०१७ यागलक्षणपटलः

यागलक्षणपटलप्रारम्भः
धूर्जटे परमेशानवदमे यागलक्षणम्
अथ वक्ष्ये विशेषेण सर्वलोकहिताय च ॥ १ ॥

सर्वेषां रक्षणार्त्थाय भूभुजानां जयप्रदम्
शिवयागग्रहं कल्पं वक्ष्येऽहन्तु षडानन ॥ २ ॥

षट्त्रिंशत्करदीर्घं स्यात् उत्तमं परिकीर्त्तितम्
अष्टादश करञ्चैव मद्ध्यमं सम्प्रकीर्त्तितम् ॥ ३ ॥

अधमं नवहस्तं स्यात्त्रिविधं भेदमुच्यते
आचार्यः करमानेन कल्पयेत्शिवमण्टपम् ॥ ४ ॥

पूर्वे वा दक्षिणे वापि उत्तरे ईशदेशके
यागशालोत्तमं विद्यात्पश्चिमे तु न कारयेत् ॥ ५ ॥

अग्नौ वा निर्ऋतौ वापि वायौ वा कल्पयेत्ततः
पूर्वे जयप्रदं विद्यात् याम्ये संवत्सरं भवेत् ॥ ६ ॥

पश्चिमे ग्रामशून्यं स्यात् उत्तरे पुत्रवर्द्धनम्
ईशे श्रेयस्करं प्रोक्तम् आग्नेय्यां शत्रुनाशनम् ॥ ७ ॥

नैर्ऋत्यां क्लेशसंयुक्तं वायव्यां पुत्रसम्पदम्
खननं तालमात्रन्तु उत्थाय पूरणन्तथा ॥ ८ ॥

कुशकाशयवाघाते विकिरेत् गोहिभक्षयेत्
काशैर्विकारमात्रेण दहनं वा तथैव च ॥ ९ ॥

ब्राह्मणान्भोजयेत्तत्र पञ्चगव्यैश्च शुद्धयेत्
शिलायामुत्तमं प्रोक्तं यष्टिका मद्ध्यमं भवेत् ॥ १० ॥

अधमं मृण्मयं वापि मण्टपं कारयेत्ततः
षट्त्रिंशत्करविस्तारम् उत्तमं परिकीर्त्तितम् ॥ ११ ॥

अष्टादश करञ्चैव मद्ध्यमञ्च तथैव च
अन्न्यसं नवहस्तं स्यात्त्रिविधं यागलक्षणम् ॥ १२ ॥

भूमौ नवपदं विद्यात् चतुस्सूत्रन्तु प्राग्दिशि
उदीची चर्मसूत्रञ्च नवकोष्ठं प्रकीर्त्तितम् ॥ १३ ॥

नवोनवपदं विद्यात्पूर्वादौ च चतुर्दिशि
पूर्वकोष्ठे पूर्वपदं सव्यकोष्ठे च सव्यके ॥ १४ ॥

पश्चिमे पश्चिमं कोष्ठम् उत्तरे उत्तरं पदम्
गोपुरस्य विशेषेण नासिमद्ध्ये प्रकल्पयेत् ॥ १५ ॥

रथेषु मूर्ध्निमद्ध्ये च शूलस्य मद्ध्यपत्रके
उत्तमं स्वर्णपात्रञ्च मद्ध्यमं रजतन्तथा ॥ १६ ॥

तालमात्रन्तु विस्तारं पूर्णचन्द्रा कृतिन्तथा
मधुःपयःद्विपात्रे च सागरा नर्चयेत्ततः ॥ १७ ॥

स्वर्णे वा रजते वापि षोडशाङ्गुलदीर्घकम्
अष्टाङ्गुलप्रमाणं वा चतुरङ्गुलमेव वा ॥ १८ ॥

त्रियङ्गुलसमन्नाहं रुष्टन्निम्म्य विशेषतः

स्वर्णेन रजतेनैव दूर्वाकारं प्रकल्पयेत् ॥ १९ ॥

चतुर्द्दलेन सङ्कल्प्य कल्पयेत्साधकोत्तमः
इत्युक्तमत्युक्तमेवेति आरोग्यम् उत्तरं नवम् ॥ २० ॥

एकाङ्गुलसमन्नाहं षडङ्गुलन्तु दीर्घकम्
दर्भाग्रैर्वा समं कल्प्य नेत्रमद्ध्ये च दापयेत् ॥ २१ ॥

दूर्वेनमषि इत्युक्तं त्रिसन्ध्यं सव्य नेत्रके
दूर्वेन पयसोद्धृत्य वामनेत्रेषु दापयेत् ॥ २२ ॥

प्रच्छन्नपटमावृत्य दर्शयेत्साधकोत्तमः
गोदर्शनं विशेषेण अरोगी नाङ्गहीनकम् ॥ २३ ॥

पुत्रहीनन्त्यजेच्चैव गोदर्शनं विशेषनः
सन्न्यासिदर्शनं कृत्वा प्रच्छन्नपटलं घनम् ॥ २४ ॥

वयस्सप्तदशादूर्द्ध्वं सन्न्यासन्तु विधीय्यते
इच्छामि वदमे शम्भो सर्वज्ञत्रिपुरान्तक ॥ २५ ॥

वक्ष्येऽहन्तु महासेन सन्न्यासं व्रतधारिणम्
षष्टिवत्सरपर्यन्तं सर्वदेशेषु भुञ्जयेत् ॥ २६ ॥

वयस्सप्तदशान्तञ्च कानने वासिनन्तथा
जितेन्द्रियो महाप्राज्ञः त्रिपदार्त्थस्वरूपकम् ॥ २७ ॥

सन्न्यासं ब्राह्मणानान्तु अन्येषां वर्जयेत्ततः
कल्पयेच्छिवभक्तानां ब्राह्मणानां विधीयते ॥ २८ ॥

आदिशैव महाशैवौ द्वयोस्सन्न्यासमुत्तमम्
निर्वाणदीक्षायुक्तानां सन्न्यासन्तु न कारयेत् ॥ २९ ॥

