अग्निकार्यपटलप्रारम्भः
त्रिपुरान्तकसर्वेश अग्निकार्यक्रमं वद
अथातस्सम्प्रवक्ष्यामि सर्वकाम्यार्त्थसिद्धिदम् ॥ १ ॥
सर्वाभीष्टप्रदं पुण्यं सर्वरोगनिवारणम्
आयुरारोग्यमैश्वर्यमपमृत्युनिवारणम् ॥ २ ॥
अग्निवक्त्रे हुनेच्चैव सर्वदेवप्रियं भवेत्
सर्वदेवमुखाश्चैव अग्निरूपमिति स्मृतम् ॥ ३ ॥
सर्वदेवप्रियकरम् अग्न्याराधनकन्तथा
शिवमाराधयेत्पूर्वं मण्टपाराधनञ्च यत् ॥ ४ ॥
तृतीय्यं होमकर्माख्यं श्रुणुष्व शरवणोद्भव
कर्णिका मद्ध्यमे कुम्भं दक्षिणे वर्द्धनीं न्यसेत् ॥ ५ ॥
उत्तराभिमुखन्नालं पूर्वाभिमुखमुत्तमम्
दक्षिणाभिमुखं प्रोक्तं पश्चिमन्तारमेव वा ॥ ६ ॥
महायागे विशेषेण पूर्वाभिमुखमुत्तमम्
स्वाभाव्य पुरुषं वक्रं पूर्वाभिमुखमेव वा ॥ ७ ॥
दक्षिणाभिमुखं घोरं सद्यो वै पश्चिमं भवेत्
वामं वाममुखं विद्यात् ऊर्ध्वाभिमुखमीश्वरम् ॥ ८ ॥
पूजाकाले विशेषेण किञ्चिदीशमुखस्तथा
तत्तत् द्वारविशेषेण पुरुषं भावयेत्ततः ॥ ९ ॥
स्वाभाव्यं पुरुषं पूर्वे पूर्वे द्वारं विशेषतः
सुनित्यपूजाकाले तु अघोरं पुरुषं भवेत् ॥ १० ॥
पश्चिमे पुरुषं भाव्यं वामे वै पुरुषं भवेत्
नित्येषु भावयेच्चैव अन्यकालेषु वर्जयेत् ॥ ११ ॥
प्रतिष्ठोत्सवकाले तु पूर्वाभिमुखमुत्तमम्
सङ्कटे आलये जीर्णे अथवा सङ्कटालये ॥ १२ ॥
पुनरुत्सवकाले तु पश्चिमाभिमुखन्तथा
दक्षिणाभिमुखं वापि यागग्रहं प्रकल्पयेत् ॥ १३ ॥
महाप्रतिष्ठाकाले तु अष्टबन्धनहीनके
यागेश्वरं विशेषेण पूर्वद्वारं प्रकल्पयेत् ॥ १४ ॥
परितोष्टदलाग्रेषु कुम्भान्न्यस्य विशेषतः
घटेषु जलमापूर्य पङ्कजान् रत्ननिर्मितान् ॥ १५ ॥
सकूर्चवस्त्रमावेष्ट्य नालिकेशोपरित्वथ
मर्त्याकारन्तु सकलं पयः प्राणमिति त्वथ ॥ १६ ॥
नाडीसूत्रमिति प्रोक्तं सतिरत्नन्तथैव च
नालिकेरफलं शीर्षं वस्त्रेण त्वक्समीरितम् ॥ १७ ॥
केशाकारसमं कूर्चं जटाकारन्तु लम्बकम्
अतः प्रवालं पाणी च परिस्तरणपद्युगम् ॥ १८ ॥
सिह्मासनमयं धान्यं गन्धपुष्पैरलङ्कृतम्
अथ वक्ष्ये विशेषेण न्यासकर्मविधिं श्रुणु ॥ १९ ॥
मन्त्राध्वा च पदाध्वा च वर्णाध्वभुवनानि च
तत्वाद्ध्वा च कलाद्ध्वा च षड्विधं न्यासमुच्यते ॥ २० ॥
ईशानञ्चैव तत्पुरुषम् अघोरं वामदेवकम्
सद्योजातञ्च पञ्चैते शिकाराद्यक्षरैस्सह ॥ २१ ॥
ईशानादिमुखे न्यस्य हृत् शिरोशिखयेव च
कवचन्नेत्रमन्त्रेण तेषु च न्यासयेत्ततः ॥ २२ ॥
मन्त्रन्न्यासन्न्यसेच्चैव त्रिखण्डं कल्पयेत्ततः
ब्रह्मभागं विष्णुभागं रुद्रभागं त्रिमानकम् ॥ २३ ॥
स्वायम्भुवं विशेषेण त्रिमाणञ्च शिलोपरि
प्रतिमाकारमात्रेण पादान्नाभ्यन्तमेव च ॥ २४ ॥
नाभ्यात्कण्ठान्तमेवोक्तं कण्ठात् मकुटमुच्यते
निवृत्तिप्रतिष्ठाविद्या च शान्तिश्चैव तथैव च ॥ २५ ॥
शान्त्यातीत इति प्रोक्तं त्रिमानं कल्पयेत्ततः
शुद्धमाया तदूर्ध्वे तु शुद्धाशुद्धञ्च मद्ध्यमे ॥ २६ ॥
अशुद्धञ्चाप्यथो भागे भावयित्वा विशेषतः
निवृत्तिश्च प्रतिष्ठा च अशुद्धं रूपमुच्यते ॥ २७ ॥
विद्याशान्तिरिति प्रोक्तं शुद्धाशुद्धमिहोच्यते
शुद्धं शान्तिकला प्रोक्तं त्रिखण्डं कल्पयेत्ततः ॥ २८ ॥
ईशानास्त्रं शान्त्यतीते आदौ प्रणवमुच्चरन्
तत्पुरुषं कवचं शान्त्यै शिखाघोरन्तु विद्यके ॥ २९ ॥
प्रतिष्ठे च विशेषेण —— शिरस्तथा
सद्योजातं हृदित्वेव निवृत्यै तु प्रदापयेत् ॥ ३० ॥
मन्त्रन्यासमिति प्रोक्तं पदन्यासं ततश्शृणु
शान्त्यतीते विशेषेण ओमित्येकं पदन्न्यसेत् ॥ ३१ ॥
न्यसेच्छान्तिकलाञ्चैव व्योमव्यापि तथैव च
व्योमरूपाय इत्युक्तं सर्वव्यापिनि देव च ॥ ३२ ॥
शिवाय च अनन्ताय अनन्ताय तथैव च
अनाश्रिताय इत्युक्तं ध्रुवाय शाश्वताय च ॥ ३३ ॥
योगपीठसुसंस्थाय नित्ययोगिनिरेव च
न्यसेत् ध्यानहरायै च द्वादशं पदमुच्यते ॥ ३४ ॥
प्रणवम् एकवारञ्च नमोन्तम् एकवारकम्
आद्यन्ते च स्मरेच्चैव प्रत्येकन्तु न कारयेत् ॥ ३५ ॥
विद्याकाले विशेषेण ओन्नमश्शिव एव च
सर्वप्रभव इत्याख्यं शिवाय च तथैव च ॥ ३६ ॥
ईशानमूर्ध्वमित्युक्तं तत्पुरुषं वक्त्रमेव च
अघोरहृदयञ्चैव वामदेवञ्च गुह्यकम् ॥ ३७ ॥
सद्योजातं मुहूर्तेज ओन्नमश्च तथैव च
गुह्यातिगुह्यमित्युक्तं गोप्त्रे चैव तथैव च ॥ ३८ ॥
निधनाय च इत्युक्तं सर्वव्याधिपदेऽपि च
योगाधिकृते चैव ज्योतिरूपवराय च ॥ ३९ ॥
परमेशपरा चैव चेतना चैतनन्तथा
व्योमादीन्स इति प्रोक्तं पदान्न्यस्य विशेषतः ॥ ४० ॥
प्रतिष्ठाकाले विशेषेण व्यापिन्व्यापिन्तथैव च
अरूपिन् रूपिनी चैव प्रथमं प्रथमन्तथा ॥ ४१ ॥
तेजस्तेज इति प्रोक्तं ज्योतिर्ज्योस्तथैव च
अरूपञ्चैवमित्युक्तम् अनग्ने च इति त्वथ ॥ ४२ ॥
अधूमञ्चैवमित्युक्तम् आगमञ्च तथैव च
अनाधेवरिति प्रोक्तं नाना — ञ्चैवमेव च ॥ ४३ ॥
धूधूपि च इति प्रोक्तम् ओम्भूश्चैव तथैव च
ओम्भुवश्चैवमित्युक्तम् ओंसुवश्च तथैव च ॥ ४४ ॥
निधनं निधनञ्चैव निधनोद्भवमेव च
शिवश्शर्व इति प्रोक्तं परमात्मा तथैव च ॥ ४५ ॥
महेश्वरञ्च एते च महादेवस्तथैव च
—- चैव च इत्युक्तम् अनग्ने च तथा इति ॥ ४६ ॥
अधूमञ्चैवमित्युक्तम् अभस्मञ्च तथैव च
अनाधे च इति प्रोक्तं नानानारूपमेव च ॥ ४७ ॥
धूमधूम इति प्रोक्तम् ओम्भूश्चैव तथैव च
ओम्भुवश्चैवमित्युक्तम् ओंसुवश्च तथैव च ॥ ४८ ॥
निधनं निधनञ्चैव निधनोद्भवमेव च
शिवश्शर्व इति प्रोक्तं परमात्मा तथैव च ॥ ४९ ॥
महेश्वरश्च एते च महातेजस्तथैव च
सद्भावेश्वरमित्युक्तं महातेजस्तथैव च ॥ ५० ॥
योगाधिपतये चैव मुञ्चमुञ्च इति त्वथ
प्रमथप्रमथमित्युक्तं शर्वशर्व इति त्वथ ॥ ५१ ॥
अष्टाविंशति सङ्ख्या च निवृत्तिञ्च ततश्शृणु
निवृत्तिश्च विशेषेण ब्रह्माण्डमद्ध्यमे तथा ॥ ५२ ॥
न्यसेत् भवभवञ्चैव भवोद्भव इति त्वथा
सर्वभूतसुखश्चैव सर्वसान्निद्ध्यकन्तथा ॥ ५३ ॥
ब्रह्मविष्णुरुद्रपरञ्चैव अर्चितानर्चितन्तथा
असंस्थितासंस्थिता च साक्षिन्साक्षिन्तथैव च ॥ ५४ ॥
कुरुकुरु इति प्रोक्तं पतङ्गञ्च तथैव च
पिङ्गपिङ्ग इति प्रोक्तं ज्ञानाज्ञानं तथैव च ॥ ५५ ॥
शब्दशब्द इति प्रोक्तं सूक्ष्मासूक्ष्मन्तथैव च
सर्वस्सर्वदमित्युक्तम् ओन्नमोनम एव च ॥ ५६ ॥
शिवाय च इति प्रोक्तम् ओन्नमोनम ओन्नमः
पदन्यासमिति प्रोक्तं वर्णन्यासं ततश्शृणु ॥ ५७ ॥
