिः द्वियामे सफलं भवेत्
त्रियामे सर्वहानिस्स्यात् चतुर्यामे तु तामसम् ॥ २५ ॥

यामलक्षणमेवोक्तं योगानां श्रुणु षण्मुख
विष्कम्भं शत्रुनाशं स्यात् प्रीतिस्सौभाग्य वर्द्धनम् ॥ २६ ॥

आयुष्मान्विजयं प्रोक्तं सौभाग्यं सम्पदन्तथा
शोभनं शुभमेवोक्तम् अतिगण्डं मृतन्तथा ॥ २७ ॥

सुकर्ममर्त्थलाभं स्यात् धृतिं वै शत्रुवर्द्धनम्
शूलं सिद्धिप्रदं विद्यात् गण्डं वै राशिसम्भवम् ॥ २८ ॥

वृद्धिं वै श्रीप्रदं विद्यात् ध्रवं वै सर्वनाशनम्
व्याघातं लोकवश्यञ्च हर्षणं रोगनाशनम् ॥ २९ ॥

वज्रं विद्याप्रदं विद्यात् सिद्धिस्सिद्धिप्रदन्तथा
व्यतीपातं नाशनं स्यात् वरीयान्सम्पदन्तथा ॥ ३० ॥

परिघं यशसा प्रोक्तं शिवं साद्ध्य प्रदन्तथा

सिद्धं शिवप्रदं विद्यात् साद्ध्यं वै साद्ध्यमेव च ॥ ३१ ॥

शुभं शुभप्रदं विद्यात् शुभ्रं वै व्यधमेव च
ब्राह्मी श्रेष्ठमिति प्रोक्तं माहेन्द्रं भोग्य भोगदम् ॥ ३२ ॥

वैधृतीनष्टमित्युक्तं सप्तविंशति संयुतान्
योगानामिति सञ्ज्ञेयं करणानां श्रुणुष्वथ ॥ ३३ ॥

बलं वै आयुर्वृद्धिं स्यात् बालवम्बलवर्द्धनम्
कौलवम् अतुलं प्रोक्तं तैतुलं मोक्षदन्तथा ॥ ३४ ॥

गरजीशीघ्ररोगं स्यात् वणिजो राष्ट्रवर्द्धनम्
वृष्टिं वृष्टिप्रदञ्चैव सप्तैते ज्ञेयविद्यते ॥ ३५ ॥

सुमुहूर्ते सुनक्षत्रे गर्भगेहे प्रवेशयेत्
शुद्धपात्रे च प्रक्षाल्य हृदयेनैव पूरयेत् ॥ ३६ ॥

अष्टोत्तरशतं जप्त्वा अस्त्रमन्त्रैर्नमोन्तकम्
प्रोक्षयेत्खड्गमन्त्रेण गव्येन प्रोक्षयेत्ततः ॥ ३७ ॥

विकिरेत् शान्तिकुम्भेन रक्षो नाशकरं श्रुणु
स्वयम्भुदेविकञ्चैव दिव्यलिङ्गं विशेषतः ॥ ३८ ॥

रत्नन्यासविधिं वर्ज्येत् अन्येषां कारयेत्ततः
गर्भगेहस्य मद्ध्ये तु लिङ्गस्थापनमुत्तमम् ॥ ३९ ॥

गौरीन्तु स्थापयेन्मद्ध्ये मध्ये सर्वान्विशेषतः
उत्तमं विधिना प्रोक्तं मद्ध्यमञ्च ततश्शृणु ॥ ४० ॥

पञ्चभागमधः कृत्वा गर्भगेहस्य मद्ध्यमे
स्थापयेत्तु चतुर्भागे बिम्बं स्थाप्यविशेषतः ॥ ४१ ॥

बिम्बस्थापनकाले तु मद्ध्यमे स्थापयेत्ततः
मद्ध्यभागे विना चैव आलयं शून्यमाप्नुयात् ॥ ४२ ॥

राजराष्ट्रं विनश्यन्ति मद्ध्ये स्थापनमुत्तमम्
गणेशादीशचण्डान्तम् अथवा मद्ध्यमे विना ॥ ४३ ॥

मन्दिरे सङ्कटे चैव स्थापयेच्च चतुर्त्थके
आधारवेश्ममद्ध्ये तु नवकोष्ठं समालिखेत् ॥ ४४ ॥

कोष्ठमद्ध्ये विशेषेण चतुरङ्गुलविस्तरम्
त्रयाङ्गुलमथावापि वृत्ताकारन्तु निर्मितम् ॥ ४५ ॥

त्रयाङ्गुलसमाघातं नवकोष्ठे प्रपूजयेत्
मुक्ताश्च मद्ध्यमे स्थाप्य माणिक्यं पूर्वदेशके ॥ ४६ ॥

वह्निदेशे मारतक्यं वज्रं वै यमदेशके
वैडूर्यं नैर्ऋते देशे गोमेधं वारुणे यजेत् ॥ ४७ ॥

प्रवालं वायुदेशे तु पुष्यरागं तदुत्तरे
इन्द्रनीलन्तु ईशाने स्थापयेत्तु विशेषतः ॥ ४८ ॥

फलन्नवविधं प्रोक्तं पत्रन्नवविधं तथा
रत्नेन सह संस्थाप्य अर्चयेत्तु विशेषतः ॥ ४९ ॥

मन्त्रन्यासं भवेच्चैव प्रत्येकन्तु विधानि च
शतं शतं जपेच्चैव मद्ध्ये क्षित्यां प्रपूजयेत् ॥ ५० ॥

सुमुहूर्ते सुनक्षत्रे सुलग्ने स्थापयेत्ततः
नाडीन्तु पक्षभागं स्यात् पूर्वं विषकलास्तथा ॥ ५१ ॥

अमृताख्यं द्वितीय्यं स्यात्तृतीयं मृगमेव च
चतुर्त्थं दीर्घमित्युक्तं पञ्चमन्तु जयप्रदम् ॥ ५२ ॥

षष्ठं वै कार्यनाशं स्यात्सप्तमन्धननाशनम्
अष्टमं सुखमित्युक्तं नवमं शौर्यमुच्यते ॥ ५३ ॥

दशमं शून्यमित्युक्तम् एकादश्ये चराचरम्
द्वादश्ये अचरं प्रोक्तं त्रयोदश्ये स्थिरं भवेत् ॥ ५४ ॥

चतुर्दश्ये शत्रुनाशं पक्षसङ्ख्ये महद्भयम्
सात्विकं राजसञ्चैव तामसं त्रिविभक्तकः ॥ ५५ ॥

सात्विके तामसञ्चैव सात्विके राजसन्तथा
तामसे सात्विकञ्चैव तामसे राजसन्तथा ॥ ५६ ॥

राजसे सात्विकञ्चैव राजसे तामसन्तथा
राजसे राजसञ्चैव एवन्नवविधन्तथा ॥ ५७ ॥

योग्यायोग्य विशेषेण स्थापयेत् बिम्बमाचरेत्
विश्वं कृत्वा विशेषेण राजराष्ट्रविवर्द्धनम् ॥ ५८ ॥

आयुरारोग्यसिद्ध्यर्त्थम् अपमृत्युविनाशनम् ॥ ५९ ॥

इति शिवलिङ्गस्थापनपटल एकविंशतितमः