मोहेन कारयित्वा तु रौरवं नरकं व्रजेत्
कल्पयेत्समयीनान्तु विशेषन्तु न कारयेत् ॥ ३० ॥

पूर्वं सन्न्यासमित्युक्तं पश्चान्निर्वाणमुत्तमम्
निर्वाणान्ते च सन्न्यासं शिवद्रोहीति निश्च्यते ॥ ३१ ॥

वक्ष्येऽहन्तु महासेन सन्न्यासविधिमुत्तमम्
सन्यासी वृषभं गत्वा प्रणम्य पादमूलयोः ॥ ३२ ॥

जितेन्द्रियं महाप्राज्ञं भगवच्चरणार्हकम्
शिष्यं सम्पादयेच्चैव पूर्वोक्ते यागमण्टपे ॥ ३३ ॥

मद्ध्ये वेदीन्तु सङ्कल्प्य पूर्वे कुण्डं समालिखेत्
मण्डलं वेदिमद्ध्ये च अष्टमङ्गलमुच्यते ॥ ३४ ॥

पूर्वाद्यष्टदिशि त्वेव ईशाने नैर्ऋते तथा
दशकुम्भं न्यसेच्चैव वज्रादीन्पूजयेत्ततः ॥ ३५ ॥

उत्तराभिमुखो भूत्वा कृष्णाजिनसमाश्रितः
तुर्याकारान्प्रकल्प्याथ चतुस्सूत्रं पृथक्पृथक् ॥ ३६ ॥

षोडशस्तम्भनिर्वृत्या अष्टाष्टस्तम्भमुच्यते
पृथक्पृथक्चक्रसूत्रे स्तम्भानष्टकमुच्यते ॥ ३७ ॥

द्वात्रिंशत्स्तम्भमित्युक्तं मद्ध्यमं परिकीर्तितम्
पृथक्पृथक्चतुस्सूत्रे चतुस्तम्भान्निवृत्तते ॥ ३८ ॥

षोडशस्तम्भसंयुक्तं कन्न्यसञ्च प्रकीर्तितम्
द्वादशस्तम्भमालिख्य कन्न्यसञ्च प्रकीर्तितम् ॥ ३९ ॥

वसुहस्तं सप्तहस्तं पञ्चहस्तं त्रिहस्तकम्
वसुस्तदेकहस्तान्तम् अधमाधममुच्यते ॥ ४० ॥

मूलबेरञ्च शक्त्याथ महेशप्रतिमादिकाम्
महाप्रतिष्ठाकाले तु वर्जयैतान् विशेषतः ॥ ४१ ॥

दीक्षाकाले नृत्तयागे कल्पयेत्तु विशेषतः
परिवारोपभेदानां कल्पयेत्साधकोत्तमः ॥ ४२ ॥

चूतञ्च नालिकेरञ्च जम्पूप्लक्षमधुद्रुमाः
याज्ञवृक्षो निम्बतरुः पाटलिश्चम्पकस्तथा ॥ ४३ ॥

चिटिका कङ्कवृक्षाश्च पनसैश्च तमालकैः
हिन्तालैर्लिकुचैश्चैव भूवृक्षैः प्रियवृक्षकैः ॥ ४४ ॥

काचवृक्षैः निम्बकृष्णैः गुग्गुलूवृक्षमेव च
कर्णिकारञ्चन्दनञ्च देवदारुन्तथैव च ॥ ४५ ॥

गिरिवृक्षैर्बादरी च वेणुमश्मन्तमेव च
इन्दुवृक्षं हीरतरुः किरीटविटपन्तथा ॥ ४६ ॥

न चक्षारं न पर्वञ्च न त्वक्वृक्षान्समारभेत्
चतुष्षष्ट्यङ्गुलं नाहम् उत्तमं परिकीर्तितम् ॥ ४७ ॥

चत्वार्यङ्गुलमेवोक्तं मद्ध्यमं परिकीर्तितम्

षट्त्रिंशाङ्गुलमेवोक्तं कन्न्यसञ्च प्रकीर्तितम् ॥ ४८ ॥

नवहस्तोन्नतं प्रोक्तं सप्तहस्तमथापि वा
पञ्चहस्तोन्नतं कल्प्य चतुर्दिक्षु समं भवेत् ॥ ४९ ॥

विमानाकारमद्ध्ये च मण्टपालङ्कृतिन्तथा
चतुरश्रं स्तम्भमूले कलशाकाररेखिका ॥ ५० ॥

अधः पद्मम् ऊर्ध्वपद्मं युगाश्रं फलकाश्रकम्
स्तम्भाग्रे गात्रनिर्माणमण्टपं कारयेत्ततः ॥ ५१ ॥

मद्ध्ये नवपदं वेदीं युगाश्रं कल्पयेत्ततः
हस्तमात्रोन्नतं प्रोक्तम् उत्तमं यागमण्टपम् ॥ ५२ ॥

तदेवमद्ध्यमञ्चैव वेदीं कृत्वा विशेषतः
विस्तारमद्ध्यमं प्रोक्तं कन्न्यसे च प्रकीर्तितम् ॥ ५३ ॥

षडङ्गुलोन्नतं वापि उत्तमा मद्ध्यमाधमा
अर्द्धहस्तोपवेदीञ्च वेदीं कृत्वा विशेषतः ॥ ५४ ॥

चतुर्हस्तसमं दीर्घं चतुर्हस्तन्तु विस्तरम्
चतुर्हस्तसमं खातं तद्बाह्ये श्रुणु षण्मुख ॥ ५५ ॥

उन्नताष्टदशाङ्गुल्यं विस्तारं तत्समन्तथा
नवाकारं मेखले च तदधो द्वादशाङ्गुलम् ॥ ५६ ॥

तत्सङ्घनियमेत्युक्तं तदधोष्टाङ्गुलं भवेत्
विस्तारोन्नतिसङ्कल्प्य चतुरश्राकृतिन्तथा ॥ ५७ ॥