रुद्रभागे विशेषेण शान्त्यतीतकला तथा
शक्तितत्वे न्यसेच्चैव अकाराद्यक्षरन्तथा ॥ ५८ ॥
अकारञ्चैव आकारम् इकारञ्च तथैव च
ईकारञ्च उकारञ्च ऊकारञ्च ऋकारकम् ॥ ५९ ॥
ॠकारञ्च लृकारञ्च लॄकारञ्च तथैव च
एकारञ्चैव ऐकारम् ओकारञ्च तथैव च ॥ ६० ॥
औकारञ्चैव अङ्कारं विसर्गाकारमेव च
प्रत्येकं प्रणवादौ च अन्ते चैव नमोन्तकम् ॥ ६१ ॥
न्यसेत् शान्तिकले चैव ककारञ्च खकारकम्
गकारञ्चैवमित्युक्तं विद्याकलाविशेषतः ॥ ६२ ॥
विष्णुभागे विशेषेण विद्ये चैव न्यसेत्ततः
घकारञ्च ङकारञ्च चकारञ्च छकारकम् ॥ ६३ ॥
जकारञ्च झकारञ्च ञकारञ्च तथैव च
विद्याकला इति प्रोक्तं प्रतिष्ठाञ्च ततश्शृणु ॥ ६४ ॥
प्रतिष्ठे च विशेषेण ब्रह्माविष्णू तथैव च
टकारञ्च ठकारञ्च डकारञ्च ढकारकम् ॥ ६५ ॥
णकारञ्च तकारञ्च थकारञ्च दकारकम्
धकारञ्च नकारञ्च पकारञ्च फकारकम् ॥ ६६ ॥
बकारञ्च भकारञ्च मकारञ्च यकारकम्
रकारञ्च लकारञ्च वकारञ्च शकारकम् ॥ ६७ ॥
षकारञ्च सकारञ्च हकारञ्च लकारकम्
प्रतिष्ठा च इति प्रोक्तं निवृत्तिञ्च तथैव च ॥ ६८ ॥
क्षकारञ्च निवृत्तौ च ब्रह्मभागे न्यसेत्ततः
वर्णन्यासमिदं प्रोक्तं भुवन्न्यासं ततश्रुणु ॥ ६९ ॥
रुद्रभागे शान्त्यतीते न्यसेच्चैव अनाश्रया
अनाधाचेदनन्ता च व्योमरूपा च व्यापिनी ॥ ७० ॥
कलाशान्तिरिति ज्ञेयम् ऊर्ध्वगामी तथैव च
मोचिका रोचिका चैव दीपिका इन्धिका तथा ॥ ७१ ॥
न्यसेन्न्यासकलाञ्चैव भुवनानि तथैव च
न्यसेच्च शिवतत्वे च शान्त्यतीता च शान्ति च ॥ ७२ ॥
विद्या चैव प्रतिष्ठा च निवृत्ती च तथैव च
न्यसेत् बीजकलाञ्चैव भुवनानि विशेषतः ॥ ७३ ॥
रुद्रभागे शान्तिकला सादाख्य भुवनं श्रुणु
शिखण्डी चैव श्रीकण्ठा त्रिमूर्तीरेकरुद्रकः ॥ ७४ ॥
एकनेत्रञ्च सम्पूज्य शिवोत्तमन्तथैव च
सूक्ष्मञ्चैव अनन्तञ्च ज्ञेयोद्यष्टकमुच्यते ॥ ७५ ॥
रुद्रभागे ईशतत्वे मनोन्मनि तथैव च
सर्वभूतदमनी च बलप्रमथिनी तथा ॥ ७६ ॥
बलौ विकरणी चैव कलौ विकरणी तथा
कालीरौद्री च जेष्ठा च वामा चैव तथैव च ॥ ७७ ॥
रुद्रभागे शुद्धविद्ये न्यसेच्चैव विशेषतः
मुरारिभागे विद्ये च न्यसेदङ्गुष्ठमात्रकम् ॥ ७८ ॥
भुवनेश्वरमीशानम् एकपिङ्गेक्षणन्तथा
उद्भवं भवमित्युक्तं वामदेवं तथैव च ॥ ७९ ॥
महातेज इति प्रोक्तं मायायाष्टौ विनिर्दिशेत्
शिखेद एकवीरश्च काले चैव विशेषतः ॥ ८० ॥
पञ्चान्तकश्च शूरश्च नियतौ च न्यसेत्ततः
संवक्त्रं ज्योतिषी चैव कलायाश्च विशेषतः ॥ ८१ ॥
चण्डक्रोऽथ इति द्वौ च विद्यायाञ्च न्यसेत्ततः
न्यसेच्चैव शिवश्चैव अनन्तश्च तथैव च ॥ ८२ ॥
अजो उमापतिश्चैव प्रचण्डाख्यं तथैव च
रागतत्वे च संयोज्य एकवीरन्तथैव च ॥ ८३ ॥
ईशानभवमित्युक्तम् उग्रभीमस्तथैव च
वामाख्या च इति प्रोक्तं पुरुषत्वे तथैव च ॥ ८४ ॥
विष्णुभागे प्रतिष्ठा च श्रीकण्ठश्च तथैव च
औमेयश्चैव कौमारी वैष्णवी ब्राह्मिभैरवम् ॥ ८५ ॥
कृताकृतप्रकृत्यौ च गुणतत्वे तथैव च
ब्राह्मी ब्राह्मेश्वरी चैव सौम्ये ऐन्द्रं तथैव च ॥ ८६ ॥
गन्धर्वयक्षराजश्च पैशाचश्च तथैव च
देवयोन्यष्टमञ्चैव वृद्धौ चैव तथैव च ॥ ८७ ॥
स्थलेश्वरञ्च हुङ्कारे स्थूलेश्वरन्तथैव च
मनसा बुद्धीन्द्रिये चैव पञ्चकेषु विनिर्दिशेत् ॥ ८८ ॥
शङ्खकर्ण इति प्रोक्तं कर्मेन्द्रियञ्च भूतके
कालञ्जरन्तमित्युक्तं मण्डलेश्वरमेव च ॥ ८९ ॥
मालेकश्च द्विरण्डश्च करण्डश्च तथैव च
तन्मात्रेन्द्रियके चैव अहङ्काराद्विशेषतः ॥ ९० ॥
गन्धतत्वान्तमेवोक्तं स्थाणुं स्वर्णाक्षमेव च
भद्रकर्णश्च गोकर्णमहालयस्तथैव च ॥ ९१ ॥
अविमुक्तौ रुद्रकोटि वस्त्रापदसवेष्टकौ
आकाशे च विशेषेण भीमेश्वरमहेन्द्रकः ॥ ९२ ॥
अट्टहासश्च विमलः नखलो नाखलस्तथा
कुरुक्षेत्रगयाख्यष्टौ वायुतत्वे विशेषतः ॥ ९३ ॥
भैरवञ्चैव केदारं महाकालस्तथैव च
मद्ध्येश्वर इति प्रोक्तम् आम्रादिकेश्वरन्तथा ॥ ९४ ॥
जल्पेश्वर इति त्वैव श्रीशैलश्च तथैव च
हरिश्चन्द्राष्टकञ्चैव तेजस्तत्वेष्टु योजयेत् ॥ ९५ ॥
लकुलीश इति प्रोक्तं भारभूतिस्तथैव च
डिण्डिमुण्डिञ्च आषाढं पुष्करञ्च तथैव च ॥ ९६ ॥
नैमिशञ्च प्रभासञ्च अमरेशाट्टहासकः
अप्तत्वेषू च संयोज्य कल्पयेत्साधकोत्तमः ॥ ९७ ॥
ब्रह्मभागे निवृत्ये च ब्रह्माण्डोपरितन्तथा
भद्रकाली वीरभद्रौ न्यसेच्चैव विशेषतः ॥ ९८ ॥
त्रिलोचनोऽथ लिप्सञ्च नभो चैव व्यवाह च
संवादत्रिदशेशश्च त्रियक्षश्च तथैव च ॥ ९९ ॥
गणाद्ध्यक्षविभुश्शम्भू ऊर्ध्वे दश विनिर्दिशेत्
दंष्ट्री वज्री फणीन्द्रश्च दुम्बरीशस्तथैव च १००
ग्रसनोमारुताशश्च क्रोधनो नन्त एव च
न्यसेत् वृषधरश्चैव वृषो नव पथस्तथा १०१
बलिप्रियो भूतबाला ज्येष्ठासर्वसुरेशकः
वेदपारग इत्येते ज्ञानभुक्च तथैव च १०२
सर्वज्ञ ईशकश्चैव विद्याधिपतये तथा
ईशाने दशविन्न्यस्य प्रकामदप्रसादकः १०३
श्रीधरो रत्नधरश्चैव लक्ष्मीधरजटाधरः
सौम्यदेहश्च धन्यश्च वरूपवांश्च निधीशकः १०४
उत्तरे दश विन्न्यस्य मेघवाहन एव च
कपर्दी पञ्च शिखश्चैव पञ्चान्तकक्षयान्तकः १०५
तीक्ष्णसूक्ष्मश्च वाग्वेगो वरशीघ्रश्च वायवः
सुनादमेघनादश्च जलान्तक इति स्तथा १०६
दीर्घबाहुर्जयो भद्रो श्वेतश्चैव महाबलः
पाशहस्तौ बलश्चैव वारुणो दश उच्यते १०७
दंष्ट्रावान् लोहितेशश्च धूम्रश्चैव तथैव च
विरूपाक्ष ऊर्ध्वकेशो भयानक इति त्वथ १०८
क्रूरदृष्टिश्च तन्त्रिश्च मारणौ निर्ऋतौ तथा
न्यसेद्धर्मपतिश्चैव धर्मव्योक्तृक एव च १०९
संयोक्तृ कर्तृकश्चैव विधातृ धातृहस्तथा
श्रुत्ययागमिति प्रोक्तं याम्ये दश विशेषतः ११०
क्षयान्तकश्च एवोक्तं भस्मान्तक इति त्वथ
बभ्रूदहन एवश्च ज्वलनो हरखानकः १११
पिङ्गलो हुताशनश्चैव वज्रदेहश्च बुद्धकः
अजश्चैव कपालीशः पूर्वदेशे विनिर्दिशेत् ११२
रुद्रो विष्णुश्च ब्रह्मा च आटकेश्वर एव च
कूश्माण्डश्चैव कालाग्नि अण्डमूलस्तथैव च ११३
भुवन्यासमिदं प्रोक्तं तत्वन्यासन्तत श्रुणु
शान्त्यतीते रुद्रभागे तत्वञ्चैव न्यसेत्ततः ११४
आदौ प्रणवमुच्चार्य हकारञ्च ततः परम्
अन्तेन मोन्तमित्युक्तं शक्तितत्वं स्मरेत्ततः ११५
शिवतत्वं स्मरेत्पश्चात् अर्चयित्वा विशेषतः
रुद्रभागे शान्तिकले न्यसेश्चैव सदाशिवम् ११६
ईश्वरं शुद्धविद्या च न्यसेच्चैव विशेषतः
विष्णुभागे च विद्ये च मायाकालस्तथैव च ११७
