०१९ शयनारोपणपटलः

शयनारोपणपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि शयनारोपणं श्रुणु
नवप्रतिष्ठाकाले तु विहितं कालमुत्तमम् ॥ १ ॥

यागस्य पूर्वदिक्भागे आयुरारोग्यवर्द्धनम्

आग्नेय्यामग्निदण्डं स्यात् दक्षिणे सर्वसम्पदम् ॥ २ ॥

नैर्ऋते सर्वनाशं स्यात् पश्चिमे सर्वहानियुक्
वायव्ये पुत्रनाशं स्यात् उत्तरे तु श्रियः प्रदम् ॥ ३ ॥

ऐशान्यां ग्रामनाशं स्यात् धन्ये यागस्थलन्तथा
नवहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ ४ ॥

षोडशस्तम्भमालिख्य यागमण्टपमुत्तमम्
मद्ध्ये वेदीं प्रकल्प्याथ तत्प्रतीचीञ्च वेदिकाम् ॥ ५ ॥

चतुरशृङ्गमे चैव दर्पणोदरसन्निभम्
वेदिमद्ध्ये विशेषेण धान्यराशिं प्रकल्पयेत् ॥ ६ ॥

अष्टपद्मदलं लिख्य तस्योपरिविशेषतः
दारुजं रोमजञ्चैव अण्डजं बीजजन्तथा ॥ ७ ॥

योनिजञ्च इति प्रोक्तं दारुजं लक्षणं श्रुणु
यज्ञवृक्षान्समाहृत्य अस्त्रमन्त्रेण छेदयेत् ॥ ८ ॥

कवचेन च संलिख्य उपानजगती तथा
कुमुदं पट्टिका चैव फलकासननिर्मितम् ॥ ९ ॥

चतुष्पादमथो भागे दशाङ्गुलं सुदीर्घकम्
पञ्चवर्णैरलङ्कृत्य मञ्चाकारं प्रकीर्तितम् ॥ १० ॥

तस्योपरिविशेषेण क्षौमवस्त्रेण वेष्टयेत्
दारुजं लक्षणं प्रोक्तं रोमजं लक्षणं श्रुणु ॥ ११ ॥

शबरी मृगकेशानि उत्तमं परिकीर्तितम्
अथवा अजकेशानि मद्ध्यमं परिकीर्तितम् ॥ १२ ॥

पञ्चवर्णेषु सम्मृज्य वस्त्राकृति च कारयेत्
कम्बलं लक्षणं प्रोक्तम् अण्डजं लक्षणं श्रुणु ॥ १३ ॥

सर्वत्र च गिरेः पार्श्वे मयूरान्पूजयेत्ततः
येन भोज्य पदार्त्थानि विकिरेत् गन्धपुष्पकैः ॥ १४ ॥

त्रिमासञ्च द्विमासञ्च एकमासमथापि वा
वसेत्पिञ्छान्समाहृत्य वस्त्रेण वेष्टयेत्ततः ॥ १५ ॥

पञ्चोपरिविशेषेण पूर्वाग्रान्समरन्तथा
अण्डजं लक्षणं प्रोक्तं बीजजं लक्षणं श्रुणु ॥ १६ ॥

वस्त्राहरश्चैव तूलमन्तर्गतन्तथा
वस्त्राभ्यां सम्पुटी कृत्वा पञ्चविस्तारमुच्यते ॥ १७ ॥

वस्त्रोपरिसमावेष्ट्य योनिजं लक्षणं श्रुणु
कृष्णचर्मव्याघ्रचर्मचतुष्पादमुखैस्सह ॥ १८ ॥

वृक्षाणां गतिमेवोक्तं दारुजं सम्प्रकीर्तितम्
मृगाणां मूर्तिरत्यर्त्थं रोमजं सम्प्रकीर्तितम् ॥ १९ ॥

विहङ्गानान्तु मोक्षार्त्थम् अण्डजं सम्प्रकीर्तितम्
तृणानाञ्चैव मोक्षार्त्थं बीजजं सम्प्रकीर्तितम् ॥ २० ॥

मृगाणां मोक्षमित्युक्तं योनिजं सम्प्रकीर्तितम्
पूर्वे शिरोविशेषेण राजाराष्ट्राभिवृद्धिदम् ॥ २१ ॥

कुहयेममहाग्नौ स्यात् याम्ये यमपदन्तथा
नैर्ऋते अपमृत्युं स्यात्पश्चिमे सर्वनाशनम् ॥ २२ ॥

वयव्ये पुत्रहानिः स्यात् उत्तरे श्रीप्रदन्तथा
ऐशान्ये चैव मोक्षार्त्थं शयनस्थानलक्षणम् ॥ २३ ॥

लिङ्गस्य पूर्वदिक् भागे पीठं न्यस्य विशेषतः
तत्पूर्वे वृषभं न्यस्य रक्तवस्त्रेण वेष्टयेत् ॥ २४ ॥

तत्पूर्वे विन्यसेच्चैव रक्षासूत्रं न्यसेत्ततः
एवं कृत्वा विशेषेण सर्वकार्येषु साधयेत् ॥ २५ ॥

इति शयनारोपणपटल एकोनविंशतिः