दशाङ्गुलन्तु विस्तारं नाभिं कृत्वा विशेषतः
अश्वत्थपर्णं सङ्कल्प्य उत्तमं कुण्डमुच्यते ॥ ५८ ॥

द्विकरं दीर्घमित्युक्तं त्रिकरं विस्तरन्तथा
चतुरश्रा कृतिं कृत्वा तद्बाह्ये च तथैव च ॥ ५९ ॥

नवाङ्गुलोन्नतं विद्यात्तदेवविस्तरन्तथा
सप्ताङ्गुलोन्नतं विद्यात्तदेव विस्तरन्तथा ॥ ६० ॥

सप्ताङ्गुलोन्नतं कृत्वा मद्ध्यमं परिकीर्तितम्
एकहस्तन्तु विस्तारं दीर्घमेककरं भवेत् ॥ ६१ ॥

चतुरङ्गुलन्तु विस्तारम् उन्नतं चतुरङ्गुलम्
त्रयाङ्गुलमथावापि द्वयाङ्गुलमथापि वा ॥ ६२ ॥

युगाश्रं कुण्डमित्युक्तं योनिकुण्डन्तत श्रुणु
क्षेत्रांशं कुण्डमानञ्च चतुरश्रं प्रकीर्तितम् ॥ ६३ ॥

एकांशम् एकपार्श्वे च मिलित्वा कुण्डमानतः
चतुर्भागं भ्रामयित्वा ऊर्ध्वभागे द्विवर्त्तुलम् ॥ ६४ ॥

आकृष्य पञ्चमे भागे द्विसूत्रं योजयेत्ततः
उत्तमं मद्ध्यमञ्चैव अधमं सम्प्रकीर्तितम् ॥ ६५ ॥

क्षेत्रांशं सव्यभागे च नवभागं प्रकीर्तितम्
पूर्वे च पश्चिमे चैव एकमेकन्न्यसेत् द्वयोः ॥ ६६ ॥

भ्रामयेदर्द्धचन्द्रञ्च उत्तमं मद्ध्यमाधमम्
क्षेत्रं त्रिभागं कुर्वीत षट्भागं वा प्रकल्पयेत् ॥ ६७ ॥

एकांशं ग्राहयेच्चैव प्रवृत्तिञ्च चतुर्दिशि
त्रिमत्स्यं भागयेच्चैव त्रिकोणन्तु तदुत्तमम् ॥ ६८ ॥

क्षेत्रांशकुण्डसूत्रञ्च ईशानात् नैर्ऋतान्तकम्
तत्सूत्रं ग्राहयेच्चैव अष्टभागं प्रकीर्तितम् ॥ ६९ ॥

त्यजेदेकांशमित्युक्तं भ्रामयेद्वृत्तमीरितम्
क्षेत्रं षट्भागमित्युक्तम् एकांशं ग्राहयेत्ततः ॥ ७० ॥

वृद्धितञ्च चतुर्दिक्षु षण्मत्स्याकृतिमुत्तमम्
षडश्रं कारयेत्तत्र उत्तमामद्ध्यमाधमा ॥ ७१ ॥

वृत्तकुण्डोपसङ्कल्प्य मेखलात्रयमुत्तमम्
पद्मन्तदेव सङ्कल्प्य भूम्यन्तं मद्ध्यमेखला ॥ ७२ ॥

क्षेत्रांशञ्चैव तन्मानं दशभागं प्रकीर्तितम्
एकभागं समादाय चतुर्दिक्षु सवृद्धितम् ॥ ७३ ॥

ईशानात् नैर्ऋतान्तञ्च कुण्डसूत्रं समाहरेत्
तत्सूत्रं भ्रामयेच्चैव अष्टकोणं प्रकीर्तितम् ॥ ७४ ॥

चतुरश्रं प्रकल्प्याथ मेखलात्रयमुत्तमम्
कुण्डनाहन्ततः कृत्वा पूर्वे वा कल्पयेत्ततः ॥ ७५ ॥

षट्त्रिंशदष्टादश द्वारसङ्ख्या अष्टाष्टद्वान्त्रिंशसु षोडशपदान् ।
चतुः करं द्विःकरमेकहस्तकं युगाश्रयोनिं द्विजराजसङ्ख्यके ॥ ७६ ॥

त्रिकोणमष्टाश्रषडश्रपद्मकं युगाश्रवृत्तं नवकुण्डनिर्मितम् ।

अष्टादश द्वादशचाष्टमेखलान् नवाङ्गुलस्सप्त च भूतसङ्ख्यया ॥ ७७ ॥

चतुःत्रयद्वावपि नाहमन्तरे युगाश्रवेदीमथदर्पणोदरम् ।
हस्तमात्रमथ हस्तविस्तरं विस्तरार्द्धमधोन्नतन्तथा ॥ ७८ ॥

हस्तन्तदर्द्धञ्च तदर्द्धवेदी वेद्यादधः पश्चिममण्डलन्तथा ।
पूर्वादिकोष्ठान्परितोपवेदीन्गन्धादि ईशान्तगुरून्यजेद्गुह ॥ ७९ ॥

षोडशाङ्गुलमुन्नत्या उपवेदीं प्रकल्पयेत्
द्वादशं मद्ध्यमं प्रोक्त अष्टाङ्गुलन्तु कन्न्यसम् ॥ ८० ॥

मण्डलस्याकृतिं वक्ष्ये श्रुणुष्व च षडानन
एकचत्वारि सूत्रैश्च रेखाः प्राचीः प्रकल्पयेत् ॥ ८१ ॥

एकचत्वारि सूत्रैश्च इत्युक्तान्कल्पयेत्ततः
षट्शतञ्च सहस्रञ्च पदं कृत्वा विशेषतः ॥ ८२ ॥

मद्ध्ये दशपदं विद्यात् चतुर्दिक्षु समं भवेत्
एते शतपदञ्चैव मद्ध्ये पद्मं समालिखेत् ॥ ८३ ॥