नियत्या च कलाश्चैव विद्यारागश्च पौरुषम्
प्रतिष्ठाकाले ब्रह्मभागे प्रकृतिर्गुणमेव च ११८
बुद्ध्यहङ्कारमेवोक्तं मनश्रोत्रन्तथैव च
नाभौ च जठरे चैव घ्राणं वाक् पादमेव च ११९
पाणिपायुरुपस्थश्च शब्दस्पर्शश्च रूपकम्
रसगन्धश्च आकाशं वायुतेज अपस्तथा १२०
निवृत्तौ पृथिवी तत्वं तत्वन्यासं क्रमात्तथा
शान्त्यतीतावशान्तिश्च विद्या चैव प्रतिष्ठिता १२१
निवृत्तिश्च इति प्रोक्तं कलाख्यञ्च न्यसेत्ततः
तत्वन्न्यासमिति प्रोक्तं कला न्यासन्तत श्रुणु १२२
ऊर्ध्वमूध्नि त्वथो मूर्ध्नि सव्यमूर्ध्नि तथैव च
पश्चिमे चैव मूर्ध्निश्च वाममूर्ध्नि तथैव च १२३
ऊर्ध्ववक्त्रमथो वक्त्रं सव्यपश्चिम एव च
उत्तरे चैव विन्यस्य हृदये तु तथैव च १२४
गले च दक्षिणांसे च वामांसे च तथैव च
नाभौ च जठरे चैव पृष्ठे च उरसी तथा १२५
गुह्ये च लिङ्गके चैव दक्षिणोरौ तथैव च
वामोरौ चैव विन्यस्य दक्षिणे जानुमेव च १२६
वामजानुनिविन्यस्य दक्षिणं घनमेव च
वामजङ्घे च विन्यस्य दक्षिणस्फिचिरेव च १२७
वामस्फिचिचविन्यस्य कट्यां चैव तथैव च
दक्षपार्श्वे वामपार्श्वे दक्षिणं पदमेव च १२८
वामपादौ च विन्यस्य दक्षहस्तस्तथैव च
वामहस्ते च विन्यस्य नासिके च तथैव च १२९
शिवसी चैव विन्यस्य दक्षबाहुन्तथैव च
वामबाहुञ्च विन्यस्य ध्येयोक्तं श्रुणु षण्मुख १३०
नीलवस्त्रां नीलदेहां पाशाङ्कुशवराभयाम्
सर्वाभरणसंयुक्तां शशिनीमाश्रये श्रुणु १३१
दुकूलवसनोपेतां कण्ठालङ्कृतभूषिताम्
शूलाभयञ्च खट्वाङ्गां गण्डिका चोत्तरीयकम् १३२
अङ्गनालक्षणं प्रोक्तम् इष्टाञ्च लक्षणं श्रुणु
चित्रवस्त्रसमोपेतां पादनूपुरसंयुताम् १३३
वराभयञ्च जटिलं मरीची लक्षणं श्रुणु
पाशाक्षमालामभयां सुवीणाधरसंस्थिताम् १३४
मालानूपुरसंवेद्यां ज्वालिनी लक्षणं श्रुणु
त्रिनेत्रां पीतवर्णाभां कुण्डलाभरणोज्वलाम् १३५
पाशदण्डकपालञ्च अव्यक्ताञ्च तत श्रुणु
चतुर्भुजां त्रिनेत्राञ्च किरीटमकुटोज्वलाम् १३६
खट्गखेटञ्च सव्ये तु ईशन्ध्यायविशेषतः
जटामकुटशोभाढ्यां कुण्डलाभरणोज्वलाम् १३७
पाशदण्डासिधारीञ्च तन्द्राञ्चैव तत श्रुणु
श्वेताभांश्वेतवस्त्राञ्च पादनूपुरमण्डिताम् १३८
पद्माक्षमालां पाण्यौ च मोहाञ्चैव तत श्रुणु
नीलाङ्गीं श्वेतवस्त्राभां जटामकुटशोभिताम् १३९
अभयं वरदोपेतां रक्षाञ्चैव ततश्शृणु
त्रिनेत्राञ्च द्विपादाञ्च पद्मोत्पलधरां शिवाम् १४०
वरदाभयहस्ताञ्च इष्टाञ्चैव ततश्शृणु
उत्तुङ्गमकुटोपेतां त्रिनेत्राञ्च चतुर्भुजाम् १४१
चक्रशूलवराभीतिं मृत्युञ्चैव ततश्शृणु
हेमयज्ञोपवीताङ्गं कुण्डौ कुण्डलमण्डितौ १४२
अञ्जली कृतपद्मस्थौ मायाञ्चैव ततश्शृणु
श्यामाभां पीतवस्त्राङ्गीं सर्वाभरणभूषिताम् १४३
शङ्खचक्रवराभीतिं भयाञ्चैव ततश्शृणु
त्रिनेत्रां षट्भुजोपेतां चक्रशूलञ्च खड्गिनीम् १४४
पाशाभयवरञ्चैव ज्वरा चैव ततश्शृणु
हेमप्रभामिन्दुचूडां शार्ङ्गीपद्मवराभयाम् १४५
सर्वाभरणसंवेष्ट्याम् अजाञ्चैव ततश्शृणु
काश्मीरसदृशप्रख्यां वरदाभयपाणिनीम् १४६
पद्माक्षीं पद्मपुष्पाभां रक्ताञ्चैव ततश्शृणु
रक्तवर्णां त्रिनेत्राञ्च मुक्तामाणिक्कभूषिताम् १४७
डमरूं शूलपाशाङ्गीं रतीञ्चैव ततश्शृणु
काशपुष्पसमानाङ्गीं तोमरव्यजनायुधाम् १४८
दंष्ट्राकराल वदनां पाल्ये चैव तत श्रुणु
उन्मत्तषालिनीं पीतां वज्रशक्तिवराभयाम् १४९
पद्मपीठोपरिस्थाङ्गीं कामाञ्चैव ततश्शृणु
हरितालसमानाङ्गीम् एकवक्त्रां त्रिलोचनाम् १५०
गण्डिकामक्षमालाञ्च यमुनाञ्च तत श्रुणु
द्विपादञ्च तनूरेकं वरदाभयपाणिनम् १५१
कुन्दमन्दस्मितं शान्तं त्रियाञ्चैव ततश्शृणु
चतुर्भुजां चतुर्वक्त्रां जटामकुटशोभिताम् १५२
नागपाशसुधार्यञ्च बुद्धिञ्चैव ततश्शृणु
चतुर्भुजसमायुक्तां पद्मभीति वराङ्कुशाम् १५३
पद्मप्रभनिभां वन्दे कुर्याच्चैव ततश्शृनु
गण्डिकाभयपाशञ्च कोमरञ्चायुधन्तथा १५४
सरत्नमकुटोपेतां धात्रीञ्चैव ततश्शृणु
द्विभुजा पद्मपीठस्था सर्वाभरणभूषिता १५५
अञ्जली कृत विद्याख्या ब्राह्मणीञ्च ततश्शृणु
स्रक्कमण्डलुदण्डाक्षं कुङ्कुमाङ्कितसन्निभम् १५६
किरीटमकुटोपेतां मोहिनीञ्च ततश्शृणु
जटामकुटशोभाढ्यां भस्मभूषितविग्रहाम् १५७
अभयं वरदोपेतां भयाञ्चैव ततश्शृणु
कुण्डलाभरणञ्चैव व्यालयज्ञोपवीतिनम् १५८
वज्रनागधरञ्चैव सिद्धञ्चैव ततश्शृणु
जटिलं कुङ्कुमप्रख्यम् एकवक्त्रं त्रिलोचनम् १५९
खड्गखेटवराभीतिम् ऋद्धिञ्चैव ततश्शृणु
नीलोत्पलप्रभां वन्दे सरत्नमकुटाम्बिकाम् १६०
टङ्ककृष्णा मृगञ्चैव द्युतिञ्चैव ततश्शृणु
रत्नवर्णां रत्नभूषां पद्माक्षीं लोकधारिणीम् १६१
पद्मोत्पलवराभीतिः धृतिञ्चैव ततश्शृणु
त्रिनेत्रां चतुर्भुजां शान्तां डमरूं पाशमङ्कुशाम् १६२
वरदां बालवेषाढ्यां मेधा वै नासिकाहिताम्
शूलङ्कपालं खट्वाङ्गं कान्तिञ्चैव तत शृणु १६३
जटामकुटसंयुक्तां नागयज्ञोपवीतिनम्
वरदाभयहस्ताञ्च स्वधाञ्चैव ततश्शृणु १६४
श्वेताभां नीलवस्त्रङ्गीम् अक्षमाला वरप्रदाम्
उन्मत्तषालिनीं वन्दे धृतिञ्चैव ततश्शृणु १६५
दण्डाञ्च माला अभयं पुस्तकाङ्कित सन्निभाम्
दुकूलवसनोपेताम् अष्टत्रिंशत्कलान्न्यसेत् १६६
मन्त्रन्तु शिवमित्युक्तं वदमांसाकृतिन्तथा
वर्णान्तु सप्तधातुश्च भुवना देहमुच्यते १६७
तत्वास्थिनासिकाप्रोक्तं पञ्चभूता कृतिन्तथा
नेत्रनासी च दन्तञ्च रोमकेशनखानि च १६८
रेखान्तमाससौन्दर्यं द्वात्रिंशत् लक्षणाकृताम्
एतेषां रूपमेवोक्तम् अष्टत्रिंशत्कला भवेत् १६९
मन्त्रदेहमिति प्रोक्तं मन्त्रसिह्मासनस्थितम्
शुद्धस्फटिकसङ्काशं भस्मोद्धूलितविग्रहम् १७०
सर्वाभरणसंयुज्क्तं मुक्तामाणिक्यभूषितम्
प्रवालाभरणोपेतं कर्णकुण्डलपत्रकौ १७१
जटामकुटसंयुक्तं प्रतिवक्त्रं त्रिलोचनम्
खण्डेन्दुमौलिसंयुक्तं जाह्नवीदक्षिणन्तथा १७२
नागधुत्तूरपुष्पञ्च बकपुष्पसमायुतम्
पाश्वस्त्रं कुङ्कुमाभासं दक्षिणाञ्जनसप्रभम् १७३
वामे तु रक्तवर्णाभं पश्चिमे क्षीरवर्णकम्
ऊर्ध्वे स्फटिकवर्णाभं पादनूपुरमण्डितौ १७४
व्याघ्रचर्माम्बरधरं गजचर्मपरिच्छदम्
सिह्मत्वक्कटिबन्धञ्च सर्पाभरणभूषितम् १७५
नागाभरणसंयुक्तं वृश्चिकाभरणोज्वलम्
घण्टामालाधरञ्चैव द्वां त्रिंशल्लक्षणान्वितम् १७६
कथं शम्भो विशेषेण वक्ष्ये श्रुणु षडानन
