०१८ बिंबशुद्धिपटलः

बिम्बशुद्धिपटलप्रारम्भः
अथातस्सम्प्रवक्ष्यामि श्रुणुष्वच षडानन
बिम्बशुद्धिं विशेषेण महापातकनाशनम् ॥ १ ॥

सर्वलोकहितं पुण्यं भक्तानां देहशुद्धिदम्
दारुजे समपीठे वा बाह्ये वा मण्टपे स्थितः ॥ २ ॥

बिम्बमारोपयेच्चैव पूर्वाभिमुखमुत्तमम्
पश्चिमद्वारके वापि दक्षिणद्वारमेव वा ॥ ३ ॥

उत्तरद्वारके वापि पूर्वाभिमुखमुत्तमम्
देवस्य पूर्वदिग्भागे धान्यराशीन्प्रकल्पयेत् ॥ ४ ॥

पूर्वे तु पञ्चसूत्रञ्च उदीची पञ्च सूत्रकम्
षोडशं कोष्ठमालिख्य गव्येन प्रोक्षयेत्ततः ॥ ५ ॥

कुम्भांश्च षोडशान्स्थाप्य सकूर्चालङ्कृतन्तथा
दक्षिणामुत्तरान्तञ्च चतुःपञ्च पृथक्पृथक् ॥ ६ ॥

पनसन्नालिकेरञ्च मातुलुङ्गन्तथैव च
नारङ्गकदली चैव उदके नैवपूरयेत् ॥ ७ ॥

अन्दनञ्चैव कुष्ठञ्च तक्कोलञ्चैव कुङ्कुमम्
कर्पूरञ्चैवमित्युक्तं कलशे चैव पूरयेत् ॥ ८ ॥

गन्धोदकमिदं प्रोक्तं पुष्पादकन्ततश्रुणु
मलिकापाटलञ्चैव पुन्नागं कुन्दपुष्पकम् ॥ ९ ॥

नन्द्यावर्तमिति प्रोक्तं पत्रोदकन्ततश्श्रुणु
पद्मञ्चार्जुनकञ्चैव तुलसीबिल्वपत्रकम् ॥ १० ॥

शमीपत्रमिदं प्रोक्तं काषायोदन्ततश्रुणु
अश्वत्थोदुम्बरञ्चैव प्लक्षजम्बूवटन्तथा ॥ ११ ॥

त्वक्भिः पूरयते चैव मृदोदकन्तत श्रुणु
नदी तीरे पर्वते च वृषशृङ्गे च वल्मिके ॥ १२ ॥

कर्कटावटसुक्षेत्रे पयो निधिगजान्तरे
मृदोदकमिति प्रोक्तं बीजोदकन्तत श्रुणु ॥ १३ ॥

यवनीवारमित्युक्तं हेमशाली तथैव च
रक्तशाली सुगन्धी च पल्लवोदमथ श्रुणु ॥ १४ ॥

जम्पूप्लक्षवटञ्चैव अश्वत्थोदुम्बरन्तथा
पल्लवोदकमित्युक्तं रत्नोदकन्तत श्रुणु ॥ १५ ॥

इन्द्रनीलञ्च वै डूर्यं माणिक्क्यञ्च प्रवालकम्
वज्रमौत्तिकश्यामञ्च रत्नञ्च पुष्यरागकम् ॥ १६ ॥

रत्नोदकमिदं प्रोक्तं लोहोदकन्तत श्रुणु
ताम्म्रं रजतसौवर्णमायसन्त्रपुसीकम् ॥ १७ ॥

लोहोदकमिदं प्रोक्तं धातूदकन्तत श्रुणु

जातिपिङ्गाञ्जनं श्यामं हरितालं मनः शिला ॥ १८ ॥

गैरिकं रोचना चैव अस्त्रोदकन्तत श्रुणु
शूलं कपालहरिणी पाशं परशुमेव च ॥ १९ ॥

अस्त्रोदकमिदं प्रोक्तम् ओषध्योदन्तत श्रुणु
हरिबेरञ्च उशिरं श्रीकर्णं सितसर्षपम् ॥ २० ॥

जटामाञ्जी इति प्रोक्तं गव्योदकन्तत श्रुणु
गोमूत्रं गोमयं क्षीरं दधिसर्पिकुशोदकम् ॥ २१ ॥

गव्योदकमिदं प्रोक्तं कुशोदकन्तत श्रुणु
कुशं काशन्तथा दूर्वा व्रीहिश्चैव यवस्तथा ॥ २२ ॥

विश्वामित्रमिदं प्रोक्तं शृङ्गोदकन्तत श्रुणु
सारङ्गं गजदन्तञ्च व्याघ्रं गाण्डा मृगन्तथा ॥ २३ ॥

शृङ्गोदकमिति प्रोक्तं कलशेषु प्रपूरयेत्
अनन्ताद्यष्टशक्तिञ्च इन्द्रादींश्चैवमर्चयेत् ॥ २४ ॥

कुम्भस्य पूर्वभागे च तण्डुलेनैव पूरयेत्
नवकोष्ठं समालिख्य पञ्चगव्यं प्रकल्पयेत् ॥ २५ ॥

तदुत्तरे स्थण्डिलं कृत्वा नवकोष्ठं समालिखेत्
पञ्चामृतं प्रकल्प्याथ तत्पूर्वे स्थण्डिले तथा ॥ २६ ॥

अग्निमाराधयेच्चैव षोडशान्कलशानपि
द्रव्यान्पृथक्पृथक्चैव त्रयाहुतिं हुनेत्ततः ॥ २७ ॥

अघोरेणैव मन्त्रेण होमयेत्तु विशेषतः
अभिषेकन्ततः कृत्वा हविर्न्निवेदयेत्ततः ॥ २८ ॥

उपचारान्ततः कृत्वा सर्वकर्मार्हको भवेत्
एवं कृत्वा विशेषेण सर्वकार्यार्त्थसाधनम् ॥ २९ ॥

इति बिम्बशुद्धिपटल अष्टादशः