कर्णिकां पीतवर्णाभां षोडशं शतसंयुतम्
दलान्रत्नप्रभं विद्यात् श्वेताभं दलमूलके ॥ ८४ ॥

पार्श्वयोः श्वेतरेखा च तद्बाह्ये त्रिदलं भवेत्
वीधी त्रयं चतुःपार्श्वे पीतं मरतकंसितम् ॥ ८५ ॥

पूर्वे च दक्षिणे चैव पश्चिमे उत्तरे तथा
पृथक्पृथक् विशेषेण वसुसङ्ख्यापदङ्ग्रहेत् ॥ ८६ ॥

चतुर्दिक्षु विशेषेण पूर्वपश्चिमयोर्दश
अष्टाङ्गुलसमं दीर्घं विस्तारञ्च द्वयाङ्गुलम् ॥ ८७ ॥

द्विपादञ्चैव सङ्कल्प्य त्रिपादं मद्ध्यमेवहि
तस्योपरि त्रयाङ्गुल्यं शृङ्गाकारं प्रकल्पयेत् ॥ ८८ ॥

अर्द्धाङ्गुलसमं कर्णं तस्योपरियुगाङ्गुलम्
नासिमद्ध्ये प्रकल्प्याथ तस्योपरि घटत्रयम् ॥ ८९ ॥

अर्द्धमेकाङ्गुलं प्रोक्तं शफराकारमुत्तमम्
पञ्चवर्णैरलङ्कृत्य चतुर्दिक्षु प्रकल्पयेत् ॥ ९० ॥

शफरं पार्श्वयोश्चैव त्रिपदं ग्राहयेत्ततः
लताकारं प्रकल्प्याथ ऊर्ध्वे दशपदोन्नतम् ॥ ९१ ॥

अष्टत्रिपादं सङ्ग्राह्य भूतसङ्ख्यानि भव्यके
दक्षिणे तलपूर्वे च संयुतञ्च त्रिकोणकम् ॥ ९२ ॥

लतानां पार्श्वयोश्चैव लिङ्गान्कृत्वा विशेषतः
षट्पदं ग्राहयेच्चैव कुङ्कुमेनाश्रितन्तथा ॥ ९३ ॥

तस्योपरि पदं वेद तस्योपरि पदद्वयम्
चतुःपदं तदूर्ध्वे तु पापदञ्च तदूर्ध्वके ॥ ९४ ॥

तदूर्ध्वे द्विपदञ्चैव तस्योर्ध्वे द्विपदन्तथा
कुङ्कुमेनाङ्कितं पश्चात्साप्युदीची द्विलिङ्गकौ ॥ ९५ ॥

दक्षिणे कृष्णलिङ्गञ्च पश्चिमे श्वेतमुच्यते
उत्तरे रक्तवर्णाभं चतुःपार्श्वे समं भवेत् ॥ ९६ ॥

लिङ्गस्य दक्षिणे पार्श्वे भूतसङ्ख्या पदं ग्रहेत्
अष्टदिक्पदमालिख्य आग्नेयादि चतुर्दिशि ॥ ९७ ॥

तद्बाह्ये द्विपदं विद्धि इच्छाकान्तीन्प्रकल्पयेत्
धूसरैः पञ्चवर्णैश्च कल्पयेत् मण्डलाकृतीन् ॥ ९८ ॥

श्रीविशाल इति ख्यातं मङ्गलाञ्च ततश्शृणु
ताम्रैर्वा लोहकैर्वापि दारुजैर्वा प्रकल्पयेत् ॥ ९९ ॥

अष्टाङ्गुलन्तु विस्तारं षडङ्गुलमथापि वा
पञ्चाङ्गुलं वा सङ्कल्प्य चतुर्विंशाङ्गुलोन्नतम् १००
पञ्चाङ्गुलघनं प्रोक्तं फलकामद्ध्यमं श्रुणु
दर्पणं पूर्णकुम्भञ्च पूर्वे चैव न्यसेत्ततः १०१
वृषभं वामसव्ये च बलवर्णैरलङ्कृतम्
श्रीवत्सं स्वस्तिकं पश्चात् शङ्खदीपन्तथोत्तरे १०२
फलकामद्ध्यमे कल्प्य यथा कारं प्रकल्पयेत्
श्वेतादिपञ्च वर्णैर्वा वेद्यासक्तान्समालिखेत् १०३
मङ्गला लक्षणं प्रोक्तं वज्रादींश्च ततश्शृणु
षट्त्रिंशाङ्गुलदीर्घाणि उत्तमं परिकीर्तितम् १०४
मद्ध्यमञ्चैव षट्त्रिंशत् अष्टादशमथापि वा
दशाङ्गुलन्तु विस्तारम् उत्तमं परिकीर्तितम् १०५
अष्टाङ्गुलघनं प्रोक्तं सप्तमं भूतसङ्ख्यया