नेत्रान्तौ बाहुग्मञ्च नासा चैव कपोलयोः १७७
सतथैर्यद्रुमे चैव पञ्चदीर्घस्थलन्तथा
जङ्घौ ग्रीवा प्रजननं वृषं ह्रस्वानिरुच्यते १७८
दन्तान्कोशसमायुक्तं नखत्वक् पर्वमङ्गुलान्
सूक्ष्मस्थलमिति प्रोक्तं घ्राणस्कन्धन्तथैव च १७९
हृदयं कुक्षिरेवोक्तं निष्कलं सकलन्तथा
पृथिवी कन्दमिति प्रोक्तं माणिक्य सदृशप्रभम् १८०
नित्यरूपमिति ख्यातं प्रतिष्ठाबीजमुच्यते
प्रतिष्ठा जीवमित्युक्तं विद्याङ्गुरवकास्तथा १८१
लताकारं कलादीञ्च शान्तिपद्माकृतिन्तथा
शुद्धविद्यापद्ममूलमनेकदलसङ्कुलम् १८२
क्षुब्धं माया केसरञ्च महामायाञ्च कर्णिका
अकारात् षोडश वर्णानि बीजरूपमिहोच्यते १८३
दलाग्रवृत्ते सूर्यञ्च व्यापकं ब्रह्ममुच्यते
केसराग्रे वैष्णवञ्च लिङ्गमूले यजेत्ततः १८४
लिङ्गमस्तकवृत्ते च वह्नीशं रौद्रमर्चयेत्
लिङ्गोपरि विशेषेण शक्तिमण्डलमीश्वरम् १८५
लिङ्गस्य मस्तकाच्चैव द्वादशान्तोपरि शिवम्
सदाशिवं यजेत्पश्चात् घटे त्वेवं ततश्रुणु १८६
ओष्ठमूलन्दलाकारम् ओष्ठन्तु कर्णिकामयम्
तस्योपरि द्वादशान्ते सदाशिवं प्रपूजयेत् १८७
पद्मपीठोपरिस्थञ्च वामे शक्तिरलङ्कृतम्
अभयं वरदञ्चैव नागपाशमणिन्तथा १८८
शूलखट्वाङ्गवज्रञ्च शार्ङ्गपाणि धरं शिवम्
शिवं सम्पूजयेत्पश्चात् मण्डले पूजयेच्छिवम् १८९
पञ्चावरणमार्गेण प्रत्येकं श्रुणु षण्मुख
दलाग्रे पूजयेत्पश्चात् चतुर्भुजहमायुतम् १९०
शूलं डमरुकं पाशम् अभयं शुक्लवर्णकम्
जटामकुटसंयुक्तं खण्डेन्दु जटिलन्तथा १९१
नागयज्ञोपवीतञ्च कर्णकुण्डलपत्रिका
अनन्तेशमिदं प्रोक्तं सूक्ष्मेशञ्च ततश्शृणु १९२
द्विपादं रक्तवर्णञ्च चर्मवस्त्रोत्तरीय्यकम्
कृष्णापरशुसंयुक्तं कपालं शूलमेव च १९३
जटाखण्डेन्दुचूडाञ्च भस्मोद्धूलितविग्रहम्
सर्वाभरणसंयुक्तं शिवोत्तमन्ततश्शृणु १९४
त्रिनेत्रञ्च चतुर्बाहुं कुण्डलाभरणोज्वलम्
नागयञ्जोपवीतञ्च कुन्ददन्तनिभन्तथा १९५
कपालं शङ्खमुसलम् अभयं दक्षिणे तथा
डाडिमी कुसुमप्रख्यम् एकनेत्रं ततश्शृणु १९६
जटिलं कुङ्कुमाभासं त्रिनेत्रञ्च चतुर्भुजम्
डमरुं खण्डपाशञ्च शूलन्नीलोत्पलान्वितम् १९७
व्याघ्रचर्माम्बरधरम् एकरुद्रन्ततश्रुणु
श्यामवर्णञ्चतुर्बाहुं काशपुष्पनिभाकृतिम् १९८
जटामकुटखण्डेन्दु वृश्चिकाभरणोज्वलम्
———————- तत श्रुणु १९९
कृष्णवर्णञ्चतुर्बाहुं जटामकुटमण्डितम्
शान्तरूपमिदं प्रोक्तम् अर्कमालाग्निसंयुतम् २००
अभयं वरदोपेतं श्रीकण्ठञ्च ततश्शृणु
भस्मोद्धूलितसर्वाङ्गं नागयज्ञोपवीतिनम् २०१
टङ्ककृष्णमृगञ्चैव अभयं वरदन्तथा
सर्वाभरनसंयुक्तं शिखण्डीञ्च ततश्शृणु २०२
त्रिनेत्रं टङ्ककृष्णञ्च अक्षमालाञ्च पुस्तकम्
डाडिमी कुसुमप्रख्यं व्याघ्रचर्मोत्तरीयकम् २०३
सर्पोपवीतिनं शान्तं कुण्डलाभरणोज्वलम्
शिखण्डी लक्षणं प्रोक्तं गणेशलक्षणं श्रुणु २०४
रक्तपर्णनिभञ्चैव त्रिनेत्रं जटिलन्तथा
जटामकुटसंयुक्तं करालवदनान्वितम् २०५
स्नानकं सव्यपादञ्च वामपादनिकुञ्चितम्
प्रसार्यदण्डहस्तञ्च दण्डमद्ध्ये पदन्न्यसेत् २०६
सव्योर्ध्वे अभयञ्चैव वामोर्ध्वे तलधार्यकम्
अष्टनागसमायुक्तं घण्टाभरणभूषितम् २०७
नन्दिलक्षणमेवोक्तं महाकालन्ततश्शृणु
श्यामाङ्गं बद्धवेणीञ्च मकुटञ्चोपरित्वथ २०८
सव्ये तु कुञ्चितं पादं स्तम्भमद्ध्ये तु विन्न्यसेत्
वामपाणितलञ्चैव तोमराग्रे न्यसेत्ततः २०९
सव्ये तु सूर्यहस्तं स्यात् सव्योर्ध्वे अभयन्तथा
वामोर्ध्वे धार्यपाणिञ्च घण्टानागविभूषितम् २१०
पद्मपीठोपरिस्थाञ्च महाकालीं यजेत्ततः
मलाक्षीं सूत्रिणीं भृङ्गीं निर्वाणावयवान्तथा २११
जटालम्बितपार्श्वे तु त्रिणेत्रं जटिलन्तथा
चर्मवस्त्रोत्तरीय्यञ्च गणेशं श्रुणु षण्मुख २१२
करस्थकदलीचूतपनसेक्षुकमोदकम्
बालसूर्यप्रभं वन्दे एवं बालगणाधिपम् २१३
गणेशलक्षणं प्रोक्तं वृषस्य लक्षणं श्रुणु
—————–एकपादन्तु कुञ्चितम् २१४
श्रोत्रौ शृङ्गौ च नास्यौ च श्वेतवर्णन्तथैव च
वृषस्य लक्षणं प्रोक्तं स्कन्दस्य लक्षणं श्रुणु २१५
चतुर्भुजं द्विपादञ्च स्नानकं पदमुच्यते
वज्रं शक्तिधरञ्चैव श्यामां वामकरे तथा २१६
दक्षिणे बाणमित्युक्तं दुकूलवसनान्वितम्
स्कन्दस्य लक्षणं प्रोक्तं देव्याश्च लक्षणं श्रुणु २१७
सिह्मोपरिस्थितान्देवीं कपालं शूलमेव च
जटामकुटसंयुक्तां त्रिनेत्रां चन्द्रशेखराम् २१८
देव्यास्तु लक्षणं प्रोक्तं चण्डेशलक्षणं श्रुणु
चतुर्मूर्द्धं चतुर्वक्त्रं नेत्रद्वादशसंयुतम् २१९
शूलङ्कमण्डलुं चैव अक्षसूत्रवरन्तथा
द्वितीयावरणं प्रोक्तं तृतीयावरणं श्रुणु २२०
द्विनेत्रं चतुर्भुजं शान्तं करण्डमकुटन्तथा
पीताभं पीतवस्त्रं च गजस्कन्धस्थितन्तथा २२१
वज्रं शूलन्तथा चैव अञ्जलीकृतसंयुतम्
मुक्तामाणिक्कसम्भूष्यम् अग्निं चैव ततश्शृणु २२२
मेषारूढं सप्तहस्तं ज्वालाकेशसमप्रभम्
सप्तजिह्वं चतुर्नेत्रं रक्तवस्त्रङ्गरागकम् २२३
घृतपात्रन्तोमरं च व्यजनं शूलमेव च
शक्तिखड्गं च खेटं च अग्निं ध्यायेद्विशेषतः २२४
यमं कृष्णनिभाकारम् ऊर्ध्वज्वलासुकेशकम्
करालवदनं भीतिं खड्गखेटन्तथैव च २२५
तोमरं पाशहस्तं च महिषारूढमेव च
मुक्ताभरणसंयुक्तं दिव्याभरणभूषितम् २२६
दक्षिणाधिपतिं प्रोक्तं नैर्ऋतं च ततश्शृणु
धूम्रवर्णं द्विनेत्रं च धूम्राक्षं लम्बकेशकम् २२७
योगखेटधरं घोरं प्रेतारूढन्तथैव च
नैर्ऋतं पूजयेत्पश्चात् वारुणं च ततश्शृणु २२८
श्वेताभं श्वेतवस्त्राङ्गं किरीटमकुटोज्वलम्
पाशटङ्कधरं भीमं मकरारूढमव्ययम् २२९
विद्याभरणसम्बन्धं केयूरकटकान्वितम्
वारुणं लक्षणं प्रोक्तं वायुदेवं तत श्रुणु २३०
श्यामाङ्गं कृष्णवस्त्राभं कुरङ्गारूढमेव च
सरत्नमकुटोपेतं द्ध्वजाभयसमन्वितम् २३१
सर्वाभरणसंयुक्तं कौबेरञ्च ततः श्रुणु
जपापुष्पसमानाङ्गं तुरङ्गारूढमुच्यते २३२
ऊरुहस्तङ्गता सव्ये कुरुपञ्चकिरीटिनम्
रत्नालङ्कृतसर्वाङ्गम् ईश्वरञ्च ततः श्रुणु २३३
शुद्धस्फटिकसङ्काशं जटामकुटमण्डितम्
नागयज्ञोपवीताङ्गं वृषभारूढमव्ययम् २३४
शूलं कपालखट्वाङ्गं पाशन्ध्यायेत् विशेषतः
चन्द्रादीनर्चयित्वा तु वज्रादींश्च तत श्रुणु २३५
द्विभुजञ्च द्विनेत्रञ्च किरीटमकुटोज्वलम्
श्यामवर्णन्तुन्दिलञ्च अञ्जलीकरसंयुतम् २३६
वज्राग्रे स्थानकं प्रोक्तं शक्तेश्च लक्षणं श्रुणु