ताम्रैर्वा लोहकांस्यैर्वा फलकाङ्कल्पयेत्ततः १०६
षडङ्गुलन्तु दीर्घाणि रेखाकारं प्रकल्पयेत्
द्विपार्श्वे वर्तुलाकारं त्रिशाखा सममुत्तमम् १०७
तदधो मुष्टिमात्रञ्च अधोशूलत्रयाकृतिम्
द्विभुजञ्च द्विनेत्रञ्च स्थूलतुन्दिलसंयुतम् १०८
द्विकरावञ्जली कृत्य श्यामवर्णं किरीटिनम्
वज्रस्य लक्षणं प्रोक्तं शक्तेस्तु लक्षणं श्रुणु १०९
पञ्चाङ्गुलसमं नालं द्वयाङ्गुलन्तु विस्तरम्
चतुरङ्गुलन्तु विस्तारं द्वादशाङ्गुलमुन्नतम् ११०
शतकोट्यश्रमेवोक्तं शक्त्यायुधं प्रकीर्तितम्
षट्त्रिंशदश्रमेवोक्तं चतुर्विंशाश्रमेव च १११
द्वादशाश्रं प्रकल्प्याथ दण्डञ्चैव ततश्शृणु
त्रिकोणाकारमङ्गानि अञ्जलीकृतसंयुतम् ११२
शक्त्यायुधं प्रकल्प्यामथ दण्डं वै षोडशाङ्गुलम्
द्वयाङ्गुलन्तु विस्तारं कृष्णवर्णं द्विनेत्रकम् ११३
दण्डालविग्रहाकारम् अञ्जलीकृतिसंयुतम्
दण्डञ्चैवमिति ख्यातं खड्गञ्चैव ततश्शृणु ११४
अष्टाङ्गुलसमं दीर्घं नालं वै चतुरङ्गुलम्
त्रिकोणाकारमित्युक्तं विस्तारञ्चेत्त्रयङ्गुलम् ११५
श्यामवर्णं करालञ्च भृकुटीमुखभीषणम्
खड्गञ्चैवमिति ख्यातं पाशञ्चैव ततश्शृणु ११६
षोडशाङ्गुलदीर्घाणि द्विपार्श्वे रजताकृतिम्
ऊर्ध्वे च वर्तुलाकारं षडङ्गुलन्तु विस्तरम् ११७
अधो द्व्याङ्गुलं मद्ध्ये द्विपुच्छञ्चैव पार्श्वयोः
कृष्णवर्णं महाबाहुम् अञ्जलीकरसंयुतम् ११८
पाशस्य लक्षणं प्रोक्तं ध्वजस्य लक्षणं श्रुणु
द्वादशाङ्गुलदण्डञ्च एकाङ्गुलन्तु विस्तरम् ११९
ऊर्ध्वे च एकपार्श्वे च षडङ्गुलन्तु विस्तरम्
अष्टाङ्गुलसुदीर्घाणि अश्रुपीताम्भसन्निभम् १२०

दंष्ट्राकरालवदनम् अञ्जलीकृतसंयुतम्
ध्वजस्य लक्षणं प्रोक्तं गदाया लक्षणं श्रुणु १२१
दशाङ्गुलं समं दीर्घं मूले द्व्यङ्गुलविस्तरम्
चतुरङ्गुलमग्रे च कन्यारूपाम्बुजद्वयम् १२२
अञ्जली पीतपद्माभां त्रिशूलञ्च ततश्श्रुणु
षोडशाङ्गुलदीर्घाणि त्रिशूला कारमूर्ध्वके १२३
श्यामवर्णं द्विनेत्रञ्च करालवदनन्तथा
पत्रमष्टदलं लिख्य द्विभुजा च द्विनेत्रका १२४
एकाङ्गुलन्तु विस्तारं पूर्णचन्द्रा कृतिन्तथा
द्विनेत्रा द्विभुजाश्यामा करालवदनाभ्रमा १२५
दशायुधान्प्रकल्प्याथ पूर्वाद्यष्टदिशि त्वपि
वज्रादींश्च प्रकल्प्याथ ईशाने नैर्ऋते तथा १२६
चक्रपद्मयुतञ्चैव तोरणञ्च ततश्रुणु
द्वारायामसमं दीर्घं पार्श्वयोश्चैव विस्तरम् १२७
नवाङ्गुलन्तु विस्तारम् उत्तमं परिकीर्तितम्
षडङ्गुलञ्च विस्तारं त्रयाङ्गुलमथापि वा १२८
षोडशाङ्गुलदीर्घाणि त्रिशूलाकारमद्ध्यमे
द्विपार्श्वयोर्विशेषेण त्रिशूलाकृतिनिर्मितम् १२९
तोरणानां विशेषेण श्रुणुष्व कुम्भलक्षणम्
स्वर्णेन रजतेनैव ताम्रे वा मृण्मयेऽपि वा १३०
द्विखारि पूर्णयेच्चैव पूर्णकुम्भोदरन्तथा
वृत्ताकारं सुदीर्घञ्च कर्णञ्चैव ततोपरि १३१
चतुर्विंशाङ्गुलं नाहं कोष्ठञ्चैव द्वयाङ्गुलम्
पूर्णचन्द्रा निभाकारं कुम्भं वै निर्मितं भवेत् १३२
अथवा मृत्घटे वापि धूम्रं कृष्णं विवर्जयेत्
भिन्नञ्च सुषिरं त्यज्य रक्तवर्णन्तथैव च १३३
कुम्भस्य लक्षणं प्रोक्तं वर्जनी लक्षणं श्रुणु
त्रिद्रोणं पूरयेत्कुम्भं नाहं वै षोडशाङ्गुलम् १३४
पूर्णचन्द्रा कृतिं कृत्वा कुण्डमद्ध्ये विशेषतः

चतुरङ्गुलदीर्घाणि नाहं पञ्चाङ्गुलं भवेत् १३५
मद्ध्ये सुषिरमेवोक्तम् ऊर्ध्वाभिमुखसंयुतम्
पूरयेत्खारिमात्रन्तु शेषान्कुम्भान्प्रकल्पयेत् १३६
द्रोणं प्रपूरयेच्चैव शेषान्कुम्भान्प्रकल्पयेत्
यावन्मात्रन्तु कलशान्यावन्मात्रन्तु वर्द्धनी १३७
तावत्सङ्कल्प्य मात्रेण पात्रस्य लक्षणं शृणु
द्वादशाङ्गुलविस्तारं वृत्ताकारं विशेषतः १३८
षडङ्गुलसमं घातं पात्राणि कल्पयेत्ततः
पात्रलक्षणमेवोक्तम् आसनञ्च ततश्रुणु १३९
कृष्णाजिनन्तु मोक्षार्त्थं व्याघ्रं वै द्वयसिद्धिदम्
सर्वकामप्रदं प्रोक्तं कूर्मासनमिहोच्यते १४०
इभासनं योगसिद्धिं कम्बलं पुत्रसम्पदम्
वस्त्रं दारिद्रमित्युक्तं दारुजं कोपनाशनम् १४१
धरण्यां मद्ध्यमं प्रोक्तं शिलायां सर्वनाशनम्
पूजाकाले होमकाले वीरासनमिहोच्यते १४२
आसनोपरिसंस्थित्वा सर्वकार्यार्त्थसाधनम्
षट्त्रिंशाङ्गुलदीर्घाणि विस्ताराष्टदशाङ्गुलम् १४३
वक्त्रं षडङ्गुलञ्चैव त्रिंशाङ्गुलसमं भवेत्
पार्श्वयोश्च विशेषेण द्विहस्तञ्चैव निर्मितम् १४४
चतुरङ्गुलविस्तारं षडङ्गुलसुविस्तरम्
षडङ्गुलघनं प्रोक्तं वर्तुलाकारमुत्तमम् १४५
चतुरङ्गुलिकां कल्प्य पश्चात्पादद्वयन्तथा
करमानं यथाकल्प्य पश्चात्पुच्छं त्रयाङ्गुलम् १४६
षडङ्गुलघनं कुष्ठम् उत्तमं परिकीर्तितम्
अङ्गुलञ्च चतुर्विंशत् विंशाङ्गुलसुदीर्घकम् १४७
चतुरङ्गुलवक्त्रं स्यात् दर्पणोदरसन्निभम्
पक्षसङ्ख्या च विस्तारं नाहं वै चतुरश्रकम् १४८
चतुष्पदानि तद्बाह्ये त्रयाङ्गुलसुविस्तरम्
चतुरङ्गुलदीर्घाणि मद्ध्यमं सम्प्रकीर्तितम् १४९

षोडशाङ्गुलदीर्घञ्च त्रयोदशसुमद्ध्यमम्
त्रयाङ्गुलं मुखं विद्यात् नाहञ्चैव त्रयाङ्गुलम् १५०
तद्बाह्ये द्व्यङ्गुलञ्चैव विस्तारं पदमुच्यते
त्रयाङ्गुलं सुदीर्घाणि पुच्छमेकाङ्गुलं भवेत् १५१
कन्न्यसञ्चेति तत्प्रोक्तं वीरासनमथ श्रुणु
दक्षपादतलं भूम्यां वामोरू मद्ध्यमे तथा १५२
वामजानुं समावर्त्य सव्यजङ्घामधो तथा
दक्षोरुमूले संयोज्य कूर्मासन ——– १५३
ब्रह्मासनं तथा पश्चात्कल्पयेत्विधिवत्क्रमात्
दक्षपादतलं वामे सव्ये वामतलं न्यसेत् १५४
भूमौ विन्न्यस्य मात्रेण योगपट्टेन वेष्टयेत्
योगासनमिदं प्रोक्तं भद्रासनं ततश्शृणु १५५
वामपार्ष्णीमधोभागे वामपृष्ठे न्यसेत्ततः
अङ्गुलीन्भुविनिक्षिप्य सव्यं जङ्घमधो तथा १५६
सर्वपृष्ठे च संयोज्य अङ्गुलीन्भुविनिक्षिपेत्
द्विजानूभुविनिक्षिप्य गोकर्णञ्च ततश्श्रुणु १५७
सुखासनं भवेत्स्थित्वा वामोरूमद्ध्यमे तथा
वामपादतलस्यापि अधोभागे विशेषतः १५८
सव्यभागतलं स्थानम् ऊर्ध्वजनुभवेत्ततः
गोक—-मिति विख्यातं धैर्यासनं ततश्शृणु १५९
सम—-समतनुस्थानकञ्जपमुच्यते
दण्ड—-तिप्रोक्तं पिण्डासनन्ततश्शृणु १६०
गजोष्ट्रवाजियाने च सुखासीनं भवेत्ततः
राज्ञां विशेषमित्युक्तम् अन्येषां वर्जयेत्ततः १६१
सिह्मासनं विशेषेण भूभुजानां विशेषतः
सुखासनं भवेच्चैव वामपादप्रकोष्ठके १६२
सव्यपादप्रकोष्ठञ्च संयुक्तौ गजकर्णिका
गजकर्णमिति प्रोक्तं गजकट्यं ततश्शृणु १६३
द्विपादौ ऊर्ध्वदेशे तु मस्तकं भुविविन्न्यसेत्

जपं कृत्वा विशेषेण कटिदेशे करन्न्यसेत् १६४
कट्यासनमिति प्रोक्तं मयूरञ्च ततश्शृणु
करौ तलौ भुविन्यस्य हृत्कटिञ्च द्विपादकौ १६५
ऊर्ध्वदेशे समुत्थाय द्विकराभ्यां भुविन्यसेत्
मयूरासनमेवोक्तं जपकाले विशेषतः १६६
षट्त्रिंशाङ्गुइलदीर्घाणि उत्तमं परिकीर्तितम्
चतुरङ्गुलमायामम् अपक्वं पद्मपुष्पवत् १६७
अष्टाङ्गुलसमन्नाहं जर्झरां वर्जयेत्ततः
अथवाष्टाङ्गुलं दीर्घं दण्डन्तु कारयेत्ततः १६८
नाहं नवाङ्गुलं प्रोक्तं स्तम्भाकारं तथैव च
चतुरङ्गुलमायामं कलशाकृतिमुत्तमम् १६९
द्वादशाङ्गुलनाहं स्यात्पूर्णकुम्भाकृतिन्तथा
तदन्ते गजसङ्ख्या च विस्तारं दशसङ्ख्यया १७०
षडङ्गुलघनं प्रोक्तं चतुरश्राकृतिन्तथा
मद्ध्ये वेदाङ्गुलं वृत्तं परितोष्टदले न्यसेत् १७१
चित्राकारं प्रकल्प्याथ घातञ्चेच्चतुरङ्गुलम्
पश्चात् भागे च सङ्कल्प्य त्रयाङ्गुलघनं पृथक् १७२
षडङ्गुलन्तु विस्तारम् ऊर्ध्वपद्मदलाकृतिम्
तदग्रैकाङ्गुलं प्रोक्तं स्कन्दं कृत्वा विशेषतः १७३
षडङ्गुलञ्च विस्तारं तदन्ते मुनिसङ्ख्यया
त्रयाङ्गुलानि दीर्घाणि अष्टाङ्गुलसुविस्तरम् १७४
चतुरङ्गुलमायामं कुब्जाकारं द्विपार्श्वयोः
अन्ते द्वयाश्रं निर्वृत्य षडङ्गुलफनन्तथा १७५
मुखाग्रे मद्ध्यमे चैव द्व्यङ्गुलन्तु सुविस्तरम्
मद्ध्यमं प्राङ्मुखान्तञ्च सुषिरं द्व्यङ्गुलन्तथा १७६
धरण्यास्तु अधोभागे गजोष्ट्राकृतिलम्बितम्
षड्विंशाङ्गुलदीर्घाणि पद्मञ्चेत् चतुरङ्गुलम् १७७
नाहन्तु त्र्यङ्गुलं प्रोक्तं दीर्घमष्टदशाङ्गुलम्
नाहमङ्गुष्ठसाम्यञ्च आज्याधारं तदन्तके १७८