त्रिभङ्गाङ्गेन संयुक्तां रक्तवर्णसमायुताम् २३७
अञ्जलीकरसंयुक्तां करालवदनान्तथा
भ्रुकुटीभूषणाञ्चैव दण्डचिह्नं तत श्रुणु २३८
कृष्णप्रभनिभं वन्दे भृकुटीवदनन्तथा
श्मश्रुकेशसमायुक्तम् अञ्जली करसंयुतम् २३९
धूम्रलोचनसम्प्रख्यं खट्गञ्चैव ततः श्रुणु
द्विपादञ्च द्विनेत्रञ्च लम्बकेशसमन्वितम् २४०
करालवदनं भीमं भृकुटीमुखभीषणम्
स्थूलं कृष्णमृगञ्चैव पाशञ्चैव तत श्रुणु २४१
गतापीतनिभप्रख्यं कन्न्यकाकृतिमुत्तमम्
कन्निकाकृतिकेशञ्च अग्निज्वालामुखी तथा २४२
अञ्जली करपद्मस्थं त्रिशूलञ्च तत श्रुणु
त्रिनेत्रञ्चतुर्भुजं भीमं भृकुटीमुखभीषणम् २४३
दंष्ट्राकरालवदनं जटामकुटमण्डितम्
रक्तदृष्टिभयं घोरं पादकिङ्किणिशोभितम् २४४
शूलाकृतिमुखैश्चैव सूचिहस्तन्तु वामके
द्विकराभ्यां मुष्टिहस्तौ च प्रहराभयमेव च २४५
घण्टामालाधरञ्चैव चक्रञ्चैव तत श्रुणु
द्विनेत्रञ्चतुर्भुजं शान्तं न्यासक्रमपदन्तथा २४६
अञ्जलीकरहस्तञ्च मुष्टिहस्तकरौ तथा
किरीटवदनं शान्तं पद्मञ्चैव तत श्रुणु २४७
द्विनेत्रं द्विभुजं शान्तम् अञ्जलीकृतसंयुतम्
करण्डवदनं भीमं गुरुपङ्क्तीन्ततश्शृणु २४८
चतुर्भुजं त्रिनेत्रञ्च जटामकुटमण्डितम्
टङ्ककृष्णमृगञ्चैव वरदं वामहस्तकम् २४९
सदाशिवमिति प्रोक्तमनन्तञ्च ततश्शृणु
त्रिनेत्रञ्चतुर्भुजं शान्तं टङ्काक्षमालिकाभयम् २५०
सूचीकरं विशालाक्षं श्रीकण्ठञ्च ततश्शृणु
शूलं कपालसंयुक्तमञ्जलीकरसंयुतम् २५१
जटामकुटशोभाढ्यं भस्मपाण्डरविग्रहम्
कुण्डलं कर्णपत्रौ च अम्बिकेशं ततश्शृणु २५२
जटामकुटशोभाढ्यम् भस्मकुण्ठितविग्रहम्
टङ्काक्षमालिकायुक्तं वरदं भृगुसंयुतम् २५३
नागयज्ञोपवीतञ्च अम्बिकासहितन्तथा
–ऋयादं तनुरेकं च षट्वक्त्रं द्वादशाक्षकम् २५४
सरत्नमकुटोपेतं मयूरान्तिकमव्ययम्
पुस्तकं ज्ञानमुद्राञ्च शक्तिवज्रधरन्तथा २५५
खट्गखेटञ्च मुसलं पाशदण्डन्तथैव च
असिचापशरञ्चैव श्यामवर्णन्तथैव च २५६
स्कन्दं सम्पूजयेत्पश्चात् विष्णुञ्चैव ततश्शृणु
कृताञ्जलिपुटञ्चैव शङ्खचक्रन्तथैव च २५७
नीलाङ्गमकुटोपेतं दुकूलवसनान्वितम्
विष्णुञ्चैव विशेषेण ब्रह्माणञ्च तत श्रुणु २५८
चतुर्मूर्द्धा चतुर्वक्त्रमष्टाङ्गञ्च चतुर्भुजम्
स्रक्तमण्डलुकञ्चैव अञ्जलीकृतसंयुतम् २५९
गुरून्सप्तकमेवोक्तं निवृत्यादीन्ततश्शृणु
श्यामवर्णां त्रिनेत्राञ्च जटामकुटमण्डिताम् २६०
पाशाक्षमालिनीञ्चैव अञ्जलीकृतसंयुताम्
निवृत्तिलक्षणं प्रोक्तं प्रतिष्ठाञ्च ततश्शृणु २६१
षट्भुजाञ्च चतुर्वक्त्रां किरीटमकुटोज्वलाम्
स्रक्कमण्डलुदण्डाक्षां पीतवस्त्रां सुयौवनाम् २६२
प्रतिष्ठालक्षणं प्रोक्तं विद्याञ्चैव ततश्शृणु
चतुर्भुजां द्विनेत्राञ्च शङ्खचक्रवराभयाम् २६३
दुकूलवसनोपेतां सर्वाभरणभूषिताम्
विद्याया लक्षणं प्रोक्तं शान्तेश्चैव ततश्शृणु २६४
षट्भुजा च त्रिनेत्रा च जटामकुटमण्डिता
शूलवज्रधराभीति पाशं दण्डं सुधारयेत् २६५
शान्तेश्च लक्षणं प्रोक्तं शान्त्यतीतां ततश्शृणु
पञ्चवक्त्राञ्चतुर्बाहुं सरत्नमकुटान्विताम् २६६
अक्षमालाञ्च वरदं कपालं पाशमेव च
सर्वाभरणसंयुक्तां श्यामवर्णां त्रिनेत्रकाम् २६७
शान्त्यतीतकलाञ्चैव गणेशलक्षणं श्रुणु
इभवक्त्रं त्रिनेत्रञ्च चतुर्भुजसमायुतम् २६८
दक्षिणे कुञ्चितं पादं वामपादन्तु संस्थितम्
पाशटङ्कसमायुक्तं दन्तमोदकवामके २६९
तुन्दिलं शूर्पकर्णञ्च करण्डमकुटान्वितम्
गणेशलक्षणं प्रोक्तं रविं चैव ततश्शृणु २७०
चतुर्भुजं त्रिनेत्रं च उत्तुङ्गमकुटान्वितम्
प्रभामण्डलमद्ध्यस्थं पद्मपीठोपरिस्थितम् २७१
टङ्कपाशं सुधार्यं च पाणिभ्यां पद्मधारिणम्
किरीटमकुटोपेतम् उषाप्रत्युषया सह २७२
पद्मपीठोपरिस्थं च लोकेशं च ततश्शृणु
हंसारूढं द्वितेत्रं च चतुर्वक्त्रसमायुतम् २७३
किरीटमकुटोपेतं पादनूपुरमण्डितम्
स्रक्कमण्डलुदण्डाक्षं हेमयज्ञोपवीतिनम् २७४
पीताम्बरधरं चैव विष्णुं चैव ततश्शृणु
वैनतेयस्थितं शान्तं शङ्खचक्रवराभयम् २७५
पितवस्त्रोत्तरीयाङ्गं सर्वाभरणभूषितम्
वैष्णवं लक्षणं प्रोक्तं वास्तु नाधन्ततश्शृणु २७६
एकवक्त्रं दशभुजं ज्वालाकेशन्तथैव च
करालवदनं भीमं पाशदण्डाक्षमालिकाम् २७७
कमण्डलुं त्रिशूलं च बाणटङ्कासिखेटकम्
अभयं चित्रवस्त्राभं कृष्णवर्णन्तथैव च २७८
ऊरुवस्त्रसमोपेतं कृष्णाभरणभूषितम्
वास्तुनाधमिति प्रोक्तं लक्ष्मीं चैव ततश्शृणु २७९
शुक्लाभां शुक्लवस्त्राभां शुक्लयज्ञोपवीतिनीम्
विद्याभरणसंयुक्तां विद्यमालाविभूषिताम् २८०
अभयं वरदोपेतां द्विहस्तां पद्ममालिनीम्
वीरासनस्थितान्देवीं तोरणानान्ततश्शृणु २८१
द्विभुजं द्विनेत्रमित्युक्तं पार्श्वयोर्लम्बकेशकम्
दंष्ट्राकरालवदनं भूतरूपन्तथैव च २८२
महोदरं बृहत्कायं केशयज्ञोपवीतिनम्
कञ्चुकाभरणोपेतम् आरोग्यं पूजयेत्ततः २८३
रक्तवर्णं द्विनेत्रं च नागयज्ञोपवीतिनम्
पत्रकर्णौ विशेषेण अञ्जलीकृतसंयुतम् २८४
कञ्चुकाभरणोपेतं बलतोरणसंयजेत्
द्विभुजा च द्विनेत्रा च धूर्जटी लम्बितन्तथा २८५
कृष्णाभरणसंयुक्तं स्थूलग्रीवं महोदरम्
भूतितोरणकं पूज्य शान्तितोरनकं श्रुणु २८६
नीलवस्त्राङ्गरागं च भूतरूपाकृतिन्तथा
करालवदनं श्यामं पद्मकर्णौ विभीषणम् २८७
अञ्जलीकरपद्मस्थं तोरणं रूपमुच्यते
शाखयोः पूजयेत्पश्चात् ऋग्वेदादीन् ततश्शृणु २८८
श्यामवर्णं द्विनेत्रं च चतुर्भुजसमायुतम्
एकवक्त्रं च मकुटं गण्डिकामक्षमालिकाम् २८९
अञ्जलीकरसंयुक्तं यजुर्वेदन्ततशृणु
रक्तवर्णं द्विनेत्रञ्च शुक्लयज्ञोपवीतिनम् २९०
स्रक्कमण्डलुधार्यञ्च द्विहस्तमञ्जलीयुतम्
यजुर्वेदमिति प्रोक्तं सामवेदं ततश्शृणु २९१
श्वेतवर्णं द्विनेत्रञ्च हेमयज्ञोपवीतिनम्
पीताम्बरधरञ्चैव हंसपद्मासनस्थितम् २९२
ब्रह्मास्त्रं गण्डिकां चैव कृताञ्जलिपुटीकृतम्
सामवेदमिति प्रोक्तमथर्ववेदन्ततश्शृणु २९३
कृष्णवर्णनिभन्देवं कृताञ्जलिपुटीकृतम्
कमण्डल्वक्षसूत्रं च सरत्नमकुटान्वितम् २९४
द्विपादं च तनूरेकं शाखयोः पूजयेत्ततः
प्रशान्तं शिशिरं चैव पर्जन्यं च अशोककः २९५
भूतसञ्जीवनं चैवामृतसञ्जीवनन्तथा
धनदं श्रीप्रदं चैव शुक्लवर्णन्तथैव च २९६
नीलं श्यामं च कृष्णं च पीतं श्वेतं तथैव च
मिश्रं भृङ्गप्रभं विद्यात् सर्वेषामञ्जलीकृतम् २९७