चतुरङ्गुलदीर्घाणि विस्तारञ्चतुरङ्गुलम्
पूर्णचन्द्रनिभाकारं पश्चिमे गजशीर्षकम् १७९
पूर्वे च मद्ध्यमे चैव आज्याधारं ततश्शृणु
अतिपक्वमपक्वञ्च अपक्वं वर्जयेत्ततः १८०
पक्वञ्च कर्दमे चैव कुरङ्गां घ्रीवकल्पयेत्
उत्तमञ्चैव विख्यातं मद्ध्यमञ्च ततश्शृणु १८१
दीर्घमष्टा च विंशत्या कल्पयेत् विधिवत्क्रमात्
त्वम्भोरुहं त्रयाङ्गुल्यं नवाङ्गुल्यं सुदण्डकम् १८२
कुम्भं त्रयाङ्गुलं प्रोक्तं दण्डमेकाङ्गुलन्तथा
अष्टाङ्गुलसमं नाहं पूर्णकुम्भाकृतिन्तथा १८३
चतुरङ्गुलनाहं स्यात् दण्डञ्चैव प्रकीर्तितम्
षडङ्गुलसुविस्तारं दीर्घञ्चैव षडङ्गुलम् १८४
चतुरश्रा कृतिं वेदीं त्रयाङ्गुलं सुविस्तरम्
अष्टच्छदा कृतिं कृत्वा नाहञ्चेत् चतुरङ्गुलम् १८५
द्वयाङ्गुलमधोभागे ऊर्ध्वपद्माकृतिन्तथा
त्रिपादं कण्ठमेवोक्तं भूतपादाङ्गुलन्तथा १८६
पादं द्वयाङ्गुलं प्रोक्तं वेदिकायास्समं भवेत्
कुब्जाकृतिं त्रयाङ्गुल्यं द्वयाश्राकृतिमुत्तमम् १८७
कनिष्ठाङ्गुलिमेवोक्तं सरणीं विधिवत्क्रमात्
अग्रे गजमुखाकारं दन्तौ हस्तौ च नेत्रयोः १८८
गजोष्ट्राकृतिमुत्पन्नं मद्ध्यमं सम्प्रकीर्तितम्
कुब्जाघातान्तमेवोक्तं स्रुवञ्चेति प्रकीर्तितम् १८९
स्रुक्स्रुवञ्च इति प्रोक्तं मण्टपालङ्कृतिं श्रुणु
वस्त्रमूर्ध्वपटाकारं सचोर्ध्वेऽलङ्कृतिन्तथा १९०
स्तम्भान्निगमसंवेष्ट्य पञ्चवर्णैरलङ्कृतम्
तदलीयुगपुन्नागेर्हिन्तालैसृधितालकैः १९१
इक्षुदण्डैर्वेणुपुष्पैस्तम्भकैर्नालिकेरकैः
नारङ्गलिकुचोपेतं छिन्नभिन्नसवेष्टितम् १९२
घटेषु रक्तवर्णानि अलङ्कृत्य विशेषतः

तन्मद्ध्ये दीपमारोप्य फलदीपन्ततश्शृणु १९३
कूष्माण्डफलमाहृत्य कव्यबीजं विवर्जयेत्
अनेकसुषिराकृत्या दीपमारोपयेत्ततः १९४
व्याघ्राकारन्तु सङ्कल्प्य दीपमारोपयेत्ततः
व्याघ्रदीपमिदं प्रोक्तं सिह्मदीपन्ततश्शृणु १९५
सिह्माकारञ्चतुष्पादं त्रिपादं स्थानकन्तथा
एकहस्ते समारोप्य दीपं योज्य विशेषतः १९६
यालामृगन्तु सङ्कल्प्य द्विपादं स्थानकन्तथा
करेषु दीपमारोप्य यालदीपमिहोच्यते १९७
गजाकृतिन्तु सङ्कल्प्य स्थानकञ्च चतुष्पदान्
हस्ते दीपं समारोप्य गजदीपं विशेषतः १९८
नराकारन्तु सङ्कल्प्य अश्ववक्त्रा कृतिन्तथा
दीपं सङ्कल्प्य यच्चैव यथाकारन्तु निर्मित १९९
दीपं हस्ते सुधार्यञ्च वृद्धदीपन्ततश्श्रुणु
वृद्धाकारं नरं कृल्प्य दण्डहस्तन्तु वामके २००
सुष्ठुदीर्घं समारोप्य ध्वजान् चैव ततश्श्रुणु
दीर्घञ्चेत् दशहस्तञ्च नाहञ्चैव दशाङ्गुलम् २०१
द्विकरं विस्तरं प्रोक्तं चतुर्हस्तन्तु दीपकम्
पञ्चवर्णैस्समालिख्य छत्रञ्चैव ततश्श्रुणु २०२
पञ्चहस्तसमं दीर्घं नाहं चेत् द्वादशाङ्गुलम्
द्विहस्तं विस्तरं प्रोक्तं वृत्ताकारसमन्तथा २०३
अर्द्धहस्ताकृतिं मद्ध्ये दीपञ्चैव ततश्श्रुणु
षष्ठाङ्गुलसमन्नाहं चत्वारि तदधश्चरेत् २०४
त्रिंशाङ्गुलमधश्चैव विंशाङ्गुलमधोऽपि वा
पञ्चाङ्गुलसमन्नाहम् ऊर्ध्वे पद्माकृतिन्तथा २०५
तत् बाह्ये परितः कृत्वा नाहमष्टाङ्गुलन्तथा
पञ्चवर्णैरलङ्कृत्य ऊर्ध्वे पद्माकृतिन्तथा २०६
मूलेषु ऊर्ध्वपद्मञ्च सूत्रं सङ्कल्पयेत्ततः
सूत्रान्संलिख्य तत्रैव पिञ्छपुष्पैरलङ्कृतम् २०७

मालाकाराणि पुष्पाणि अलङ्कृत्य विशेषतः
कुङ्कुमान्लेपयेच्चैव पार्श्वेषु लेपयेत्ततः २०८
कुण्डान्त्रिमेखलां कृत्य श्यामरक्तसु कुङ्कुमैः
अलङ्कृत्य विशेषेण कलशालङ्कृतिं श्रुणु २०९
त्रिसूत्रेणैव निर्वृत्य दक्षिणावर्त्तवेष्टयेत्
तिलमात्रं मद्ध्यमे च उत्तमं परिकीर्तितम् २१०
मद्ध्यमं यवमद्ध्ये च वेष्टयेत्तु विशेषतः
चतुर्यवप्रमाणन्तु कन्न्यसं सम्प्रकीर्तितम् २११
चन्दनञ्चैव निर्यासं कुन्दुरूषञ्च कुङ्कुमम्
धूमं घटे च संयोज्य सकूर्चं मद्ध्यमे न्यसेत् २१२
आपो वा इदग्सर्वं मन्त्रमुच्चारयेत्ततः
जलमापूरयेत्तत्र कुम्भन्न्यस्य विशेषतः २१३
उत्तमं नवरत्नानि मद्ध्यमं स्वर्णमुच्यते
अधमं रौप्यमेवोक्तं पद्मपुष्पाकृतिन्तथा २१४
अथवा पद्ममालिख्य विन्यसेत्तु विशेषतः
वर्द्धनीं मद्ध्यमे न्यस्य कल्हारकुसुमाकृतिम् २१५
कल्पयेत्साधकञ्चैव शेषं —-कृतिन्तथा
दर्भं स्थूलमधो भागे स्त्रीदर्भञ्च प्रकीर्तितम् २१६
अग्रे स्थूलाकृतिञ्चैव नपुंसक इतिस्तथा
मूलाग्रयोस्समं कुर्यात्पुमान्दर्भः प्रकीर्तितक २१७
श्याममुत्तममेवोक्तम् अन्यधा वर्जयेत्ततः
दर्भैस्समशिखान्कृत्वा षोडशं दर्भनिर्मितम् २१८
दक्षिणावृतमावृत्य मद्ध्ये ग्रन्धिन्तथैव च
अकाङ्गुलन्तु विस्तारम् अग्रे च चतुरङ्गुलम् २१९
काचिद्दर्भेण संवेष्ट्य आवृत्या वृत्यवेष्टयेत्
कराश्रात् मद्ध्यमान्तञ्च दीर्घञ्चैव प्रकीर्तितम् २२०
द्वादशं दर्भमेवोक्तं वर्द्धन्याः सम्प्रकीर्तितम्
अष्टदर्भाश्च सर्वेषां नन्द्यादीन् भूतसङ्ख्यया २२१
द्वात्रिंशद्दर्भसंयुक्तं कुण्डानां विष्टरन्तथा

बाहुमात्रसमं दीर्घं परिधीञ्च ततश्श्रुणु २२२
षोडशन्दर्भमेवोक्तं ग्रन्धिञ्चैव न कारयेत्
त्रिंशद्दर्भं तदेवोक्तं वेदिका विष्टरन्तथा २२३
कलशान्वस्त्रमावेष्ट्य पुनर्वस्त्रेण वेष्टयेत्
चतुर्विंशति दर्भांश्च कूर्चाकृति कृतन्तथा २२४
षट्त्रिंशत् वर्णमेवोक्तं चतुःकार्याधमन्तथा
पञ्चविंशतिवर्णं वा मद्ध्यमं सम्प्रकीर्तितम् २२५
द्वादशं दर्भमेवोक्तं कन्यसं च प्रकीर्तितम्
वर्णसङ्ख्या तदेवोक्तं व्रीहीसङ्ख्या श्रुतस्तथा २२६
सितशाली हेमशाली पुष्पशाली सुशालिनी
रागशाली द्रोणशाली गिरीशाली विशेषतः २२७
त्रिभारं धान्यमेवोक्तं वर्द्धन्याश्च प्रकीर्तितम्
द्विभारं मद्ध्यमेवोक्तं चतुःखार्याधमन्तथा २२८
त्रिखारी वर्द्धनीञ्चैव द्विखारीं परितस्तथा
खारिसङ्ख्या च सर्वेषाम् उत्तमं परिकीर्तितम् २२९
खारिसङ्ख्या तिलं प्रोक्तं माषं खार्यार्द्धमेव च
मूलं द्रोणमिति प्रोक्तं गोधूमं खारिसङ्ख्यया २३०
त्रिशिवं वेणुमित्युक्तं राजमाषं द्विखारिका
धान्यसप्तकमेवोक्तम् उपचारा द्विधीयते २३१
एतत् लक्षणहीनञ्चेत् राजाराष्ट्रं विनश्यति २३२
इति यागलक्षणपटलः सप्तदशः