हेमयज्ञोपवीताङ्गं धौतवस्त्रोत्तरीयकम्
पूजयेत्तोरणे पादे पूजयेत्तु विशेषतः २९८
प्राक्दिशौ भूतसङ्ख्या च आग्नेय्यामेकमेव च
दक्षिणे युगसङ्ख्या च नैर्ऋते त्रयमेव च २९९
वारुणे त्रयकुम्भं च द्विकुम्भं वायुकोणके
उत्तरे युगकुम्भं च ईशाने त्रयमेव वा ३००
द्वारस्य उत्तरे देशे शान्तिकुम्भं प्रपूजयेत्
तदुत्तरपदे चैव नन्दिकेशं प्रपूजयेत् ३०१
द्वारस्य दक्षिणे पार्श्वे महाकालं प्रपूजयेत्
तद्दक्षिणपदे चैव देवेन्द्रं पूजयेत्ततः ३०२
तस्यैव दक्षिणे भानुं तस्यैव दक्षिणेनलम्
तस्यैव पश्चिमस्थाने शून्यस्थानं प्रकीर्तितम् ३०३
तत्पश्चिमे च विन्यस्य भृङ्गीशं पूजयेत्ततः
तत्पश्चिमे विशेषेण विद्यामाराधयेत्ततः ३०४
द्वारस्य पश्चिमे देशे यमं पूज्य विशेषतः
तत्पश्चिमे गणेशं च तदग्रे वास्तुमर्चयेत् ३०५
नैर्ऋते निर्ऋतिं चैव उत्तरे विष्णुमर्चयेत्
तदुत्तरे विशेषं च निवृत्तिं च तदुत्तरे ३०६
द्वारस्य वामपार्श्वे तु वरुणं पूजयेत्ततः
उत्तरे स्कन्दमभ्यर्च्य लक्ष्मीं चैव तदुत्तरे ३०७
वायुन्तदुत्तरे पूज्य तत्पूर्वे च विनायकम्
तत्पूर्वे पार्वतीं पूज्य प्रतिष्ठां च तदन्यके ३०८
तत्पूर्वे धनदं पश्चात् तत्पूर्वे चण्डमर्चयेत्
तत्पूर्वे गुरुमभ्यर्च्य ईशे ईशानमर्चयेत् ३०९
तद्दक्षिणे विधिं पूज्य यथोक्तं पूजयेत्ततः
अग्निं पूज्य विशेषेण वक्ष्येऽहन्तु षडानन ३१०
आज्यमीश्वरदैवत्यं माषं वैनन्दिकेश्वरम्
मुद्गं रुद्राधिदैवत्यं नीवारं वृषभन्तथा ३११
समिधं तु पार्वतीञ्च वेणुं वै चण्डिकान्तथा
कुलुत्थं चण्डिदैवत्यं सक्तुञ्च सूर्यदैवतम् ३१२
लाजं स्कन्दमिति प्रोक्तं तिलं वै पितरं तथा
पुष्पाणाञ्चन्द्रमा प्रोक्तं गुग्गुलुं वरुणन्तथा ३१३
कन्दं ब्रह्माणमित्युक्तं दधीनां माधवन्तथा
क्षीरङ्गणेशमित्युक्तम् अपूपन्तु महेश्वरः ३१४
पनसम् इन्दमित्युक्तं कदलीमातुलन्तथा
नैर्ऋतन्दैवतं पश्चात्कदलीवारुणन्तथा ३१५
पनसं पितृदैवत्यम् आम्रं श्रीदेवतान्तथा
शेषद्रव्यान्कपालीशः अधिदेवो विशेषतः ३१६
अश्वत्थञ्च वटञ्चैव प्लक्षं खादिरमेव च
अपामार्गञ्च पालाशम् औदुम्बरसमित्तथा ३१७
शमीबिल्वञ्चन्दनञ्च तुलसी काष्ठसंयुतम्
मद्ध्यमातर्जनीञ्चैव द्विपादौ मद्ध्यमन्तथा ३१८
गलितान्तसिबिन्दुश्च अष्टबिन्दुसृणिन्तथा
तत् द्वयं प्रतिमेवोक्तं तत् द्वयं चान्द्रमुच्यते ३१९
तच्चस्खन्दन्तु प्रसृतिं तत् द्वयं कुडुपं भवेत्
तच्चतुः प्रस्थमित्युक्तं तच्चरूराढकन्तथा ३२०
तत् द्वयं शिवमेवोक्तं द्रोणञ्चैतत् द्वयन्तथा
तत् द्वयं खारिरित्युक्तं भारञ्चेत्तत्त्रयन्तथा ३२१
सृणीमात्रं गोघृतेन एकाहुतिं समाचरेत्
अपूपं स्वप्रमाणञ्च त्रिंशदंशं फलांस्तथा ३२२
पत्रञ्चेत् शरसङ्ख्या च आर्यवत्तिलमुच्यते
दधिदुग्धं स्रुवं यावत्तावत्तु होममाचरेत् ३२३
माषमुद्गञ्च चत्वारि मुष्टिमात्रं यवन्तथा
स्थानकं पृथुकं सक्तुं मुष्टिं कृत्वा विशेषतः ३२४
वराटमात्रकञ्चैव चरुश्चैव प्रकीर्तितम्
मूले तु होमं नाशं स्यात् अग्रे तु ग्रामनाशनम् ३२५
मद्ध्ये तु मानहानिस्स्यात् मद्ध्यमूलञ्च मद्ध्यमे
समिद्धोमं विशेषेण आज्यञ्चैव ततश्शृणु ३२६
यत्रकाष्ठन्तु तत् श्रोत्रं यत्र भस्मन्तु तच्छिरः
यत्राल्पज्वलिते नेत्रे यत्रधूमन्तु नासिका ३२७
नासिकायां हुनेद्दुःखं नेत्रे होमं विनाशनम्
अग्निकर्णे हुतं हुत्वा महारोगं हविर्हुतम् ३२८
शिखास्थाने हुतं हुत्वा राजराष्ट्रं विनश्यति
स्थितञ्चेत् समिदिध्मञ्च चरुमासीनमेव च ३२९
शयनं घृतहोमे च आसीनं शेषकर्मणि
हिरण्याकनकारक्ता कृष्णातदनुसुप्रभा ३३०
अतिरक्ताबहुरूपा चेत् सप्तजिह्वा प्रकीर्तिता
याम्यवक्त्रे चतुर्जिह्वा उत्तरे च त्रिजिह्विका ३३१
सुप्रभा पूर्वजिह्वा स्यात् अतिरक्तानलस्तथा
कृष्णा चेद्दक्षिणे चैव बहुरूपा च नैर्ऋतौ ३३२
हिरण्यावारुणी चैव रत्नजिह्वा तथोत्तरे
कनकामद्ध्यमे चैव जिह्वास्थानं प्रकीर्तितम् ३३३
इध्माद्धुनेद्धिरण्यायां कनकायां घृतं चरुम्
कुर्याल्लाजञ्च कृष्णायाम् अतिरक्ते तिलन्तथा ३३४
बहुरुपे च सिद्धार्त्थं रत्नायान्तु यवं हुनेत्
सुप्रभायामथो सक्तु कनके सर्वद्रव्यकान् ३३५
मद्ध्यमा नामिका चैव तर्जनीरूर्ध्वमेव वा
अङ्गुष्ठमूर्ध्निसंयुक्तौ शक्तिलक्षणमुच्यते ३३६
स्रुवमूले महाव्याधिर्मद्ध्ये चेत् धान्यनाशनम्
अग्रे मृत्युप्रदं प्रोक्तं मूलमद्ध्यञ्च मद्ध्यमे ३३७
ग्राहयेत्तु हुनेच्चैव तदेव स्रुक् हुनेत्ततः
परिधींश्चाप्यधो भागे मद्ध्यमे विष्टरन्तथा ३३८
ऊर्ध्वे परिधिं विन्न्यस्य अन्योन्यासक्तकान्तथा
ऊर्ध्वे त्रिसूत्रं संवेष्ट्य पूर्वादींश्च तथैव च ३३९
ब्रह्माविष्णुरनन्तश्च रुद्रश्चेत्पूजयेत्क्रमात्
इन्द्रादीन्मद्ध्यमे पूज्य स्वस्वदिक्षु यजेत्ततः ३४०
नपुंसकं वृत्तपद्मं त्रिकोणं योनिरेव च
अष्टाश्रञ्चैवमित्युक्तं सत्रिकुण्डञ्च कीर्तितम् ३४१
शेषादरूपमित्युक्तं रूपञ्चेत्तु अरूपकम्
रूपाद्रूपमिति प्रोक्तं श्रुणुष्व पार्वतीप्रिय ३४२
पूर्वाभिमुखमाचार्यः पूर्वाग्निसारूप्य नैर्ऋतौ
उत्तराभिमुखाश्चैव शेषाः पूर्वमुखास्तथा ३४३
अग्निहीनो दुराचारो मूर्खश्चाप्यतिह्रस्वकः
कृशाङ्गहीनदन्तश्च दीक्षानुष्ठानहीनकः ३४४
गर्भदीक्षायुतश्चैव सूतकीन्तु विवर्जयेत्
अनग्निमन्तं ब्रह्मचर्यं वानप्रस्थं विवर्जयेत् ३४५
कारयेत् नित्यपूजाञ्च ब्रह्मचारी विशेषतः
नैमित्तिके विवर्जित्वा नित्यं राष्ट्रविवर्द्धनम् ३४६
चतुर्दीक्षां समारोप्य ब्रह्मचर्यविशेषतः
नैमित्तिके कथं शम्भो समयाचारशुद्धकम् ३४७
अग्निन्नोचेदनग्निञ्च द्विकार्यं वर्जयेत्ततः
स्वल्पाग्निमानिति प्रोक्तं नाशौचं ब्रह्मचारिणाम् ३४८
द्वाभ्यां वर्ज्येत् ब्रह्मचारी वक्ष्येऽहं सूतकक्रमम्
मातापितृमृते काले सपिण्डीकरणान्तकम् ३४९
आशौचं कारयेच्चैव अन्येषां वर्जयेत्ततः
अग्निष्टोमस्य जाते वा ज्येष्ठपुत्रस्य तत्स्वसुः ३५०
जाते वा शौचं वर्जित्वा सर्वकर्मार्हको भवेत्
पितामहो मातुलश्च पित्रोश्चैव सहोदराः ३५१
मृताशौचं विवर्जित्वा नित्यकर्मार्हको भवेत्
मोहेनानग्निमान् चैव प्रतिष्ठोत्सवकर्मणि ३५२
कारयेत्तु विशेषेण राजराष्ट्रं विनश्यति
प्रतिष्ठोत्सवकाले वा अथवा ब्रह्मचारिभिः ३५३
आचार्यत्वं वर्जयित्वा ऋत्विक्कर्मसमाचरेत्
धौतवस्त्रोत्तरीय्यञ्च भस्मरुद्राक्षधारिणम् ३५४
कुण्डलं कर्णमात्रञ्च हेमयज्ञोपवीतिनम्
अष्ट ऋग्योत्तमं विद्यात् षडृग्योमद्ध्यमं भवेत् ३५५
आचार्यं वा एककुण्डे कारयेद्देशिकोत्तमः
मनसा भावयेद्देशान् अचरांश्च चराचरान् ३५६
ज्ञानदृष्ट्या प्रभूत्या च देशिकश्शब्दमीरितम्
पञ्चकुण्डे प्रधाने च सदाशिवं प्रपूजयेत् ३५७
पुरुषादीन् चतुर्दिक्षु पूजयेत्तु विशेषतः
नवकुण्डे प्रधाने च महेशं पूजयेत्ततः ३५८
अष्टकुण्डे भवादींश्च पूजयेद्विधिवत्क्रमात्
ईशाने नेत्रमस्त्रञ्च प्रधाने होमयेत्ततः ३५९
पूर्वादिषु चतुर्दिक्षु अस्त्रादीन्पुरुषानपि
आग्नेय्यादिचतुर्दिक्षु हृदयादीन् प्रपूजयेत् ३६०
प्रधाने पञ्चलक्षञ्च अन्येषां लक्षसङ्ख्यया
तदर्द्धं वा तदर्द्धं वा अयुतं वा विशेषतः ३६१
सहस्रसङ्ख्यान्प्रत्येकात् होमयेत्तु विशेषतः
द्रव्यान्ते व्याहृतिं हुत्वा पृथक्पृथग्विशेषतः ३६२
वीक्षणादि चतुर्दिक्षु मूलेनैव तु वीक्षणम्
अस्त्रेण प्रोक्षयेच्चैव प्रतिष्ठोत्सवकर्मणि ३६३
कारयेत्तु विशेषेण शिखया ताडनन्तथा
कवचेभ्यो रक्षणञ्च यथा शुद्धिं विशेषतः ३६४
खननोत्थायकञ्चैव पूरणं लेपनन्तथा
मद्ध्यादिपश्चिमान्तञ्च शान्त्यतीतान्यसेत्ततः ३६५
द्विदर्भैर्मद्ध्यमे चैव उदीचीञ्च त्रिरेखया
ब्रह्मजज्ञानमन्त्रेण नागे सौवर्णमेव वा ३६६
हिरण्य इति मन्त्रेण त्रिरेखा सम्प्रकीर्तितम्
आप्यायस्त्वेति मन्त्रेण यो रुद्रा इति मन्त्रतः ३६७
तौमुष्ट्येति च मन्त्रेण प्राक्रेखा त्रयमुत्तमम्
ह्रस्वगर्भन्न्यसेन्मद्ध्ये सदर्भानुद्धरेत्त्यजेत् ३६८
अस्त्रेण पयसा प्रोक्ष्य अस्त्रमन्त्रेण प्रोक्षयेत्
त्रिदर्भान्मद्ध्यमे न्यस्य वर्जाकारं विशेषतः ३६९
त्रिशूले अद्भुताकारं कुण्डमाच्छाद्यदर्भकैः
प्रादेशमात्रकैर्दर्भैः कूर्चाकारन्तथैव च ३७०
नाभिमद्ध्ये च विन्यस्य वागीशीं पूजयेत्ततः
श्यामाभां शुक्लवस्त्राङ्गीं जटामकुटमण्डिताम् ३७१
यौवनाञ्च ऋतुस्नातां सर्वाभरणभूषिताम्
अभयं वरदोपेतां वागीशीं पूजयेत्ततः ३७२
ओङ्कारं प्रथमं विद्यात् सान्तं हीकारमुच्यते
न्यसेद्वागीशमन्त्रेण वागीशं पूजयेत्ततः ३७३
त्रिनेत्रं पञ्चवक्त्रञ्च चतुर्हस्तन्तथैव च
जटामकुटसंयुक्तं सर्पभूषेन्दुभूषितम् ३७४
शूलं कपालसंयुक्तम् अभयं वरदन्तथा
वागीशं पूजयेत्पश्चात् अग्निलक्षणमुच्यते ३७५
शिलाग्निरुत्तमं प्रोक्तं वृक्षाग्निर्मद्ध्यमन्तथा
क्षयाग्निरधमं विद्यात् अग्निस्त्रिविध उच्यते ३७६
सूर्यकान्तं समादाय लोहेन ताडयेत्ततः
——————————- ३७७
तदग्निर्गृह्यते चैव वृक्षाग्निञ्च ततश्शृणु
शूलवृक्षं समादाय दलाकारन्तु निर्मितम् ३७८
जीर्णाश्वत्थं समादाय शूलवृक्षेणभ्रामयेत्
आदायाग्निं विशेषेण क्षयाग्निञ्च ततश्शृणु ३७९
द्विजगृहे च सङ्गृह्य स्वगृहे च विशेषतः
ततः क्षत्र्यगृहे वापि मद्ध्यमं सम्प्रकीर्तितम् ३८०
अन्येषां वर्जयेच्चैव अथवा च ततश्शृणु
अग्निमादाय कारयेत् अग्निं ग्राह्य ततः परम् ३८१
अग्नेः काष्ठे समारोप्य तत्पश्चात्काष्ठमाहरेत्
तदग्निनाग्निं सङ्गृह्य उत्तमं परिकीर्तितम् ३८२
अन्यजातिं समादाय शुद्धयेत्पञ्चवारकम्
चण्डालमन्दिरे वापि अग्निं प्रज्वालयेत्ततः ३८३
अग्निं सङ्ग्राह्य दर्भेषु तदग्निं प्रतिदर्भके
समादाय —— प्रतिदर्भे समाहरेत् ३८४
शुद्धे द्वादशवाराणि अग्निमादाय कारयेत्
अग्निपात्रे समादाय प्रादक्षिण्य क्रमेण वा ३८५
कुण्डाग्रे स्थापयेदग्निं नैर्ऋते स्थापयेत्ततः
हुङ्कारं पूर्वमुच्चार्य षट्कारञ्च ततः परम् ३८६
अस्त्रं पश्चात्समुच्चार्य नैर्ऋते वा प्रकल्पयेत्
वीक्षणादी चतुः पश्चात् ओङ्कारान्सूर्यमुच्चरन् ३८७
सान्तं दीर्घाक्षरं प्रोक्तं सक्तं ह्रस्वन्तथैव च
सान्तं दीर्घाक्षरं प्रोक्तं मकारान्तं पृथक्पृथक् ३८८
अग्निर्मूर्धेतिसम्पूज्य बालचन्द्रप्रभा तथा
संहारमुद्रयाग्राह्य पूरकेण समारभेत् ३८९
ललाटेन्यञ्च सम्भाव्यं सुषुम्ना गतमार्गतः
हृदयाग्निञ्च संयोज्य एकी कृत्य विशेषतः ३९०
नाभ्यग्निना ततः पश्चात्सान्तं ॠकारमुच्चरन्
अग्निचैतन्यमर्चित्वा मद्ध्याह्नरविसप्रभम् ३९१
विद्युत्पुञ्जनिभाकारं जठराग्नित्रये नयेत्
पाताग्निञ्च विनिक्षिप्य पञ्चब्रह्मषडङ्गकैः ३९२
अवकुण्ठैश्च संरक्ष्य हृदयेन यजेत्ततः
शक्तिं पूर्वं समुच्चार्य वौषट्पश्चात्समुच्चरेत् ३९३
अमृती कृत्यसम्पूज्य अर्चयेत्तु विशेषतः
प्रदक्षिणत्रयं वापि कुण्डोपरिविशेषतः ३९४
कुण्डेस्थापय तत्पश्चात् वागीशं पूजयेत्ततः
वागीशं पूजयेदीशे वागीशेऽग्निं सुयोजयेत् ३९५
शिवबीजमिति प्रार्त्थ्य लोकरक्षार्त्थकारणम्
वागीशेनैव वागीशीम् अग्निं योज्य विभावयेत् ३९६
गर्भाधानमितीभाव्य पाद्यमाचमनार्घ्यकैः
पुष्पैरभ्यर्चयेच्चैव ज्वालयेदिन्धनैस्तथा ३९७
अस्त्रमन्त्रं समुच्चार्य सप्तवारं जपेत्ततः
वागीशी वामहस्ते च दर्भैस्सूत्रा कृतिन्तथा ३९८
सव्यभागे मेखले च न्यसेच्चैव विशेषतः
विद्याजातञ्च वामञ्च अघोरं पुरुषन्तथा ३९९
हृदयं शिरसा चैव शिखया च द्विवारकम्
कवचेनैव मन्त्रेण पञ्चपञ्च तिलाहुतिम् ४००
गर्भाधानं पुंसवनं पुर्यष्टकमुदाहृतम्
सीमन्तं जननञ्चैव भावयित्वा विशेषतः ४०१
शिवास्त्रेणैव सम्प्रोक्ष्य रक्षासूत्रा कृतिन्त्यजेत्
शुद्धां स्त्रीरूपवेषाढ्यं परिषेचनमाचरेत् ४०२
जलं सङ्ग्रह्य सव्ये च पूर्वाग्रान्जलनिक्षिपेत्
दक्षिणादुत्तराग्राञ्च पश्चिमात्पूर्वमेव च ४०३
ईशानादग्निभागे च समन्ता कृतिरेव च
अदितेनैवमन्यस्व दक्षिणे च विशेषतः ४०४
अनुमतेनुमन्यस्वेति पश्चिमे च विनिक्षिपेत्
सरस्वतेनुमन्यस्वेति उत्तरे च विनिक्षिपेत् ४०५
पूर्वे च देवसवितः प्रसुवेति समन्त्रकान्
अभिमुखी करणं भाव्य कल्पयेत्तु विशेषतः ४०६
कुण्डस्य दक्षिणे भागे ब्रह्माणं पूजयेत्ततः
पात्रासनं सोमदेशे प्रणीतञ्च तदुत्तरे ४०७
अधोमुखांस्तु पात्राणि स्रुक्स्रुवौ च तथैव च
प्रणीतौजलमापूर्य अस्त्रमावाहयेत्ततः ४०८
द्रव्यान्सम्प्रोक्षयेत्पश्चात्पात्रान्कूर्चमुखात्ततः
आज्यस्थालीं स्रुवञ्चैव पश्चिमे प्रणीतिन्तथा ४०९
इद्ध्मान्पूर्वे च विन्यस्य प्रोक्षयेच्छुद्धिमाचरेत्
प्रणीति पात्रके चैव अस्त्रं विष्णुञ्च पूजयेत् ४१०
त्रिदर्भांश्चैव सङ्ग्राह्य मद्ध्ये ग्रन्धिपवित्रकम्
त्रिवाराप्लवनम्मद्ध्ये प्रोक्षयेत् द्रव्यमात्मनि ४११
स्रुक्स्रुवञ्चैव सङ्ग्राह्य दर्भेण सह चाहरेत्
अथो मुखञ्च वह्न्यूर्ध्वे शुद्धयेत् वीक्षणादिभिः ४१२
द्विवारं शोधयेच्चैव काशोपरिन्यसेत्ततः
सव्यहस्ते चतुर्भागं वामहस्ते च मूलकम् ४१३
मूलेनैव समं मूलं मद्ध्येनैव च मद्ध्यमम्
अग्रेणाग्रञ्च संस्पृश्य त्रिमूर्तिं विन्यसेत्ततः ४१४
वीक्षणादि च शूद्ध्यै तु आज्यं सङ्ग्राहयेत्ततः
किञ्चिदग्निञ्च सङ्गृह्य वामभागे न्यसेत्ततः ४१५
घृतपात्रन्तदूर्ध्वे तु द्विदर्भान्ग्राहयेत्ततः
दर्भाल्कं घृतसम्भ्राम्य अग्नौ निक्षेपयेत्कुशम् ४१६
दर्भदायञ्च सङ्गृह्य प्रोक्षयेदस्त्रपाणिना
घृतमद्ध्ये —– व्य अग्नौ प्रज्वालयेत्ततः ४१७
प्रदक्षिणत्रयं भ्राम्य अग्नौ निक्षिपयेत्ततः
दर्भेणाज्यन्तु सम्प्राप्य बिन्दुद्वयञ्च निक्षिपेत् ४१८
वह्नौ संयोजयेत्पश्चात् अग्निकोणे निधाय च
स्वाहान्तं ब्रह्मणो हुत्वा तापनं विधिवत्क्रमात् ४१९
ईशानकोणे सम्प्राप्ते विष्णवे च हुनेत्ततः
नाभिमद्ध्ये च निक्षिप्य स्वाहान्तं रुद्रमूर्तये ४२०
प्रदक्षिणत्रयं भ्राम्य कुण्डयोनौ च निक्षिपेत्
——————————— ४२१
घृतमद्ध्ये च निक्षिप्य द्विवारोत्प्लवनन्तथा
विसृजेत् ग्रन्धिमादाय अग्नौ हुत्वा विशेषतः ४२२
परिषिच्य ततः पश्चात् षोडशाङ्गुलमात्रतः
कनिष्ठाकृतिसमं नाहं पक्षसङ्ख्या समिद्धुनेत् ४२३
त्रिदर्भान्ग्रन्धिमद्ध्ये च घृतपात्रे विनिक्षिपेत्
घृतस्य दक्षिणे भागे स्रुवेणाज्यं हरेद्धुनेत् ४२४
स्वाहान्तमहते चैव अग्निदक्षिणनेत्रके
घृतस्य दक्षिणे भागे वामभागान्समाहरेत् ४२५
स्वाहान्तमिति सोमार्घम् अग्निञ्चेद्वामनेत्रके
घृतस्य वामभागे तु मद्ध्यभागान्समाहरेत् ४२६
स्वाहान्तमग्निं सोमाज्यम् अग्निमद्ध्ये च नेत्रके
घृतमद्ध्ये च भागे च त्रयादाज्यं समाहरेत् ४२७
स्वाहान्तं स्विष्टकृते चैव अग्निवक्त्रे तथैव च
भागत्रये हुनेच्चैव कृष्णपक्षे विशेषतः ४२८
नाडी त्रयं विभाव्यञ्च वामभागान्समाहरेत्
स्वाहान्तमग्नये चैव अग्निवामे च नेत्रके ४२९
घृतस्य वामभागे च दक्षिणादाज्यमाहरेत्
स्वाहान्तं सूर्यमूर्तिञ्च अग्निञ्च सव्यनेत्रके ४३०
घृतस्य सव्यभागे च मद्ध्यभागान्समाहरेत्
स्वाहान्तमग्निसूर्याभ्याम् अग्निमद्ध्ये च नेत्रके ४३१
घृतमद्ध्ये त्रिभागाच्च स्वाहान्तं स्विष्टकृत्तथा
पञ्चब्रह्मषडङ्गैश्च अभिमन्त्र्य तथैव च ४३२
सद्योजातादिना हुत्वा ओङ्कारं पूर्वमुच्चरन्
सान्तं दीर्घाक्षरं प्रोक्तं हिङ्कारञ्च द्वितीयकम् ४३३
हुङ्कारञ्चैव हेन्तञ्च होमित्युत्पूर्वमाहरेत्
स्वाहान्तं वज्रदीपञ्च पुनस्सद्यादिनाहुनेत् ४३४
ओङ्कारं पूर्वमुच्चार्य सान्तान्तम् उच्चरेत्ततः
सान्तं हिञ्चेत्समुच्चार्य हीं हुं वामन्तथैव च ४३५
हुं हेम् अघोरमित्युक्तं हें होञ्चेत्पुरुषन्तथा
हों हाम् ईशानमित्युक्तं वक्त्रसन्धानमुच्यते ४३६
ओङ्कारं पूर्वमुच्चार्य हं हीं हुञ्च तथैव च
हें हों सद्यादिना हुत्वा वाय्वादीशान्तकं हुनेत् ४३७
नैर्ऋत्यादीशपर्यन्तं होमयेत्तु विशेषतः
एकीकरणं सम्भाव्य जातकर्मतथैव च ४३८
नामकर्म तथैवाथ ईशानं पूजयेत्ततः
अस्त्रेणैव तिलं हुत्वा पञ्चाहुतिं विशेषतः ४३९
शिवाग्निरिति सङ्कल्प्य अन्नप्राशनमेव च
चौलोपनयनञ्चैव व्रतांश्चैव तथैव च ४४०
समावर्तनवैवाह्यं सद्यादींश्च हुनेत्ततः
सप्ताहुतिं पृथक् चैव पश्चात् वागीश्वरं यजेत् ४४१
पत्न्याहुतिञ्च वागीशं वागीशीञ्च तथैव च
वागीशं विसृजेच्चैव नाडीसन्धानमुच्यते ४४२
स्वाहान्तं हुम्फट् पूर्वम् ईशानादिक्रमात्तथा
त्रयाहुतिं पृथक्चैव मूलेनैव शतं हुनेत् ४४३
हुनेत्पाशुपतेनैव शतं हुत्वा विशेषतः
समिदादीन्हुनेत्पश्चात् व्याहृतीञ्च पृथक्पृथक् ४४४
क्षित्यादिकुटिलप्रान्तम् अग्निमद्ध्ये यजेत्ततः
द्विपादं सप्तहस्तञ्च द्विमुखञ्च तथैव च ४४५
शुद्धस्फटिकसङ्काशं जटामकुटमण्डितम्
शुक्लयज्ञोपवीताङ्गं पद्मपीठोपरिस्थितम् ४४६
शूलटङ्ककपालञ्च पाशघण्टाङ्कुशं तथा
स्रग्धरं पीतवस्त्राङ्गं कुण्डलाभरणोज्वलम् ४४७
अग्निन्ध्यायेद्विशेषेण यावन्मात्रन्तु होमयेत्
लक्षं तदर्द्धं तस्यार्द्धम् उत्तमं परिकीर्तितम् ४४८
हुनेत् द्वादशसाहस्रं तदर्द्धञ्च तदर्द्धकम्
अन्येषाञ्च तदर्द्धञ्च पूर्णां हुत्वा तथैव च ४४९
पूर्णमापूरयेत्पश्चात् आज्योर्ध्वे स्रुचिविन्यसेत्
अधोमुखं स्रुवञ्चैव काशान् तस्योपरिन्यसेत् ४५०
लाजपुष्पैरलङ्कृत्य उत्थाय समपायवित्
दन्तान्सम्पूज्य चान्योन्यं समदृष्टि विलोचनम् ४५१
दण्डाकारं भवेद्देहं सद्दण्डं वामहस्तके
कलशस्यैव तत्पार्श्वे दक्षहस्तेन कारयेत् ४५२
स्तनमद्ध्ये वामपार्श्वे ह्रीमूलं नियते तथा
धारामखण्डितं विद्यात् ब्रह्मादीन्पूजयेत्ततः ४५३
तत्वतत्वेश्वरान्हुत्वा मूर्तिमूर्तीश्वरान्हुनेत्
ब्रह्मभागविशुद्ध्यर्त्थं प्रोक्षयेत् शान्तिकुम्भके ४५४
मूलमद्ध्याग्रदर्भैश्च विन्यसेत्तु तथैव च
पश्चाद्धुनेत् विशेषेन विष्णुभागविशुद्धिदम् ४५५
रुद्रभागं ततश्शुद्धिं हुनेत् प्रोक्ष्य तदा न्यसेत्
त्रिखण्डं कल्पयेत्तत्र शान्तिकुम्भेन प्रोक्षयेत् ४५६
इन्द्रादीन्पूजयेत्पश्चात् दद्ध्यन्नञ्च बलिन्द्ददेत्
अग्नौ निवेदनं पश्चात् आप्येनैव पराङ्मुखम् ४५७
अन्येष्वग्निं प्रधाने च योजयेद्विधितः क्रमात्
कर्मवैकल्यहीनार्त्थं सहस्रं वा हुनेत्ततः ४५८
अघोरेणैव मन्त्रेण हुत्वा चैव विशेषतः
परिषिच्य चतुर्दिक्षु चन्दनं परिकल्पयेत् ४५९
स्वस्यापि सव्यदग्भागे चतुरश्रा कृतिद्वयम्
रुद्रमातृगणानर्च्य गुहञ्चैव चतुर्दिशि ५६०
पूर्वाद्युत्तरमीशादि वायव्यञ्च बलिन्ददेत्
ग्रहदैत्य निशीशञ्च नागमभ्यन्तरन्तथा ५६१
नक्षत्रराशिभूतांश्च अहश्चैव बलिन्ददेत्
वायुवारुणयोर्मद्ध्ये क्षेत्रपालबलिन्ददेत् ५६२
अष्टदिक्षु च मद्ध्ये च नीललोहितमर्चयेत्
पुष्पेणैव सुदर्भेण अग्निमुत्थापयेत्ततः ५६३
घटे संयोजयेत्पश्चात् तत्क्रमस्य निवेदनम्
सहस्रं वाजपेत्पश्चात्सायं प्रातर्हुनेत्ततः ५६४
मूलपूजाप्रकारेण यजमानो विनश्यति ५६५
सायम्प्रातर्हुनेच्चैव सर्वशत्रुविनाशनम् ५६६
इति अग्निकार्यपटलः विंशतितमः